Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 15
________________ परिशिष्टपर्व - प्रथमः सर्गः mnnnnnnnnnnnnnnnnnn त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तातपादानत्यन्तं दिदृक्षे" । राजोवाच-"हे अनुज ! आवयोः पिता समान एवाऽस्ति, तवेव ममाऽपि दिदृक्षाऽस्ति तातचरणानाम्" । ततस्तौ सपरिवारौ तातपादालङ्कृतमाश्रमपदं जग्मतुः, द्वावपि यानादुदतरताम् । वल्कलचीरीत्यवदत्-"अग्रज ! एतत् तपोवनं दृष्ट्वा राजलक्ष्मीस्तृणायते मम । यत्र सरसि हंस इवाऽरंसि तानीमानि सरोवराणि । येषां तरूणां फलानि कपिरिवाऽखादं त एते तरवः । यैर्मृगशिशुभिरक्रीडं त इमे मृगार्भकाः । यासां महिषीनां क्षीरमपां ता मातृकल्पा इमाः । हे स्वामिन् ! एतद्वनसुखं कि वर्णयामि ? एकं तातसेवनसुखं राज्यकोटिसुखं तिरस्करोति । ततस्तौ भ्रातरौ तातपादाश्रमं प्रविश्य नयनकमलदिवाकरं तातमग्रे निरीक्षाञ्चक्राते । तातं प्रति राजोवाच-“तव पुत्रः प्रसन्नचन्द्रस्त्वामभिवादयते", तमभिवादयन्तं पाणिना सोऽस्पृशत् । तेन पुलकितगात्रो राजोत्कोरककदम्बवदभूत्, राजानुजोऽपि सोमचन्द्रर्षि निजतातं प्रणमन्निदमुवाच-"एष वल्कलचीरी भवच्चरणकमलमिलिन्दतां प्राप्तः" । ततः सोमचन्द्रर्षिः शिर आघ्रायाऽमोदत, गिरिमिव वारिदस्तं सर्वाङ्गमालिलिङ्ग। सोमचन्द्रपेस्तदा नयनयुगलात् कवोष्णो बाष्पो निरगलत् । अश्रुपतनमेव तस्याऽन्धताप्रध्वंसपरमभैषज्यमभूत् । पुनरावृत्तगार्हस्थ्यस्नेहबन्धनो मुनिस्तत्कालमालोकवद्भ्यां नेत्राभ्यां स्वपुत्रौ तौ निरीक्ष्याऽपृच्छत्-“हे वत्सौ ! सुखं कालोऽतिगमित: ?" तावुदतरतां-'तात ! कल्याणतरुदोहदात् त्वत्प्रसादात्' । ततो वल्कलचीरी तापसभाण्डमदृश्यमानं कीदृशमभूदिति कुटीरमध्यं शीघ्रं प्रविवेश । तद्भाण्डवृन्दं निजवस्त्राञ्चलेन प्राड्म मत्वमनुबध्नन् प्रतिलेखितुं प्रारभत । तत्प्रतिलेखनवेलायां तस्यैवं चिन्ताऽभूत्-"मुनीनां पात्राणि किमहं प्राक् पात्रकेसरिकया प्रत्यलिखम् ?" इति चिन्तयतस्तस्य जातिस्मरणमजनि । ह्योविहितवत् स्वदेव-मनुष्यभवानस्मरत् । अथ स प्राग्भवपालितं श्रमणत्वं स्मरन् मोक्षलक्ष्मीमित्रं परमं वैराग्यं प्रापत् । धर्मध्यानं कृत्वा शुक्लध्याने स्थितो वल्कलचीरी परमोज्ज्वलं केवलज्ञानं लेभे । तत्क्षणलब्धकेवलज्ञान: सोऽमृताभां धर्मदेशनां तातमग्रजं च प्रति चकार । ततः प्राप्तबोधौ सोमचन्द्रप्रसन्नचन्द्रौ देवसमर्पितयतिलिङ्गं वल्कलचीरिणं प्राणमताम् । हे श्रेणिक ! अहमेकदा विहरन् पोतनसमीपे मनोरमोद्याने समवासरं, 'तदा प्रत्येकबुद्धो वल्कलचीर्यपि स्वपितरं मह्यं समाऽन्यत्र व्यहरत् । राजा प्रसन्नचन्द्रोऽपि पोतनपुरं प्रायासीत् । तत्र गत्वा स वल्कलचीरिवचनैः सुदृढवैराग्योऽवसत् । तदा प्रसन्नचन्द्रो बालमपि स्वं पुत्रं स्वराज्ये संस्थाप्य विरक्तमना मम पार्श्वे प्राव्राजीत् । श्रीमहावीरस्वामिन्येवमुक्त्वा विरते श्रेणिक आकाशे देवसम्पातमपश्यत् । ततो जगदीश्वरं प्रणम्याऽपृच्छत्-"स्वामिन् ! किमेष प्रकाशिताकाशो देवसम्पातो दृश्यते ? तच्छ्रुत्वा स्वाम्युवाच"राजन् ! प्रसन्नचन्द्रपेरिह केवलज्ञानमुदपद्यत । तन्महिमानं विधातुमिमे देवाः सम्पतन्ति" । जम्बूस्वामिपूर्वभवकथा श्रेणिको भगवन्तं श्रीवीरं पुनर्व्यजिज्ञपत्-"नाथ ! केवलज्ञानं कस्मिन् व्युच्छेदं गमिष्यति ?" भगवानुवाच-"राजन् ! पश्यैष

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128