Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३८
परिशिष्टपर्व - द्वितीयः सर्गः
mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmtamannambannammanmaan
स्वीचकार । ताः कन्या जम्बूनाम्नेऽतिश्रेयसे वराय वयं पितृभिवितीर्णाः स्म इति ज्ञात्वा धन्यंमन्या मुमुदिरे ।
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः इतश्च तस्मिन्नेव नगरे समुद्रप्रियनाम्नः श्रेष्ठिवर्यस्य पद्मावती नाम्नी स्त्री बभूव । सम्पदा समुद्रस्येव समुद्रदत्तनाम्नः श्रेष्ठिनो गुणवती कनकमालाऽभिधा स्त्री बभूव । तथाऽद्भुतलक्ष्म्या गरीयसः सागरदत्तस्य विनयवती विनयश्रीनाम्नी भार्याऽभवत् । परमा कुबेरस्येव कुबेरदत्तनाम्नः श्रेष्ठिन: शीलधनवती धनश्रीनाम्नी पत्नी बभूव । एतेषां जायापतीनां दिवश्च्युता विद्युन्मालिसुराङ्गना क्रमेण वक्ष्यमाणनाम्ना बभूवुः । यथासमुद्रश्रीः १ पद्मश्रीः २ पद्मसेना ३ कनकसेना ४ चेति । तथा कुबेरसेनस्य कनकवतीनाम्नी भार्या बभूव । श्रमणदत्तनाम्नः श्रीषेणानाम्नी पत्नी बभूव । वसुषेणनाम्नो वीरमतीनाम्नी प्रियाऽभूत्, वसुपालितनाम्नो जयसेनानाम्नी वनिताऽभूत् । तेषां दम्पतीनां क्रमेण नभःसेना १ कनकश्रीः २ कनकवती ३ जयश्री: ४ चेति दुहितरोऽवातरन् ।
एकदा तासामष्टानामपि कन्यानां पितरो विनयोत्सुका जम्बूजनकमृषभं प्रार्थयामासुः-"आर्यवर्य ! अस्माकं रूप-लावण्यमनोहराः कलाजलधिपारदृश्वर्यो गुणेश्वर्योऽप्सरःसमा अष्टौ कन्याः सन्ति । तासां विवाहकल्याणमित्रं यौवनं प्राप्तमस्ति । तदनुरूपं वरं तव जम्बूकुमारं नन्दनमालोकामहि । ये कुल-शील-वयोरूपप्रभृतयो वरगुणा अपेक्ष्यन्ते ते सर्वे जम्बूकुमारे दृश्यन्ते । अयं वरो बहुपुण्यैर्लभ्योऽस्ति । तासामस्मत्कुमारीणां त्वत्प्रसादादयं जम्बूकुमारो दक्षजानां चन्द्र इव वरो भवतु । त्वं श्रीमान् कुलीनश्चाऽसि, तत्त्वयि नः प्रार्थना न लज्जायै । किं बहुना? सर्वथा विवाहसम्बन्धं विधायाऽस्माननुगृहाण" । सूनुविवाहे स्वयमप्युत्कण्ठितस्तैः प्रार्थितश्चर्षभदत्तोऽपि हर्षात् तेषां वचनं
अत्राऽन्तरे भगवान् सुधर्मस्वामी विहरन् भव्यप्राणिनो बोधयंस्तत्रैव नगरोद्याने समवससार । अथ श्रीसुधर्मस्वामिसमवसरणवृत्तान्तामृतसिक्तो जम्बूकुमारः कन्दवत् प्ररूढपुलकाङ्कुरः समजनि । ततो जम्बूकुमारः समवसृतं गणधरवरं सुधर्माणं वन्दितुं पवनवेगेन रथेन तत्स्थानमाश्रयत् । स श्रावकशिरोमणिः सुधर्माणं प्रणम्य पीयूषकण्डूषकल्पां तन्मुखारविन्दनिस्यन्दमानां धर्मदेशनां श्रवणपुटाभ्यां निपीय हतभाग्यपरमदुर्लभभववैराग्यभानूदयदलितहृदयान्धकारोऽभूत् ।
तत: श्रीसुधर्मप्रभुं प्रणिपत्य स भवबन्धनकर्तरी परिव्रज्यामादातुं न्यवेदयत्-"हे परमेश्वर ! यावदहं पितरौ पृष्ट्वाऽऽगच्छामि तावत् त्वमत्रैवोद्याने धर्मतरुशोभामाश्रय" । सुधर्मस्वामिना तथाऽस्त्विति स्वीकृते जम्बूकुमारोऽनिलवेगजितं स्यन्दनमधिरुह्य शीघ्रं नगरद्वारमाजगाम । तदा पतिततिलस्याऽपि यथा भूमिस्पर्शावकाशो नाऽभूत् तथा गजा-ऽश्व-रथाकुलं नगरद्वारमभवत् ।
ततो जम्बूकुमार एवमचिन्तयत्-"अहं यद्यनया नगरद्वारा पितृभवनं प्रवेष्टुं प्रतीक्षिष्ये तदा गरीयान् कालो व्यतिगमिष्यति । तत्रोद्याने श्रीसुधर्मस्वामिनं प्रतिष्ठाप्य भवनगमनाय विहङ्गमायमानस्य मेऽत्र स्थातुं नोचितम् । तस्मादन्येनैव पुरद्वारेण रथं त्वरयन् प्रविशामि । यत उत्कण्ठितस्याऽन्यो मार्गः श्रेयान्, प्रतीक्षणं न वरम्" । इति विचिन्त्य स ऋषभनन्दनोऽतिशीघ्रं यावत् द्वारान्तरं

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128