Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
४४
चरितम-गद्यात्मकसारोद्धारः त्रिषष्टिशलाकापुरुषचरितम्-गद्यात
ततः प्रथमतः सर्वज्ञ पश्चात् कुलदेवतां वन्दित्वा वधू-वराणां करेभ्यो विवाहबद्धकङ्कणमोक्षणमभूत् । तदनन्तरं हर्षितौ धारिण्यषभदत्तौ जम्बूद्वीपनाथस्य देवस्य स्वयं सविधिपूजां चक्रतुः । ततः सकलालङ्कारभासुरो जम्बूकुमारोऽपि निजवनिताभिः सह निवासभवनं जगाम । तत्रर्षभनन्दनः सभार्योऽपि ब्रह्मचर्यधरोऽस्थात् । यतो महाशया विकारहेतावुपस्थितेऽपि विकारहीना भवन्ति ।
श्रीजम्बूकथानके प्रभवचोरवृत्तान्तः इतश्चाऽस्मिन् भरते विन्ध्यपर्वतसमीपे जयपुरं नाम नगरमस्ति । तस्मिन् विन्ध्यनामा राजाऽभवत् । तस्य प्रसिद्धौ प्रभव-प्रभुनामानौ द्वौ पुत्रावभूताम् । एकदा विन्ध्यो राजा प्रभवे ज्येष्ठपुत्रे सत्यपि कनिष्ठाय प्रभुनामपुत्राय राज्यं केनचित् कारणेन ददौ । ततोऽपमानितो ज्येष्ठः प्रभवो जयपुरनगराद् बहिनिःसृत्य विन्ध्याचलस्य विषमभूमौ वासं निर्मायाऽस्थात् । तत्र सपरिवारः स खात्रखननैर्बन्दिग्रहणैर्मार्गपातनैश्चौरैरन्यैश्च प्रकारैर्जीविकां चकार ।
अथैकदा तस्य गुप्तचरा आगत्य कुबेरस्याऽप्युपहासिनी जम्बूकुमारसम्पत्ति विज्ञापयाञ्चक्रुः । जम्बूकुमारविवाहोत्सवे मिलितान् बहूनत्यर्थं धनाधिपतीनर्थचिन्तामणीनिव स्थितान् कथयामासुश्च । ततश्च स दस्युशिरोमणिः प्रभवोऽवस्वापनिकातालोद्घाटिनीभ्यां विद्याभ्यां सहितस्तदैव जम्बूकुमारभवनं प्रययौ । ततः प्रभवोऽवस्वापनिकया विद्यया जम्बूकुमारं विना सर्वं जाग्रतं लोकं स्वापयामास । साऽवस्वापनिका विद्या प्रचुरपुण्यशालिनो जम्बूकुमारस्य स्वापे नाऽशकत् । प्रायः पुष्कलपुण्यानामिन्द्रोऽपि विपत्तिदाने न समर्थः । ततो दस्यवो निद्रामुपागतानां सर्वेषामपि भूषण-वसनादिसर्वस्वं ग्रहीतुं प्रावृतन् ।
परिशिष्टपर्व - द्वितीयः सर्गः
ततो महामना जम्बूकुमारो लुण्टाकेष्वपि लुण्टत्सु कोपक्षोभरहितो लीलयेदमुवाच-"भो भो दस्यवः ! इह निमन्त्रितानागतान् प्राघूर्णकाञ्छयानान् विश्वस्ताञ्जनान् मा स्पृशत, एषामहं यामिको जागर्थेषः" । ततो महापुण्यप्रतापस्य जम्बूकुमारस्येदृशा वचसा ते चौराः स्तब्धशरीरा लेप्यमया इव बभूवुः, प्रभवोऽपि निभालयन् करेणुभिर्गजेन्द्रमिव ताभिः स्त्रीभिः सह परिवृतं जम्बूकुमारं ददर्श, आत्मानं च निवेदयामास-“हे महात्मन् ! अहं विन्ध्यनाम्नो राज्ञः पुत्रोऽस्मि, मां मैत्र्याऽनुगृहाणेति स्वं परिचाययामास । हे मित्र ! स्तम्भनीं मोक्षणीं च विद्यां त्वं मह्यं देहि, अहं तुभ्यमवस्वापनिकां तालोद्घाटिनी च विद्यां ददामि" ।
ततो जम्बूकुमार उवाच-“हे प्रभव ! निर्ममोऽहं नवोढा अपि स्त्रियोऽष्टावपि प्रभाते त्यक्त्वा दीक्षां ग्रहीष्यामि । भो प्रभव ! इदानीमप्यहं भावयतीभूतोऽस्मि, तेन हेतुना तवेयमवस्वापनिका विद्या मां स्वापयितुं नाऽशकत् । हे भ्रातः ! प्रातरहमिमां लक्ष्मी तृणवत् परित्यक्ष्यामि, तहि वपुष्यपि नि:स्पृहस्य मे तवाऽनया विद्यया कि प्रयोजनमस्ति ?
तच्छ्रुत्वा प्रभवोऽपि तामवस्वापिनीं विद्यां संवृत्य जम्बूकुमारं प्रणम्य कृताञ्जलिरुवाच-“हे मित्र ! इदानीं नवयौवनो विषयसुखं भुक्ष्व । त्वं विवेक्यसि, अत इमासु नवोढास्वनुकम्पस्व। इमाभिर्नवोढाभिः सह भुक्तभोगफलो भव । तत्पश्चाद् गृहीता परिव्रज्याऽपि तव शोभिष्यते" । जम्बूकुमारोऽप्युवाच-"हे मित्र ! विषयभोगजन्यं सुखं स्वल्पं बह्वपायं च भवति। तर्हि नो दुःखहेतुनाऽमुना किम् ? प्राणिनो विषयसेवनजं सुखं सर्षपादप्यत्यल्पीयः, दुःखं तु प्रचुरं मधुबिन्दुप्रभृतिपुरुषवत्" ।

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128