Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 18
________________ परिशिष्टपर्व - प्रथमः सर्गः २३ २२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः साग्रहं वारयन्तीनां तत्सखीनां भवदेव इदमुत्तरमदात्-“हे बालिकाः ! अहं गुरुं वन्दित्वा पुनरागमिष्यामि" । ततो भवदेवः स्वस्थानात् कपिरिव प्लवमानो भवदत्तमुनि तत्रोपस्थितं समभ्येत्य ववन्दे । वन्दित्वोत्थितमात्रस्याऽनुजस्याऽनगारशिरोमणिः मुनिः प्रव्रज्यादानार्थं सत्यङ्कारमिव घृतभाजनमर्पयाञ्चक्रे, ततो भ्रातरि दत्तनेत्रोऽगाराद् निर्जगाम । भवदेवोऽपि तत्सर्पिर्भाजनं स्वपाणौ वहन् मुनिपदारविन्दमकरन्दमिलिन्दो भवदत्तमुनिमन्वगात् । अपरेऽपि जना प्रमोदान्वितहृदया नार्यश्च भवदत्तमुनिमन्वीयुः । स च मुनिः कमपि स्वमनुगच्छन्तं न व्यसृजत् । अदो हि मुनीनामुचितम् । मुनिनाऽविसृष्टा विशिष्टानुरागास्ते जना न पराववृतिरे । कियद्दूरं गत्वा विषण्णहृदयास्ते मुनि वन्दित्वा स्वयमेव परावृतन् । ततो भद्रहृदयो भवदेवो व्यचिन्तयत्-"एते विसृष्टा अपि परावर्तन्ते यत एते सोदरा न सन्ति, अहं त्वस्य मुनेः सोदरोऽस्मि; आवां मिथ: स्नेहिनौ स्वः । तस्मादमुनाऽविसृष्टस्य मम परावर्तनं नोचितम् । भक्त-पानादिभारभरेणाऽऽक्रान्तोऽयं मदग्रजः, अत एव प्रसीदन् घृतभाजनं वोढुं ममाऽर्पयत् । चिरकालादभ्यागतं श्रान्तं ज्येष्ठभ्रातरं मुनिममुं स्थानेऽमुक्त्वा निवर्तितुं न शक्नोमि" । ततो भवदत्तमुनिः मदनुजोऽयं मार्गे न श्राम्यत्विति गार्हस्थ्यवातां प्रारेभे । यथा-“हे भ्रातः ! एते ते ग्रामपर्यन्तवृक्षा मार्गमण्डपाः सन्ति, येषु पूर्वमावां कपिवत् सानन्दमक्रीडाव । तान्येतानि सरोवराणि येषु बाल्ये वयस्यावां कमलिनीनालैनिजनिजकण्ठयोः परस्परं हारमका@ । ता एता ग्रामपर्यन्तभूमयः सन्ति, यासु वालुकाभिश्चैत्य क्रीडां वर्षर्तावावामकार्व" । एवमध्वनि स्वानुजं वार्तयन् भवदत्तो निजाचार्यचरणकमलपूतं ग्राममगमत् ।। "तत: क्षुल्लका भवदत्तमुनि निजानुजसहितं वसतिद्वारमागतं दृष्ट्वा परस्परं विहितवक्रोष्ठिका अवोच-"अनेन मुनिना दिव्यवेषधरोऽनुजः प्रव्रज्यार्थमानीतस्तेन मन्यामहेऽयं स्ववचः सत्यापयिष्यति" । तदा सूरिरुवाच-"भवदत्त ! त्वया सह कोऽयं युवाऽऽगतोऽस्ति ?" भवदत्त उवाच-"असौ ममाऽनुजो दीक्षां जिघृक्षुरिहाऽऽगमत्" । ततः सूरिर्भवदेवमप्राक्षीत्-वत्स ! त्वं किं व्रतमादातुमिच्छसि ? ततो भवदेवो मदग्रजो मुनिमिथ्यावादी मा भूदिति भगवन्नेवमिति दीक्षास्वीकारवचोऽवोचत्, तदैव सूरिर्भवदेवमदीक्षयत् । साधुभ्यां सहाऽन्यत्र विहर्तुमयुजच्च । ततो भवदेवपरिजनास्तदनागमनचिन्तया पृष्ठतोऽभ्युपगम्य भवदत्तमुनिमूचुः-"भगवन् ! अर्धमण्डितां प्रियां मुक्त्वा भवतोऽनुगतो भवदेवोऽद्याऽपि गृहं न प्राप्तः । तस्मिन्ननागते वयं जीवन्तोऽपि मृता एव स्मः । तद्वधूश्चक्रवाकीव तद्विरहविधुरा, सिराम्बुवत् तस्या नयनाम्बु न विश्राम्यति । भवदेवोऽस्माननापृच्छय स्वप्नेऽप्येकाकी न क्वचिद् व्रजन्नासीत् । किं स क्वचिद् गतः ? भवदेवमपश्यतो नष्टधनानिव ग्रहिलानस्मान् हे ऋषे ! स्वानुजवार्ताकथनेनाऽनुगृहाण" । ततो धर्मोद:च्छुर्भवदत्तोऽनुजस्य कृते मिथ्याऽप्यवोचत्"आगतमात्रोऽपि स क्वचिज्जगाम, वयं न जानीमहे । कि केन पथा क्व गतः स इति जल्पन्तो दीनवदना दस्युमुषिता इव ततः

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128