Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 31
________________ त्रिषष्टिशलाकापुरुषचरितम् -गद्यात्मकसारोद्धारः इति श्रुत्वा प्रभव उवाच - "महानुभाव ! विपत्समुद्रे निमज्जन् को नाम नेच्छेत् नौकायमानं परोपकारपरायणं नरम् ? तदा जम्बूरुवाच - " मित्र ! तदहमपारभवपारापारे समुद्धारके गणधरदेवे सत्यपि किं निमज्जामि ? प्रभवोऽवोचत् - "भ्रातः ! स्वकीयौ स्नेहिनौ पितरावनुरागिणीगृहिणीश्च त्वं निष्ठुरः कथं त्यक्ष्यसि ?" ततो जम्बूरभिदधौ -“अहो ! शत्रुरपि को बन्धुनिर्बन्ध: ? यस्मात् तत्राऽऽसक्तो जनो कुबेरदत्त इव कर्मपाशेन नूनं बध्यते । ४८ प्रभवं प्रति जम्बूकुमारकथिता कुबेरदत्तकथा तथाहि-मथुरानगर्यामेकोत्तमा वेश्याऽभूत् । तस्याः कुबेरसेनेति नाम । सा च कामदेवस्य सेनेवाऽऽसीत् । सा चैकदा प्रथमगर्भेणाऽत्यन्तं खेदिता सती तदीयजनन्या वैद्यस्य दर्शिता । "यतः क्लेशे समुपस्थिते वैद्यः शरणं भवति" । वैद्यश्च नाडीपरीक्षया तां नीरोगामकथयत् । पुनः क्लेशकारणं तदुदरे युग्मं सुदुर्वहमुत्पन्नमिति न्यवेदयत् । अपि च प्रसवपर्यन्तं तेनैव हेतुना कुबेरसेनायाः क्लेशोऽस्तीति प्रोवाच । तन्माता तामुवाच - "वत्से ! प्राणनाशकेनाऽनेन गर्भेण किं प्रयोजनम् ? ततः ते गर्भमहं पातयामि" । ततो मातृवचः श्रुत्वा कुबेरसेनाऽवदत्-"मातः ! स्वस्ति गर्भाय, अहं गर्भदुःखं दुःसहमपि सहिष्ये; यत: सूकर्यप्यसकृदनेकसन्ततीर्जनयित्वाऽपि जीवत्येव; तत् कथं नाऽहं जीविष्यामि ?" ततः सा गर्भक्लेशं सहित्वा पूर्णसमये पुत्रं पुत्रीं च जनयामास । ततस्तन्मातोवाच - "पुत्रि ! एते अपत्ये तव वैरिणी स्तः, यतस्त्वमाभ्यां गर्भस्थिताभ्यां मृत्युद्वारे स्थापिताऽसि । पुनरेतद्वालयुगलं परिशिष्टपर्व द्वितीयः सर्गः तव यौवनापहारकं भावि । वेश्याश्च यौवनजीवना भवन्तीत्यतस्त्वं यौवनं जीवमिव रक्ष । हे वत्से ! उदरात् पतितमिदं युग्मं पुरीषवद् बहिस्त्यज । अत्र मोहं मा कार्षीः अस्माकमियमेव कुलरीतिर्वर्तते” । कुबेरसेनोवाच - "हे मातः ! यद्यप्येवं क्रमोऽस्ति तथाऽपि किञ्चिद् विलम्ब्यताम् । दश दिनानि यावदेतौ दारकावहं पोषयामि । एवं मात्रोपदिष्टा सा वेश्या कथञ्चिदपि तौ बालावहर्निशं दुग्धदानेनाऽपोषयत् । एवं तौ दारकौ पोषयन्त्यास्तस्याः कालनिशासदृशमेकादशं दिनं प्राप्तम् । ४९ सा च कुबेरसेना कुबेरदत्त - कुबेरदत्तानामाङ्किते द्वे मुद्रिके कारयित्वा तयोर्दारकयोरङ्गल्योर्न्यधत्त । ततो बुद्ध्या चतुरा सा दारुपेटां कारयित्वा तां रत्नैरापूर्य तत्र तौ दारकौ स्थापयामास । ततस्तां मञ्जूषां यमुनानदीप्रवाहे स्वयं प्रावाहयत् । सा च पेटिका हंसवत् तरन्ती निरुपद्रवं चचाल । तत: कुबेरसेनाऽपि निवृत्त्याऽपत्ययोर्नयनाञ्जलिभिस्तिलाञ्जलिं ददानेव निजभवनं जगाम । ततोऽसौ मञ्जूषा प्रातः समये शौर्यनगरद्वारे प्राप्ता । द्वाभ्यां श्रेष्ठिपुत्राभ्यां लोचनपथगता सा जगृहे । तां चोद्धाट्य यदा तौ ददृशतुस्तदा तन्मध्ये एकं बालमपरां बालिकां चाऽपश्यताम् । तत एकः श्रेष्ठिपुत्रो बालं जग्राह, अपरश्च बालिकामग्रहीत् । तौ तयोरङ्गुलिनिहितमुद्रिकाक्षरवाचनेन कुबेरदत्त - कुबेरदत्तानामानावित्यज्ञासिष्टाम् । ततस्तयोरिभ्ययोर्गृहे प्रयत्नेन परिपाल्यमानौ तौ स्वाम्यर्पितनिधानवत् ववृधाते । तौ क्रमेणाऽनेककलाविदौ बभूवतुः । क्रमेण कामदेवक्रीडोद्यानमभिनवं यौवनं तौ प्रापतुः । इमावनुरूपाविति


Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128