Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
५८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
जम्बूकुमारं प्रति समुद्रश्रीकथिता कृषीवलकथा
तथा हि-पृथ्व्यां प्रसिद्धे सुसीमनि ग्रामे धन-धान्यादिसमृद्धो बकनामा कर्षकोऽभूत् । स वर्षासमये कृष्टे क्षेत्रे कङ्गः कोद्रवांश्चाsaपत् । तस्य क्षेत्रभूमिरभिलोठितकाचेव जातकेशपाशेवोद्गतश्यामलदलैर्धान्यैरभूत् । प्रवर्धमानं तत्कङ्ककोद्रववनं दृष्ट्वा मुदितः स क्वचिद् ग्रामे स्वजनातिथिः स्वग्रामतोऽतिदूरेऽभवत् ।
तत्र स्वजनैर्भोजने तस्मै गुडमण्डका दत्ता: । स च तेनाऽ पूर्वेणाऽऽहारेणाऽत्यन्तं जहर्ष । तस्मात् प्रीतो ज्ञातीनपृच्छत्“अहो ! युष्माकं जीवितं धन्यं येषां सुधोपमोऽयमाहारो मिलति । यदहं स्वप्नेऽपीदृशमाहारं नाऽपश्यम् । कङ्ककोद्रवदग्धान्त्रानस्मान् नृपशून् धिक् । ततोऽज्ञातगुडमण्डको ज्ञातीनपृच्छत्- “इमान्याहारवस्तूनि कानि ? कुत्र च जायन्ते ?"
ते च तस्मै प्रोचुः - " अरघट्टजलेन सिक्तेषु क्षेत्रेषूत्पद्यन्तेऽन्यधान्यवद् गोधूमाः । यदा गोधूमाः परिपक्वा भवन्ति तदा लूयन्ते विपिष्यन्ते वह्नितप्तायां लोहपात्र्यां मण्डकाः पच्यन्ते च । इक्षवोऽपि क्षेत्रे तथैवोप्यन्ते; वृद्धिं गतानां तेषां निपीलनात् प्राप्तेन रसेन पात्रे पाकेन गुडः समुत्पद्यते" । एवं गुडमण्डकविधानं विज्ञाय स कृषीवलो गृहीतेक्षुगोधूमबीजो निजग्राममाजगाम । ततश्च क्षेत्रे गत्वा फलितं कङ्कुकोद्रवं मातृशासितो बकनामा कर्षको झटिति लवितुं प्रारेभे । तदा पुत्रैरपि स प्रोक्त:- "हे पितः ! स्वकुटुम्बजीवातुमिमामर्धपक्वां कृषि किं साधारणतृणवल्लुनीषे ?" ततो बकोऽवोचत्-“हे पुत्राः ! एभिः कङ्ककोद्रवैः किम् ? अहमत्र क्षेत्रे इक्षुगोधूमान् वप्स्यामि, यतोऽस्माकं खाद्या गुडमण्डकाः सन्ति " |
परिशिष्टपर्व द्वितीयः सर्गः
ततः पुत्रा ऊचु:- "हे तात! स्वल्पैरेव दिनैरिमे कणा निष्पत्स्यन्ते, तान् गृहीत्वा यथारुचि त्वमिक्षुगोधूमान् वपेः । इयं निष्पन्नप्राया कृषिर्नश्यति, गोधूमेक्षुषु तु सम्प्रति सन्देहोऽस्ति । क्रोडस्थिते बाले विनश्यति सति उदरस्थिते काऽऽशा ?" एवं पुत्रैर्निवार्यमाणोऽपि बकस्तत् कङ्गुकोद्रववनं लुलाव । यतोऽसौ तत्र प्रभुरासीत् ।
५९
ततः स मूढो बकस्तानि सस्यानि लवित्वा कन्दुक्रीडायोग्यां क्षेत्रभूमिं चकार । पार्श्वस्थितः कूपं खानयामास । परं वन्ध्यास्तनदुग्धमिव जलं न निरसरत् । तथा स कूपं खानं खानमनिर्विन्नं पातालबिलसदृशमकारयत् । परन्तु जलस्य का कथा पङ्कोऽपि न निरगात् । ततश्च तस्य न कङ्गवो न वा कोद्रवा नेक्षवो न च गोधूमा अभवन् । तेन स बकः पश्चात्तापमाप । तस्मादैहिकं स्त्रीधनसुखं त्यजन्नामुष्मिकं संशयास्पदं सुखमाकाङ्क्षस्त्वं द्वयोज्झितो मा भूः ।
समुद्रश्रियं प्रति जम्बूकुमारकथिता काककथा
ततो महामना जम्बूनामा स्मयमान उवाच - "हे समुद्रश्रीः ! अहं काक इव निर्बुद्धिर्नाऽस्मि । तथाहि नर्मदानदीतटे विन्ध्यगिरिवने एको यूथपतिर्विन्ध्याद्रेर्युवराज इव महाहस्त्यासीत्, स्वच्छन्दं वने विचरन् स गजो यौवनं व्यतीयाय । आयुर्नदीतटमिव वार्द्धकं प्राप । तस्मात् क्षीणबलः स वृक्षे दन्ताघातान् कर्तुमक्षमो ग्रीष्मे शुष्कनिर्झरो गिरिरिव मदरहितो शल्लकीकर्णिकारप्रभृतिवनभङ्गविमुख उच्चान्निम्ने निम्नादुच्चेऽवतारोत्तारासमर्थो दन्तपतनात् स्वल्पभुक् बुभुक्षया क्षामकुक्षिरस्थिभस्त्रासदृशशरीरो वार्द्धकेऽजनि ।

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128