Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
अथ गुरुनिर्दिष्टः स स्वीयपितृसदनमुपेत्य भ्रातुः कामतरुवर्धकं विवाहं तत्राऽऽरब्धमपश्यत् । तदा विवाहकौतुकव्यग्रो मुनिलघुभ्राता विस्मृतेतरकार्यो हषोत्कर्षव्यग्रोऽभूत् । विवाहसमये प्राप्तं स्वानुजमुनिमजानान इव स्वागतमपि न चकार, व्रतग्रहणकथा तु दूरे बभूव । ततो विषण्णमनाः स मुनिस्ततः परावृत्य निजाचार्यसकाशमागमत् । गुरुचरणान् प्रति निजानुजस्य सकलां कथामकथयत् । ततस्तच्छ्रुत्वा भवदत्तो मुनिरेवमवोचत् - अहो ! अनुजस्य नैष्टुर्यमेतत् यद् गृहेऽभ्यागतं ज्यायांसमृषिमवाज्ञासीत्, किं गुरुभक्तितोऽपि विवाहकौतुकं श्रेयो यत् तत् परित्यज्य सानन्दः स ज्येष्ठं नाऽनुगतवान् ।
२०
तदा साधुः कश्चिदेवमुवाच- "हे भवदत्त ! यदि त्वं चतुरोऽसि तदा निजमनुजं प्रव्रज्यां ग्राहय" । एतच्छ्रुत्वा भवदत्तमुनिरुवाच"हंहो यदि गुरुचरणा मगधदेशे विहरिष्यन्ति तदाऽदः कौतुकं प्रदर्शयिष्यामि " ।
अन्यदाऽऽचार्या विहरन्तो मगधानेव जग्मुः यत: पवनवत् साधवो नैकत्र तिष्ठन्ति । ततो भवदत्तमुनिर्गुरुचरणान् वन्दित्वैवं व्यजिज्ञपत्-“गुरुचरणाः ! इतः सन्निहितान् स्वजनान् दिदृक्षेऽतो भवन्तस्तत्र गन्तुमाज्ञापयन्तु" । ततो गुरुरेकाकिनमपि भवदत्तमुनिं तत्र गन्तुमाज्ञापयाञ्चकार । यतो वशिन एकाकिनोऽपि विहार: कल्पते ।
ततो गुरुनिर्दिष्टः स स्वसंसारिबन्धुगृहमनुजं दीक्षां ग्राहयितुमनुकम्पाकलितहृदयो जगाम । तदा भवदेवो नागदत्तस्य वासुकी - गर्भसंभूतां पुत्रीं पर्यणैषीत् । कृतविवाहमहाः सर्वे बन्धुजना भवदत्तमुन्यागमनं महोपरिमहं मन्यमानास्तं हर्षेणाऽभिजग्मुः । ते बध
परिशिष्टपर्व - प्रथमः सर्गः
भवदत्तमुनिचरणौ प्रासुकोदकेन प्रक्षाल्य तीर्थजलादप्यधिकं तत्पादोदकं मत्वा ववन्दिरे ।
यतः गङ्गा पापं शशी तापं दैन्यं कल्पतरुर्हरेत् । पापं तापं च दैन्यं च हरेत् साधुसमागमः ॥ १ ॥ साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः । कालेन फलते तीर्थं सद्यः साधुसमागमः ॥ २ ॥ जाड्यं धियो हरति सिञ्चति वाचि सत्यं । मानोन्नतिं दिशति पापमपाकरोति ।
२१
कीर्ति च दिक्षु विमलां वितनोति लक्ष्मी । सत्सङ्गतिः कथय किं न करोति पुंसाम् ? ॥ ३ ॥ भवसागरनिमज्जनभयादिवाऽवलम्बनमिच्छन्तः सर्वे बन्धवस्तदीयचरणकमलयोर्लगित्वा तं प्रणेमुः । भवदत्तमुनिरप्यवोचद् बन्धून्- “भो ! यूयं विवाहोत्सवव्याकुलाः स्थ, अतोऽन्यत्र वयं गच्छामः । युष्माकं धर्मलाभोऽस्तु, सर्वे बन्धव एषणीयकल्पनीयभक्त - पानादिभिस्तं मुनिं प्रत्यलम्भयन् ।
तदानीं भवदेवोऽपि स्वकुलाचारं प्रपालयन् सखीभिः सेव्यमानां नवोढां मण्डयन् चन्द्रमण्डलादाकृष्टेन चन्द्रातपरसेनेव श्रीखण्डचन्दनरसेनाऽङ्गरागं चकार । नवोढाशिरसि ग्रस्तचन्द्रराहुश्रीचोरकं सुमनोमाल्यगर्भितं धम्मिल्लं बबन्ध । तत्कपोल-फलकयोः कस्तूरीरसेन कामदेवस्य जयप्रशस्तिमिव पत्रवल्लरीमलिखत् । यावत् स तत्कुचमण्डलयोर्मण्डनं प्रारेभे तावता भवदत्तमहामुनेरागमनवार्तां शुश्राव । भ्रातृदर्शनोत्सुकः स जयवान् द्यूतकार इवाऽर्द्धभूषितामपि प्रियां त्यक्त्वा शीघ्रमुत्तस्थौ । तदा प्रियसखीभिरर्द्धमण्डनपरित्यागनिषेधानौचित्यादिकथ्यमानमपि बधिर इव नाऽ श्रौषीत्,

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128