Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 33
________________ ५२ Anmunnnnnnnn परिशिष्टपर्व - द्वितीयः सर्गः त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः धनमुपार्जयत् । यौवनयोग्यं विलासं कुर्वाणश्चिरं न्यवसत् । एकदा रूप-लावण्यवतीं वेश्यां कुबेरसेनां द्रव्यं दत्त्वा भार्यां व्यधात् । ततः कतिपये समये व्यतीते कुबेरसेनया सह वैषयिकसुखमनुभवतस्तस्यैकः पुत्रोऽजनि, “ईदृशं दैवनाटकम्" ।। ततः कुबेरदत्ताऽपि मातरं गत्वाऽपृच्छत्-"माताऽपि तथैव मञ्जूषाप्राप्तित आरभ्य सर्वां कथां न्यवेदयत् । ततः सा तस्मिन्नेव काले परमं वैराग्यमासाद्य प्राव्राजीत्, दुस्तपं तपस्तेपे च । प्रव्रजन्ती सा तां मुद्रिकां क्वचित् संगोपयामास । तथा परीषहान् सहमाना स्वप्रवर्तिन्या सह विजहार । प्रवर्तिन्युपदेशमक्लेशं शिरसि निदधानाया अखण्डतपसस्तस्यास्तपस्तरोरवधिज्ञानपुष्पमुत्पेदे । “सैक्दा कुबेरदत्त: कथमस्तीति चिन्तयामास । ततः कुबेरसेनासङ्गवशात् सपुत्रं तं ददर्श" । निर्मलहृदयैवं शुशोच-"अहो ! सम्प्रति मम सहोदरो वराह इवाऽकृत्यकर्दममग्नस्तिष्ठति । एवं विचिन्त्य करुणाजलसारणिः सा तं प्रतिबोधयितुं साध्वीभिः सह मथुरापुरीं विजहार । साऽप्यार्या धर्मलाभपुरस्सरं कुबेरसेनापार्श्वे प्रतिश्रयं ययाचे । तत: कुबेरसेना वेश्या कुबेरदत्तामार्यां प्रणम्यैवं विज्ञपयाञ्चकार-“हे आर्ये ! यद्यप्यहं वेश्याऽस्मि तथाऽपि साम्प्रतमेक पतित्वेन पुनः कुलवधूरिव वर्ते । कुलीनपतिसंसर्गाद् ममैषः कुलस्त्रीवेषोऽस्ति । अतः कुलीनाचरितेनाऽपि तव प्रसादयोग्याऽहं, तस्माद् मम भवनसमीप उपाश्रयमाश्रित्य सर्वदेष्टा देवता इव सन्निहिता यूयं सर्वाः साध्व्यो भवत । ततस्तस्याः कल्याणकामधेनुरिव सपरिच्छदा कुबेरदत्ताऽऽर्या कुबेरसेनावेश्यार्पितोपाश्रये सुखपूर्वकं न्यवसत् । कुबेरसेनाऽपि दिवानिशं तत्राऽऽगत्य निजपुत्रमार्यायाः कुबेरदत्तायाश्चरणकमलसमीपे भूमौ लुठन्तममुचत् । ततो "यो जन्तुर्यथा बुध्येत तं तथैव बोधयेद्" इति न्यायेन साऽऽा तां बोधयितुं तं बालं वक्ष्यमाणप्रकारेणोल्लापयामास । यथा-"हे बालक! त्वं मम भ्राताऽसि १, पुत्रोऽसि २, पत्युरनुजो देवरोऽसि ३, भ्रातृपुत्रोऽसि ४, पितृव्योऽसि ५, पौत्रोऽसि ६" । "हे दारक ! यस्ते पिता स मे सोदरः ७, पिता ८, पितामहः ९, पतिः १०, पुत्रः ११, श्वशुरश्चाऽस्ति १२"। "हे बालक ! या ते माता सा मेऽपि माता १३, पितामही १४, भ्रातृपत्नी १५, वधू: १६, श्वश्रूः १७, सपत्नी १८ च भवति"। ततः कुबेरदत्तार्यायास्तादृशं वचनं श्रुत्वाऽपृच्छत्-“हे आर्ये ! ईदृशं परस्परविरुद्धार्थं किं वदसि ? एतेनाऽहं विस्मितोऽस्मि" । तत आर्या प्रत्युवाच-"शृणु सर्वं घटयामि-अयं बालो मम भ्रातैवं भवति-या मे माताऽस्ति, साऽस्याऽपि, अतो भ्राताऽयम् १ । योऽस्य पिताऽस्ति, स मे पतिरिति पतिपुत्रः पुत्र एव भवतीति ममाऽयं पुत्रः २ । मम स्वामिनोऽयं लघुः सोदरोऽस्ति, इति मेऽयं देवरः ३ । मम भ्रातुरयं पुत्र इति भ्रातृव्य [भ्रातृजं]ममुं कथयामि ४ । अयं मम मातुः पत्युद्घता भवति, तस्मादयं मे पितृव्यः ५ । मम सपत्नीपुत्रस्याऽयं पुत्र इति पौत्रोऽप्ययं भवति ६ । अस्य यः पिता स मे सोदरो भ्राता भवति, एकमातृकत्वात् ७ । अस्य य: पिता स मन्मातुः पतिरिति मातृपतित्वेनाऽस्य बालस्य पिता ममाऽपि पिता सम्पद्यते ८ । पितामहश्चैवं-बालोऽयं मन्मातृपतिसोदरतया पितृव्यो भवति, तस्य पिता पितामहः सुतरां सम्पद्यतेऽतोऽस्य पिता मम पितामहः ९ । अस्य पिता मम पतिरेवं

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128