Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 27
________________ ४० परिशिष्टपर्व - द्वितीयः सर्गः ४१ mannamanna त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः जगाम तावत् तत्राऽपि वप्रं यन्त्रितमवलोकयामास । वप्रोपरितनभागे यन्त्रेषु गगनतलाद् निपतत्कुलिशगोलककल्पा महाशिला लम्बिता अपश्यत् । स एवं व्यचारयत्-"एतादृश उपक्रमः परचक्रभयाद् निर्मितोऽस्ति, तदनर्थबहुलेनैतेन द्वारेणाऽलम् । अनेन द्वारेण प्रविशतो ममोपरि यदि शिला पतेत् तदा नाऽहं, न मे रथो, न रथ्या सारथिश्च न वर्तेत । एवं चाऽविरतो मृत्युं प्राप्य दुर्गति प्राप्नोमि, यतः कुमरणप्राणिनां दुर्गतिर्भवत्येव, तेषां सुगतिस्तु गगनकुसुमवद् दुर्लभा । अहं स्वार्थभ्रष्टो मा भूवं तस्मादितोऽहं पुनः परावृत्य श्रीसुधर्मस्वामिचरणारविन्दमकरन्दास्वादमिलिन्दो भवामि" । एवं विचिन्त्य ऋषभनन्दनः कुटिलग्रह इव स्वरथं वालयित्वा पुनस्तमेव गणधरचरणकमलालङ्कृतं प्रदेशं जगाम । तत्र जम्बूकुमारः श्रीसुधर्मस्वामिनमभिवाद्य यावज्जीवं मनसा वचसा कर्मणा च ब्रह्मचर्यं स्वीकरोमीति विज्ञपयामास । ततो भगवता गणभृताऽनुज्ञातो जम्बूकुमारो नियममङ्गीकृत्य प्रसन्नः कामविकाररहितो निजं धाम जगाम । पित्रोश्च तत्रैवं निजगाद-"हे पितरौ ! अहं गणधरश्रीसुधर्मस्वामिमुखकमलादद्य सर्वज्ञप्रणीतं कर्मरोगशमनैकभेषजं धर्ममश्रौषम् । तेन जातभववैराग्यं परिव्रज्यां ग्रहीतुमुद्यतं मामनुजानीत । यत एष संसारो जन्मिनां कारागारसहोदरः खलु प्रतिभाति" । तन्निशम्य तदीयपितरौ गद्गदस्वरावेवमूचतुः-"वत्स ! त्वमसमयेऽस्मदाशालतोन्मूलनप्रभञ्जनो मा भूः । इदानीमावामिदं चिन्तयावः-यत् त्वं सवधूको भविष्यसि, लोचनकुमुदचन्द्रं नन्दननन्दनवदनं द्रक्ष्यावः" । विषयभोगयोग्येऽस्मिन् यौवने प्रव्रज्याग्रहण समयो न तवाऽस्ति । एतस्योचितमाचारं किञ्चिदपि किं न कामयसे? हे वत्स ! यदि तव प्रव्रज्यायां प्रचण्डपवनवेगवदाग्रहो विद्यते तथाऽपि तव गुरवो वयं खलु स्म, इति तावदस्माकं किञ्चिद् वचनमङ्गीकुरु । वत्स ! या अष्टौ कन्यास्तुभ्यमस्माभिर्वृतास्तासां पाणिग्रहणेनाऽस्माकं विवाहकौतूकं पूरय । कुमार ! एवं कृत्वा त्वं निःशङ्कं परिव्रजेः । अथ वयमपि कृतार्थास्त्वामनुप्रव्रजिष्यामः । तदा जम्बूकुमार उवाच-"आर्या ! युष्माकमस्मिन् निर्देशे कृते बुभुक्षोरशनादिव प्रव्रज्याग्रहणादहं न निषेध्यः" । पितरावामित्युक्त्वा कन्यापितृकृपापरौ शीघ्रमूचतु:-"असौ मत्कुमारोऽस्मदाग्रहेणाऽष्टानां श्रेष्ठिनामष्टभिः कन्याभिः सह विवाहं करिष्यसि" । अथ पुनः कन्यापाणिग्रहणानन्तरं मत्कुमारः प्रव्रजिष्यति । हे श्रेष्ठिनो ! यदि यूयं पश्चात्तापपापं करिष्यथ, तदाऽधुना तद्विवाहं न कारयत । एवं कथयतामस्माकं दोषो न देयः" । तच्छ्रुत्वाऽष्टावपि सस्त्रीका महेभ्या अस्मिन् विषये कि कर्तव्यमिति विषीदन्तो निर्णेतुं परस्परं संलपन्ति स्म । तेषां श्रेष्ठिनां संलापमाकर्ण्य ता: कन्या ऊचुः-“हे पितरो ! विचारेणाऽलम् । अत्र निश्चयं शृणुत-युष्माभिर्वयं जम्बूकुमाराय दत्ता: स्मस्तर्हि नोऽयमेव स्वामी, वयं नाऽन्यस्मै दातव्याः, लोकेऽप्येवं प्रसिद्धमस्ति" । "सकृज्जल्पन्ति राजानः, सकृज्जल्पन्ति साधवः । सकृत् कन्याः प्रदीयन्ते, त्रीण्येतानि सकृत्सकृत् ॥१॥" पितृचरणैर्जम्बूकुमाराय वयं समर्पिताः स्मः, तस्मात् स एवाऽस्माकं गतिः । वयं तदधीनजीविताः सञ्जाताः स्मः । तस्माद् यदि जम्बूकुमारः प्रव्रज्यामितरद् वा करिष्यति, तदेवाऽस्माकं

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128