Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 23
________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पुत्रोऽन्तिमकेवली भविष्यति । तदा प्रसन्नर्षिसमीपे विद्युन्मालिनि सुरे गते तस्य चतस्रः स्रियस्तं महामुनि प्रत्येवं पप्रच्छु:-"अस्माद्विद्युन्मालिसुराद् वियुक्तानामस्माकं पुन: क्वाऽपि तस्य समागमो भविष्यति न वा?" ऋषिरुवाच-"देव्यः ! अस्मिन्नेव पुरे समुद्रः १ प्रियसमुद्रः २ कुबेरः ३ सागरः ४ इति चत्वारः श्रेष्ठिन: सन्ति । तेषां चतुर्णा यूयं चतस्रः पुत्र्यो भविष्यथ । तत्र मनुष्यत्वं प्राप्तेनाऽमुना सह युष्माकं सङ्गमो भावी । ततः सुरा-ऽसुरसेवितचरणारविन्दो दयासागरः श्रीमहावीर: प्रभुभव्यकमलदिवाकरोऽतिशयद्धिपात्रमन्यत्र विहर्तुमगमत्" ॥ १॥ इति परिशिष्टपर्वणि जम्बूस्वामिपूर्वभववर्णनात्मकः प्रथमः सर्गः॥१॥ द्वितीयः सर्गः श्रीजम्बूस्वामिकथा इतश्च राजगृहे नगरे पुष्कललक्ष्मीरिन्द्र इव नृपवरः श्रेणिको राज्यं पालयामास । तदीयसभालङ्कारो नरवरशिरोमणिधर्मकर्मश्रेष्ठः श्रेष्ठी ऋषभदत्तनामाऽभूत् । स समस्तेष्टसिद्धिप्रदमन्त्रवर्णवत् "मम देवोऽर्हन् गुरुस्तु साधु" रित्येव रात्रिन्दिवं जपन्नासीत् । तन्मनोजलं सदा गुरुवचनकतकचूर्णयुतं विगतदुर्ध्यानमलं विमलं बभूव । तस्यैश्वर्यं सरोवरस्य सलिलमिव पथिवृक्षस्य फलमिव केषां केषां प्राणिनामुपकारकं नाऽभूत् । मत्या धर्मानुरागिणी गत्या हंसानुहारिणी तस्य धारिणीनाम्नी सधर्मचारिणी बभूव । तस्या विपुलतमगाम्भीर्य-धैर्य-माधुर्यप्रभृतिगुणेसु सत्स्वपि शीलगुण एव सम्यक् प्रयासो बभूव । यतः कुलाङ्गनाः शीलालङ्कारा भवन्ति । सा सती गुप्तसमस्ताङ्गी नीरङ्गीभूषिणी सूर्यस्याऽपि करस्पर्शासहिष्णुरिव समचरत् । शील-विनयप्रभृतिनिरतिशयस्वच्छगुणैः सागरमध्ये गङ्गेव प्राणनाथस्य हृदये सा व्यलीयत । नख-मांसयोरिव नित्यमिलितयोस्तयोxिदेहैकहदययोः स्नेहोऽखण्डितो बभूव । एकदाऽपत्यरहिता धारिणी निष्कलाया लताया इव मम निःसन्तानं जन्म व्यर्थमिति दध्यौ । धन्यजीवनानामेव स्त्रीणां क्रोडे सुधारस इवाऽङ्गे शीतलत्वं जनयन् पुत्रः क्रीडति । तत्राऽपि

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128