Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
परिशिष्टपर्व - प्रथमः सर्गः
Pommannamanninnnnnnnnn
२८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmins
तदा पितराववोचताम्-"वत्स ! यथा वाद्यमानायां वीणायां शास्त्रपाठो व्यर्थस्तथा यौवनेऽपि तव व्रताग्रहः । अधुना त्वं युवराजः, पुना राजा भविष्यसि, तस्माद् राज्यं चिरं पालयित्वा समये प्रव्रजे:"। ततः सागरदत्त उवाच-'हे पितरौ ! मया राजलक्ष्म्यश्चेतसो दूरीकृताः, अतो मां परिव्रज्यां ग्रहीतुं किं नाऽऽदिशथः । एवमत्याग्रहकुठारेण स चतुरः सागरोऽथ पित्रोः स्नेहपाशमच्छिदत् । ततस्तौ तं व्रतग्रहणायाऽऽज्ञापयाञ्चक्रतुः ।
अथाऽनेकराजपुत्रपरिवारपरिकरितः सागरः सागराचार्यपार्श्वऽमृतोपमं व्रतमग्रहीत् । ततः स सागरदत्तो मुनि नाभिग्रहधरो गुरुशुश्रूषानिरतः क्रमाच्छास्त्रसमुद्रपारङ्गतोऽभूत् । ततस्तपस्यतस्तस्य तपसः किमपि दूरे नाऽस्तीति प्रतीतिजनकमवधिज्ञानमुदपद्यत ।
शिवकुमारकथा इतश्च भवदेवजीवोऽपि प्रथमस्वर्गभोगकाले पूर्णे स्वर्गाच्च्युतस्तत्रैव विजये पुरीशिरोमणौ वीतशोकायां पद्मरथसंज्ञस्य महर्द्धर्नृपस्य वनमालादेव्याः शिवनामा पुत्रोऽभूत् । स उद्गतः कल्पवृक्ष इव यत्नेन पाल्यमानः क्रमेण वर्द्धमान: काकपक्षधरोऽभूत् । तस्मिन् साक्षिमात्रकृतगुरौ प्राज्ञवरे परस्परं गृहीतसङ्केता इव सकला: कला: प्राविशन् । स यौवने कुलोद्भवा राजकन्याः पर्यणैषीत्, ताभिर्युतो लताभिस्तरुरिव रेजे।
एकदा प्रासादे स्थितस्य सस्त्रीकस्य नगरीबाह्योद्याने सागराचार्यः समवससार । तत्र कामसमद्धनामा सार्थवाहो मासक्षपणपारणे तं महर्षि भक्त्या प्रत्यलाभयत् । पात्रदानप्रभावात् कामसमृद्धस्य गृहे गगनाद् वसुधाराऽपतत् । यत:-'पात्रे दानात् किं न
भवति ?' शिवकुमार आश्चर्यकरं तच्छ्रुत्वा सागराचार्यं समुपेत्य ववन्दे । तच्चरणसमीपप्रदेशे राजहंस इवोपविवेश च । ततश्चतुर्दशपूर्वी सागरो महामुनिरपि सपरिवारं शिवं प्रत्यार्हतं धर्ममुपदिदेश । विशेषतः प्राज्ञस्य तस्य स्फटिकस्वच्छे हृदये स महर्षिः संसारासारतां प्रवेशयामास ।
शिवकुमारः सागराचार्यं पप्रच्छ-"भगवन् ! कि पूर्वजन्मभवोऽयं स्नेहोऽस्ति ? यतो भवतः पश्यतो मेऽधिकाधिकः प्रमोदो जायते" । इत्याकाऽवध्युपयोगेन ज्ञात्वा मुनिरुवाच-"वत्स ! त्वं पूर्वजन्मनि प्राणेभ्योऽप्यधिकः प्रियो ममाऽनुज आसीः । पूर्व गृहीतव्रतेन मया प्रयासेन त्वमनिच्छन्नपि परलोकहितकामनया व्रतं ग्राहितः । आयुःक्षये सुधर्मे कल्पे आवां परमद्धिको सुरावभूव । तत्राऽपि कुमुदचन्द्रयोरिवाऽऽवयोः स्नेहोऽभूत् । अस्मिन् भवेऽहं वीतरागः स्व-परयोः समानदृक्, त्वं त्वद्याऽपि सरागत्वाद् मयि पूर्वजन्मस्नेहभागसि ।
ततः शिवकुमार उवाच-"भगवन् ! अहं पुराऽपि व्रतग्रहणाद् देवोऽभूवम् । तदिहाऽपि भवे प्राग्जन्मवद् मे व्रतं देहि । यावदहं पितरौ व्रतहेतवे पृष्ट्वाऽऽगच्छामि तावत् पूज्यपादा भवन्तो मयि कृपालव इहैव विराजन्ताम् । ततो गत्वा शिवकुमारः पितृपादान् न्यवेदयत् । “अद्य सागरदत्ताचार्यस्य धर्मदेशना मयाऽ श्रावि । तत्प्रसादात् संसारासारताऽधिगता । ततः संसाराल्लतापुञ्जाद् भारिक इवाऽहं विरक्तोऽस्मि । तन्मां प्रव्रज्याग्रहणायाऽनुमन्यध्वम् । अद्य मोहतमसः प्रत्यूषसमः सागरर्षिर्मे शरणमस्ति ।
एतद् निशम्य पितराववोचताम्-"वत्स ! यौवने व्रतं मा ग्रहीः, अद्याऽप्यस्माकं त्वत्क्रीडादर्शनजं सुखं न पूर्यते । एकपदेऽपि

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128