Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 24
________________ mmmmnanAnamnnnnnnnnnnnnnnnnnnnnnnnnnnni त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पुत्ररहितो गृहनिवास: पापाय तापाय च जायते, लवणहीनकुभोजनवद् मह्यं गृहनिवसनं न रोचते। ___ततः पुत्रचिन्तातुरा धारिणी रहसि तत्पतिना पृष्टा-"प्रिये ! कुतो विषीदसि ?" ततो धारिणी प्राणनाथं मानसं दुःखं निवेदयामास । यद्यपि प्राणपतौ सा निजदु:खं स्थापयामास, तथाऽपि तद्नाऽक्षीयत । प्रत्युत स्वेष्टपूर्तिविरहाद् भूयोऽधिकमवद्धिष्ट । सा तेन हृदयशल्यातुल्यदुःखेन नित्यं द्वितीयाचन्द्रकलेव कृशभावमशिश्रियत् । एकदा धारिणीपतिर्धारिणीं पुत्रालाभदु:खं विस्तारयितुकाम: प्रेमपाथोधिप्रवाहोपमया वाचोवाच-"प्रिये ! वयं वैभारभूधरमद्य गच्छामः, तत्र नन्दनवनोद्यानरमणीयोद्याने रस्यामहे" । ततो धारिणी पतिदेववाचं माननीयतयाऽऽधिविस्मारणकामनया च स्वीचकार । तत ऋषभदत्तोऽपि सज्जीकृते हंसलोमकोमलतूलिके रथे प्रियया सह समारुरोह । एवं तौ जायापती संयोजिताश्चं श्रेष्ठमहारथमध्यारूढो वैभारगिरि प्रति प्रययतुः । रथोपरि समारूढ ऋषभदत्तो मार्गे स्वप्रियां वार्तयति-"हे प्रिये ! इयं वाह्यालीभूमिर्वाह्यमानाश्वफेनबुबुददन्तुरा श्रेणिकनरेशस्य प्रतिभाति । इमे नगरसमीपतरवो गजबन्धनोन्मूलितत्वक्स्कन्धा मत्तगजराजालानतां सूचयन्ति । अमूनि सुन्दराणि गोकुलानि मदीयमहारथध्वनिना वृषभभाङ्कारैः समुत्थापितश्रवणवत्ससमूहानि राजन्ते । हे कृशोदरि ! एते पिकीस्वरौषधीभूतपल्लवास्तरुणरसालतरवः शोभन्ते । इमे रथनि?षभीरवो मृगा भूमि जिहासन्तः प्रायो वायुमारूढा इव गगनं गच्छन्ति । वारिवर्षिण इमेऽरघट्टा द्वितीयमूर्तिधारिणः पुष्करावर्तमेघा इव इक्षुवणेक्षु राजन्ते । परिशिष्टपर्व - द्वितीयः सर्गः एवं दर्शनीयदर्शनैः प्रियां विनोदयन् सपरिवार ऋषभो वैभारगिरिमगमत् । तौ दम्पती रथाद् वैभारगिरिवरोद्यानदिदृक्षानृत्यन्मनोरथौ समुदतरताम् । मार्गस्थप्रत्येकतरूणां नामधेयानि पृच्छन्ती स्वादूनि निर्झरजलानि भूयोभूयः पिबन्ती पदे पदे स्निग्धतरुच्छायासु विश्राम्यन्ती शीतलकदलीदलैः सुखस्पर्शमाचरन्ती शुकालापैर्हसन्ती मृगबालेषु वत्सला क्रोडारोपितबालवानरीषु परमोत्कण्ठिता धारिणी पतिदत्तकरावलम्बनेन तत्सुखेन शनैः शनैर्गिरिमारोहयाञ्चक्रे । तत्पर्वत ऋषभदत्तो मनोहरां पर्वतोद्यानसम्पदमङ्गुल्या धारिणीं दर्शयाम्बभूव-“हे प्रिये ! फलभारनम्रा इमा मातुलिङ्गी: प्रेक्षस्व । ताम्रवर्णपुष्पैर्विश्रान्तसायन्तनमेघा इवेमा दाडिमीः पश्य । अमी ताला नृत्यन्मयूरकलापानुकारिदला मण्डपीभूतमृद्वीकामण्डपाः सूर्यकिरणानामपि दुर्गमा: प्रतिभासन्ते । अलिकुलच्छलात् परस्परसौरभ्यदानैरेताः पुष्पजातयः स्वाजन्यमुद्घोषयन्त्यत्र । जम्बूकदम्बमाकन्दपारिभद्रप्रभृतितरुभिरयं गिरिश्छायया चोलकं वसान इव प्रतिभाति । ऋषभः श्रेष्ठी तत्र शीघ्रमागतं खेचरमिव सिद्धसुतं यशोमित्रं श्रावकं स्वबन्धुमिवाऽदर्शत् । ततश्च ऋषभः श्रेष्ठी सिद्धपुत्रमवार्तयत्"त्वं मे खलु सार्मिकोऽसि तत् कथय क्व गमिष्यसि ?" स उवाच-"श्रेष्ठिन् ! अस्मिन्नुद्याने भगवतः श्रीमहावीरस्य शिष्यः पञ्चमो गणधरः सुधर्मा समवसृतोऽस्ति । हे मित्र ! तं वन्दितुमहं गच्छामि । यदि ते तद्वन्दनेच्छा तर्हि त्वमपि त्वर, अहमग्रेसरामि । श्रेष्ठ्युवाच-"हंहो मित्र ! तत्राऽहमपि सपत्नीक आगच्छामीति तेनैव सह तौ दम्पती जग्मतुः । ततस्ते त्रयोऽपि यथाविधि

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128