Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
परिशिष्टपर्व - प्रथमः सर्गः
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः त्वं कथमत्यन्तं निर्ममोऽभू: ? अपरिचितानिवाऽस्मान् हि जिहाससि । यदि त्वं नो भक्तोऽसि, यदि चाऽस्मानापृच्छ्य गमिष्यसि, तदाऽऽवयो रसना नकारवातुलैव भविष्यति ! एवमनाज्ञापयतो: पित्रोः शिवकुमारो गन्तुमसमर्थो गृह एव सकलसावधव्यापारविमुखो भावयतिरभूत् । सागरदत्तषैरहं शिष्य इति निश्चयवान् मौनमालम्ब्य तिष्ठति स्म । 'यतो मौनं सर्वार्थसाधनम्' । बलादपि भोक्तुमुपवेशित: स न किञ्चिदपि जघास । मह्यं किञ्चिदपि न रोचत इत्येव पुनः पुनरुवाच ।
एवं शिवाभिलाषिणा शिवेनोद्वेजितो राजा शिवमित्रं दृढधर्म श्रेष्ठिपुत्रं समाहूय समादिशत् । "वत्स ! व्रतार्थमनादिष्टेन पाषाणनिष्ठुरहृदयेन मम पुत्रेण शिवकुमारेण मौनमवालम्ब्यत । व्यर्थफालो व्याघ्र इव क्षरन्मदधारो हस्तीव चाटुशतैरपि न बुभुक्षते । वत्स ! त्वं कथमपि मे शिवं प्रतिबोध्य भोजय । एवं कृतवता त्वया मम किं किं नोपकृतं भवेत् ? हे महाशय ! मम जीवविहगं शरीरनीडाद् गन्तुमुद्यतं प्रत्याशापाशबन्धेन नियन्त्रय ।
प्राज्ञो दृढधर्मोऽपि राज्ञ इत्याज्ञां स्वीकृत्य शिवकुमारसकाशं जगाम । क्रमशः स नैषेधिकों कृत्वा तस्य भवनमध्ये प्रविश्यैर्यापथिकी प्रत्यक्रमीत् । द्वादशावर्तं वन्दनं कृत्वा भूमिं प्रमाw मामनुजानीहीति निगदन्नुपविवेश । इति शिष्टविशिष्टाचारं दृष्ट्वा शिव उवाच-अहो दृढधर्म ! अयं विनयो मया सागराचार्यसमीपे साधूनामदर्शि स मयि कथं घटते ?
ततो दृढधर्मोऽवदत्-"सम्यग्दृष्टीनां जनानां यत्र कुत्रचित् समभावो भवति स समभावो हि सर्वस्य विनयार्हः । यस्य
कस्याऽपि जनस्य समभावयुक्तं मानसं भवति स वन्दनीयो भवत्येवाऽत्र न दोषशङ्काकलङ्कः । हे कुमार ! अहं त्वत्पार्श्व साम्प्रतमेतत् प्रष्टुमेवाऽऽगतोऽस्मि, त्वं रसज्वरव्याकुल इव कुतो भोजनमत्याक्षी: ? तत: शिव उवाच-"मम पितरौ व्रताय मां न विसृजतः, अत एव भावयतीभूय गृहाद् विरक्तस्तिष्ठामि, यथा च पितरौ उद्विज्य मयि रागं त्यक्त्वा व्रतग्रहणाय मामादिशतोऽतो न भुजे"।
दृढधर्मोऽवोचत्-“हे महाशय ! यद्येवं तर्हि भुञ्जीथाः । यतो धर्मो देहाधीनः, देहश्चाऽऽहाराधीनः । महर्षयोऽपि निरवद्यमाहारं गृह्णन्ति, निराहारे शरीरे तु कर्मनिर्जरा दुष्करा जायते" । शिव उवाच-"प्रेयन् ! हे श्रेष्ठिपुत्र ! निरवद्याहारोऽपि मम न संपद्यते, तस्मादनशनमेव श्रेयः" । दृढधर्मोऽवदत्-"अत: परं त्वं मे गुरुस्तवाऽहं शिष्यः । यद् निरवद्यं वाञ्छसि तत् सर्वं सम्पादयिष्यामि"। शिव उवाच-"मित्र ! तर्हि निरन्तरं षष्ठं कृत्वाऽऽचाम्लेनाऽहं पारणं करिष्यामि" ।
ततः प्रभृति सामाचारीचतुरो दृढधर्मो भावयतिन: शिवकुमारस्य विनयं कर्तुमारेभे, तपस्यत: शिवस्य द्वादश वर्षाणि व्यतीयुः, तथाऽपि मोहात् तस्य पितरौ गुरुसकाशे न तं विसृजत: स्म । क्रमेण शिवः कालं कृत्वा ब्रह्मलोके महाद्युतिर्विद्युन्मालिनामा इन्द्रसामानिकः सुरोऽभूत् ।
हे श्रेणिक ! आसन्नच्यवनस्याऽस्य पुण्यात्मन इयं द्युतिः सम्प्रति भासते । अयं प्राग् ब्रह्मलोकेन्द्रसमानधुतिरासीत् । अयमस्मिन्नेव पुरेऽस्माद् दिनात् सप्तमे दिन ऋषभश्रेष्ठिनो जम्बूनामा

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128