Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
प्रभवं प्रति जम्बूकुमारकथिता मधुबिन्दुपुरुषकथा तथाहि-कश्चित् पुरुषः सार्थेन देशाद् देशं परिभ्रमन् चौरमहानदीमटवीं प्रविवेश । तदा तस्यामटव्यां तं सार्थं लुण्टितुं चौरव्याघ्रा अधावन् । ततः सर्वे सार्थनिवासिनो मृगा इव पलायामासुः । सच पुरुष: सार्थात् परिभ्रष्ट आकण्ठमागतैः प्राणैरुद्गच्छत्कूपजलवद् महाटवीं प्राविक्षत् । तत्र विशालतरपर्वत इव स्यन्दमानमदनिर्झरः, उत्थितकर आकाशाद् मेघान् पातयितुमिव, पादप्रहारैरन्तः शुषिरिणीमिव पृथिवीं नमयन्, आध्मातताम्रवद्रक्तमुखो जलधर इवाऽतिगर्जन् साक्षाद् यमराज इव क्रोधोद्धरो वनवारणो वराकं कान्दिशीकं तं पुरुषं प्रति दधाव । अहं मारयिष्यामि याहि याहीति प्रेरयन्निव शुण्डतुषारैः पुनः पुनस्तं पुरुषं वारण: ताडयामास ।
४६
स पुरुषो भिया कन्दुक इव पतन्नुत्पतन् तेन हस्तिना गृहीतप्रायस्तृणावृतमेकं कूपं प्राप । तादृगवस्थायां गतो नूनं प्राणान् हरिष्यति, कूपे तु कदाचिज्जीवामीति स तत्र कूपे झम्पां ददौ । यतः प्राणिनां जीविताशा दुस्त्यजा भवति । तदवटतट एको वटवृक्ष आसीत्, तस्यैक आयतः पादो भुजङ्गमभोगवत् तत्कूपमध्ये लम्बमान आसीत् । कूपमध्ये पतन् स पुरुषोऽन्तरा तमेव पादमवलम्ब्य रज्जुबद्धघट इव तत्र तस्थौ । ततो हस्ती कूपमध्ये शुण्डं निवेश्य तन्मस्तकं स्पृशन्नपि करेण तं ग्रहीतुं तथा न शशाक, यथा मन्दभाग्यो रसायनौषधिम् ।
तत्र स मन्दभाग्योऽधो भागे यदा दृशमदात् तदा तत्कूपमध्यस्थितमेकं महाजगरमपश्यत् । सोऽजगरोऽपि मम दैवात् कलमुपस्थितमिति ज्ञात्वा कूपमध्ये द्वितीयकूपमिव मुखं व्याददौ ।
परिशिष्टपर्व द्वितीयः सर्गः
४७
पुनश्चतुर्दिक्षु चतुरः सर्पान् प्राणापहारिणो यमबाणानिव तत्र स ददर्श । दुष्टचेतसस्ते च सर्पास्तं पुरुषं वीक्ष्य फणामण्डलमूर्वीकृत्य तं दष्टुं धमनीसदृशैरास्यैः फूत्कारस्फूर्जितवातान् मुमुचुः । पुनः कृष्ण- श्वेतौ द्वौ मूषकौ तं वटप्ररोहं छेत्तुं चटच्चटेति दन्तक्रकचलक्ष्यं चक्रतुः । स मत्तो मतङ्गजस्तं पुरुषं शुण्डेनाऽप्राप्नुवन् वटमुन्मूलयन्निव वटशाखां जघान । हस्तिना कम्प्यमानेन वटप्ररोहेण स पुरुषो हस्तपादबन्धं कुर्वाणो बाहुयुद्धमिव रचयामास ।
तदा गजताड्यमानवटशाखामध्यात् तोमरानना मधुमक्षिका मधुमण्डकं विहायोदडयन्त । ता मक्षिकास्तं पुरुषं लोहसंदंशसदृशैस्तुण्डैः कीकसविश्रान्तैर्जीवाकर्षकैरिव ददंशुः । तदोत्पक्षमक्षिकाव्याप्तसर्वाङ्गः स पुरुषः कूपाद् निर्गन्तुमुद्यतः कृतपक्ष इवाऽलक्षि । तस्य पुरुषस्य मस्तके मधुबिन्दुर्मधुकोशाद् मुहुर्मुहुः सलिलधानीमध्याज्जलबिन्दुरिव निपपात । स मधुबिन्दुर्भालप्रदेशात् तस्य मुखं प्राविशत्, ततः स तं मधुबिन्दुमास्वाद्य महत् सुखं मेने ।
"हे प्रभव ! एतस्य दृष्टान्तस्य सारांशं शृणु- "अत्र यः पुरुषः स संसारी जीव: । या महाटवी सा चतुरशीतिलक्षयोनिसंसृति: । यो गजः स मृत्युः । यः कूपः स मनुष्यजन्म । योऽजगरः स नरकः । ये सर्पास्ते क्रोधादयः । यो वटप्ररोहः स तदायुः । यौ कृष्ण-श्वेत मूषकौ तौ मासस्य कृष्ण-शुक्लौ द्वौ पक्षौ तौ चाऽऽयुश्छेदप्रसक्तौ । या मक्षिकास्ताः सांसारिणो व्याधयः । यो मधुबिन्दुः स विषयजन्यं क्षणिकं सुखम् । इति ज्ञात्वा कश्चतुरस्तत्राऽनुरागं कुर्यात् ? यदि देवोऽथवा विद्याधरस्तं पुरुषं कूपादुद्धरेत् तदा दैवदूषित: स नेच्छेत् किम् ?"

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128