Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
mmmmmmmmmmmmmmmmmmmmmmmmm
SAMAnmmmmmmmmmmmmmmins
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ___ तत्र नरीभूतस्तिर्यग्, देवीभूतो मानवश्च, यदि पुन: पतत: तदा तीर्थप्रभावात् तादृशौ स्याताम् । तस्मात् तत्रैव तीर्थे स पुनरपि झम्पां दत्तवानपि प्राग्जन्मवानरत्वेन भूयोऽपि वानरो बभूव । ततोऽन्येधुर्धमन्तो राजपुरुषाः पूर्णचन्द्रमुखीं कम्बुकण्ठी पृथुलस्ती कृशोदरीं वरारोहां कमलसदृशहस्तचरणां गङ्गामृत्तिकाविहिततिलकां लताबद्धकेशी वनकेतकभूषणां तालीदलकुण्डलां कण्ठस्थपद्मनालहारां हरिणाक्षीं तां नारी ददृशुः । ते राजपुरुषास्तामादाय राज्ञे समर्पयामासुः, यतो यद् वस्तु स्वामिरहितं तिष्ठति तद् राजाधीनं भवतीति नीतिरस्ति ।
अथ राजा च दिव्याकृति तामन्तःपुरशिरोमणि चकार, यतः सुलक्षणाया आकृतेः शोभाऽतिथितां व्रजति खलु । सोऽपि वानरः कैश्चित् तत्राऽऽगतैनटैर्गृहीतः पुत्रवद् विविधं नाट्यं शिक्षितश्च । ते नटा एकदा तस्यैव राज्ञः सन्निधौ समुपेत्य तं वानरं नर्तयन्तः प्रेक्षणीयकं चक्रुः । वानरश्च राज्ञोऽर्धासनोपविष्टां स्वां प्रियां वानरी दृष्ट्वाऽश्रुपातैः सात्त्विकाभिनयं प्रकटयन्निवाऽऽसीत् ।
राज्ञी प्रोवाच-“हे वानर ! यः कालो यथा भवति तं तथा सेवस्व । अधुना वञ्जुलपरिभ्रष्टः पतनं मा स्मरः" । तस्मात् त्वमपि संप्राप्तं वैषयिकं सुखं परित्यजन् तद्वानरवत् पश्चात्तापं पश्चाद् मा कृथाः" । इति पद्मश्रीवचनमाकर्ण्य जम्बूरुवाच-"अहं हि विषयेष्वङ्गारकारकवद् न तृषितोऽस्मि ।
अङ्गारकारककथा तथाहि-कश्चिदङ्गारकारक एकदोष्णौ महाटवीमगात्, जलतृषाशान्त्यर्थं जलं च बहु स्वपार्श्वे निनाय । अङ्गारान् कुर्वन्
परिशिष्टपर्व - द्वितीयः सर्गः सोऽङ्गारिको महताऽग्नितापेन सूर्यतापे च तप्तस्तृषाकुलितो बभूव । स वराक: शरीरसेचनेन मुहुर्मुहुः पानेन च स्वपार्श्वस्थितं सर्वं जलं वन्यगजवत् व्यापपार । परं च सकलेनाऽपि वारिणा तस्य तृषाग्निस्तैलवन्नेषदपि शशाम । सोऽङ्गारकारको जलं पातुं निपाने यावच्चचाल तावन्मार्गे दैवयोगात् कस्याऽपि मार्गवृक्षस्याऽधोऽमृततुल्यशीतलच्छायायां स पिपासुर्निपपात ।
ततश्च शीतलच्छायया प्राप्तशान्तिः स सुखदां स्वल्पां निद्रां लेभे । स्वप्ने स वापी-कूप-तडागादीन् सर्वान् जलाशयान् मन्त्रप्रयुक्ताग्नेयबाणवच्छोषयामास; तथाऽप्यच्छिन्नतृष: पिपासाकुलो दीन इतस्ततो भ्रमन्नेकं पङ्किलजलं पुराणकूपं ददर्श । तज्जलं चुलुकैर्ग्रहीतुमसमर्थोऽसौ जिह्वया लिहन् दाहज्वरिवत् कथमपि नाऽतृप्यत् ।
हे प्रियतमे ! तस्माज्जीवोऽयं तदङ्गारकृत्सदृशः, देव-व्यन्तरादीनां भोगा वाणी-कूप-तडागादिजलसदृशाः किल सन्ति । यो जीवः स्वर्गादिसुखैर्नाऽतृप्यत् स मानुषैर्भोगैः कथं तृप्येत् ? तस्माद् विषयभोगार्थमाग्रहं न कुरु ।
अथ पद्मसेनोवाच-प्राणिनां परिणामः कर्माधीनस्तस्माद् भोगान् भुक्ष्व, इतरयुक्त्याऽलम् । प्रवर्तक-निवर्तका दृष्टान्ता बहवः सन्ति, यथा नूपुरपण्डिताया गोमायोश्च कथा ।
__नूपुरपण्डिताकथा तथाहि-राजगृहे नगरे देवदत्तनामा स्वर्णकारोऽभूत्, तस्य पुत्रो देवदिन्ननामा बभूव । देवदिन्नस्य दुर्गिलानाम्नी भार्याऽभूत् । सा च चतुरास्वेका सौभाग्यमहानिधिश्चाऽभवत् । एकदा सा कामबाणैः कटाक्षैर्भूनां मनः क्षोभयन्ती नद्यां जलस्नानार्थं गता ।

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128