Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
पुनः किमुपबुभुक्षसे ? मांस - शोणिता - ऽस्थि - विष्टा - मूत्राद्यशुचिपूर्णाऽहं वान्तादपि परमाधमा जुगुप्सनीयाऽस्मि । तत् किमीदृशीं मां कामयमानो न जिह्रेषि ? पर्वते ज्वलन्तमग्नि पश्यसि चरणयोरधः पुनर्न, यत् परं शिक्षयसि स्वयं स्वं न, येऽन्यशिक्षादक्षास्तेषां पुंसां का गणना ? ये पुनः स्वं शिक्षयितुं समर्थास्तेषां नृणां पुंसु गणना" ।
२६
एतन्निशम्य भवदेवोऽवदत्-" हे अनघे ! त्वयाऽहं साधु शिक्षितः । जन्मान्ध इवोत्पथे गच्छन्नहं पन्थानमानीतोऽस्मि । तदद्य स्वजनान् दृष्ट्वा गुरुसकाशे गमिष्यामि । तत्र व्रतातीचारमालोच्य दुस्तपं तपस्तप्स्ये च । नागिलोवाच - स्वजनैस्ते किम् ? स्वार्थपरायणो भव । ते हि गुरुदर्शने मूर्ता विघ्नाः सन्ति । तस्माद् गुरुसकाशं गच्छ । दान्तात्मा व्रतं कुरु । अहमपि व्रतिनीपार्श्वे प्रव्रजिष्यामि ।
अथ भवदेवः समाहितो जिनबिम्बानि वन्दित्वा गुरुपार्श्व गत्वाऽऽलोचनादिकृत्यमकरोत् । भवदेवः श्रामण्यं निरतीचारं प्रपालयन् कालधर्मं कृत्वाऽऽदिकल्पे शक्रसामानिक: सुरोऽभूत् ।
सागरदत्तकथा
इतश्च भवदत्तस्य जीवस्स्वर्गाच्च्युत्वा विदेहधरणिशिरोमणी पुष्कलावत्यां विजये पुण्डरीकिण्यां नगर्यां वज्रदत्तस्य चक्रवर्तिनो यशोधरानाम्न्या राज्याः कुक्षाववातरत् । तस्मिन् गर्भस्थे यशोधरादेव्याः समुद्रस्नाने दोहदोऽभूत् । ततो वज्रदत्तनृपः समुद्रसदृश्यां सीतानद्यां यशोधरादेवीं क्रीडयित्वा तदीयदोहदमपूपुरत् । अथ पूर्णदोहदा सा यशोधरादेवी लतेवाऽधिकाधिकं लावण्यं प्राप । क्रमेण पूर्णे समये यशोधरा गङ्गा कनककमलमिवोत्तमं पुत्रमजीजनत् ।
परिशिष्टपर्व प्रथमः सर्गः
वज्रदत्तनृपः शुभे दिने यशोधरायाः सागरस्नानदोहदानुसारि सागरदत्त इति नामाऽकार्षीत् । स राजपुत्रो धात्रीभिर्लाल्यमानः पयःपानादिभिः कर्मभिः पाल्यमानश्च तरुरिव क्रमेण वृद्धि प्राप । जातवाक्प्रचारः स कुमारः स्वर्णदण्डमुत्थाप्य शुकशारिका: सोत्कण्ठं पाठयामास । प्रौढतां प्राप्तः पुष्टः स रङ्गभूमौ नृत्यन्मणिकुण्डलः सुहृद्भिः सह रत्नकन्दुकैरक्रीडत् । राज्ञा समये गुरुसकाशे नियुक्तो गुरोः सकलाः कलाः पथिकः कूपादप इव परिपपौ । विश्वस्याऽपि नयनकैरवाणि प्रमोदयन् विधुरिव सम्पूर्णकलो यौवनं स प्रापत् । पितृभ्यां स्वयंवरागताः कन्याः स परिणिन्ये । यतो नद्यो रत्नाकर - मिव कन्या: पात्रमागच्छन्ति । ताभिः कन्याभिः सह वृषभोऽनड्वाहीभिरिव, हस्ती हस्तिनीभिरिव चन्द्रस्ताराभिरिव चिक्रीड ।
२७
अन्यदा कामदेवकल्पः स प्रासादे स्त्रीभिः सह रममाणो गगने मेरुसदृशं मेघमण्डलमपश्यत् अचिन्तयच्च - "अहो ! आगमे मेरुर्यादृक् श्रूयते तादृग् मेघमयोऽयं रमणीयो दृश्यते । एवं मेरुवद् मेघमण्डलं प्रेक्षमाणस्य तस्य तन्मध्ये विलग्नेव दृष्टिरधोमुखी नाऽजनि । कुमार उत्पश्यो यावद् मेघमण्डलं ददर्श तावद् बुद्बुद्वत् तन्मेघमण्डलं विलीय क्वचिज्जगाम ।
ततः कुमार एवमचिन्तयद् यथा मेघोऽयं क्षणिकस्तथा देहोऽपि प्राणिनामेषः तर्हि सम्पत्तीनां का कथा ? यत् प्रातर्दृश्यते तन्मध्याह्ने न, यच्च मध्याह्ने तद् न रात्रौ, अतः सर्वेषां पदार्थानामस्मिन् संसारेऽनित्यत्वमवधार्यते । तस्माद् विवेकजलसिक्तमनुष्यभववृक्षस्य सकामनिर्जरासारं व्रतं फलं पश्यामि । इति विचारानन्तरं सागरदत्तकुमारः परमं वैराग्यं धारयन् व्रतग्रहणाय कृताञ्जलिः पितरौ पप्रच्छ ।

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128