Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
परिशिष्टपर्व - द्वितीयः सर्गः
३७
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः द्वादशावर्तवन्दनेन श्रीसुधर्मस्वामिनं भक्त्या वन्दित्वाऽग्रे समुपाविशन् । बद्धपाणिपुटास्ते च सुधर्मस्वामिनो धर्मोपदेशामृतं श्रवणपुरतितरामपुः ।
अथाऽवसरे सिद्धपुत्रः श्रीसुधर्मस्वामिनमप्राक्षीत्-"भगवन् ! यन्नाम्ना जम्बूद्वीपः ख्यातः सा जम्बूः कीदृशी विद्यते ?" ततः सुधर्मस्वामी तां जम्बू जात्यरत्नमयाकृतिमकथयत्, तन्मान-प्रभावस्वरूपादि चाऽऽख्यत् । तदा धारिणी चाऽवसरमासाद्य भगवन्तं गणधरमपृच्छत्-"प्रभो ! मम पुत्रो जनिष्यते न वा" इमं प्रश्नमाकर्ण्य सिद्धपुत्रोऽवदत्-“हे धारिणि ! महापुरुषं सावा प्रष्टुं नाऽर्हसि, यतो महर्षयः जानन्तोऽपि सावद्यं न जल्पन्ति । हे कल्याणि ! जिनपादोपदेशेन निमित्तज्ञानकुशलोऽहमेव तत् कथयामि तच्छृणु-धीरस्वभावो मनसा कायेन च पराक्रमी शिलापृष्ठे समुपाविष्टः सुधर्मस्वामी त्वया यत् पुत्रजन्म पृष्टस्तत्रेदं बोध्यं, "यदा स्वप्जे त्वं क्रोडस्थितसिंह द्रक्ष्यसि ततो गर्भे पुत्रसिंह धारयिष्यसि । समये प्रसिद्धजम्बूवृक्षवद् गुणरत्नमयश्च जम्बूनामा देवताकृतसन्निधिस्तव पुत्रो भविष्यति ।
ततो धारिण्युवाच-"विद्वन् ! तर्हि जम्बूदेवतामुद्दिश्याऽष्टोत्तरशतमाचाम्लान्यहं करिष्ये" । ततस्ते त्रयोऽपि वन्दितसुधर्मस्वामिचरणकमला वैभारगिरिशिखरादुत्तीर्य स्वपुरं जग्मुः । ततस्तौ दम्पती सिद्धपुत्रवचनप्रत्याशया गृहस्थतां पालयन्तौ कालं गमयामासतुः ।
एकदा धारिणी स्वप्ने श्वेतवर्ण सिंहमपश्यत्, तेनाऽतिप्रसन्ना सा तत्स्वप्नं स्वामिनं कथयामास । ऋषभः प्रत्युत्ततार-"प्रिये !
अनेन स्वप्नेन मम विश्वासोऽजनि यत् सिद्धपुत्रवचनं तत् सर्वं सत्यमेव । हे महाभागे ! पवित्रचरित्रः शुभलक्षणो जम्बूनामा पुत्रस्तवाऽवश्यमुत्पत्स्यते" । अथ समये जाते तदा विद्युन्मालिसुरो ब्रह्मदेवलोकाच्च्युत्वा धारिणीकुक्षौ शुक्तौ मौक्तिकमणिरिवाऽवततार । ततो धारिण्या देव-गुरुपूजनेषु दोहदः समजनि, यतो नारीणां दोहदा गर्भभावानुसारिणो भवन्ति । ऋषभः श्रेष्ठी भूयसा धनेन तद्दोहदमपूपुरत्, श्रेष्ठ्यपि धनव्यये धर्मकार्ये उत्पन्नदोहद इवाऽभूत् । क्रमेण धारिणी पुष्यद्गर्भाऽतिमन्दं गर्भक्लेशागमभीत्या सावधानेव सञ्चचार । तस्याः कपोलफलकावतिपाण्डुतया प्राभातिक चन्द्रबिम्बसदृशावभूताम् । ततः सार्धसप्तदिनाधिकनवमास्या धारिणी दीप्तिजितसूर्यं पुत्रं प्रासूत । ___ तदर्षभस्य गेहे मुक्ताचूयेव घटितैरतिविशदैरक्षतैः पूर्णानि सुवर्णपात्राणि प्रविविशुः । श्रेष्ठिनि कुलवृद्धस्त्रीक्षिप्तैश्च्युतैर्दूर्वा
कुरैस्तदासनासन्नभूमितले दूर्वावणमिव बभूव । ऋषभगृहद्वारे सकलकल्याणप्रधानानि बहुविधानि तूर्यवर्याणि लक्ष्मीनृत्यनिबन्धनं नेदुः । कुलाङ्गनाश्च नवकुसुमस्तबकभूषितकेशपाशा मधुमत्तकोकिलस्वरेण संगायन्त्यो ननृतुः, ऋषभश्च विशेषतो देव-गुरुपूजां व्यधात् । प्रार्थ्यमानोऽर्थिभिस्तेभ्योऽत्यर्थमर्थममन्दानन्दतुन्दिलो व्यतार्षीच्च ।
शुभदिने सानन्दः श्रेष्ठी स्वयं सूनोर्जम्बूतरुनाम्ना जम्बूरिति नामाऽकर्षीत् । पितरौ तं शिशुमङ्कगतमुल्लापयन्तौ रात्रिन्दिवं विस्मृतान्यकारों हर्षप्रकर्षवातुलावभूताम् । जम्बूकुमारोऽपि पित्रोरङ्कालङ्कारीभूतः क्रमेण तयोर्मनोरथवद् ववृधे । पित्रोराशालतातरु: स ऋषभनन्दनः क्रमेण यौवनवयः प्रपन्नः पाणिपीडनयोग्यो बभूव ।

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128