Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 14
________________ १४ परिशिष्टपर्व - प्रथमः सर्गः MARRIAnnnnnnnnnnnnnnnnAAAAAMANARAN त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कुमारोऽस्माभिरिहाऽऽगन्तुं प्रालोभि । ततः सोऽस्माभिः समं सङ्केतमग्रहीत् । दूरे कुमारपितरमायान्तं दृष्ट्वा तच्छापभयात् स्त्रीस्वभावतः कातरा वयमनेशाम । सोऽस्मान् गवेषयन् नः प्रलोभाधीनो वनाद् वनं भ्रमन् पित्राश्रमं न जगाम, अस्मत्सङ्गमपि न प्राप्तः । एतदाकर्ण्य किमकार्षम् ? पिता-पुत्रौ वियोजितावनुजश्च न प्राप्तः, पितृपार्थात् परिभ्रष्टः स कथं जीविष्यति ? मत्स्यो जलाद् बहिष्कृतो हि कियन्तं कालं जीवति ? इति नृपः पश्चात्तापमकरोत्, एवं राजाऽल्पजले मीन इवोद्वेल्लञ्छयने रतिमलभमानोऽस्थात् । तदा राज्ञः कर्णयोस्तद्वेश्याभवने प्रवर्तमानमुरजध्वनिरविशत् । तच्छ्रुत्वा सम्प्रति मद्दुःखेन समग्रं नगरं दुःखितमस्ति, कोऽयमेतादृग् लोकोत्तरसुखी यस्य गृहे मुरजध्वनिः प्रवर्तते ? अथवा सर्वो हि स्वार्थपरायणो भवति, एष मृदङ्गध्वनिः कस्याऽपि मुदे भवति, मम कृते मुद्गरप्रहारसोदरो न हर्षाय जायते । इति राज्ञः शोकवचनं जनश्रुत्या वेश्या विज्ञाय शीघ्रमेव कृताञ्जलि: प्रसन्नचन्द्रं भूपं विज्ञपयामास-"राजन् ! पुरा कश्चिद् दैवज्ञ एवमचकथत्-'तव गृह ऋषिवेषो युवाऽऽगमिष्यति तस्मै स्वकन्यां दद्या' इति । स एव गौरिव व्यवहारानभिज्ञ ऋषिवेषो युवा मद्गृहे समागात् । तस्मै स्वकन्या वधूत्वेन समर्पिता मया । तद्विवाहमहे देव ! मद्गृहे गीतवाद्यादि प्रवर्तते । त्वां दुःखितं न जानामि । यदि ममाऽपराधस्तहि तं क्षमस्व" ।। ___अथ राजा कुमारं प्राग् दृष्टवतो नरानादिशत्-यूयं वेश्यालयं गत्वा तं पश्यत । ततस्ते गत्वा तं दृष्ट्वोपालक्षयंस्तत आगम्य राजानं ते न्यवेदयन् । राजाऽपि दृष्टसुस्वप्न इवाऽत्यन्तममोदिष्ट । ततश्च स वध्वा सह वल्कलचीरिणं हस्तिनीमधिरोप्य स्वभवनमानाययत् । राज्ञा स कुमारः क्रमेण सकलव्यवहारकुशलो व्यधायि । नियुक्तैः पशवोऽपि हि शिक्ष्यन्ते किं पुनर्मनुजः? राजा तस्मै राज्यार्द्ध दत्त्वा स्वं कृतार्थं मेने । स्वर्गाङ्गनासदृशी राजकन्यास्तेनोदवाहयत् । स च वल्कलचीरी ताभिर्वधूभिः करेणुभिः कुञ्जर इव विपुलं रेमे। एकदाऽस्य वल्कलचीरिणो मार्गसुहृद्रथिकश्चौरदत्तं स्वर्णादि विक्रीणानः पुरेऽभ्राम्यत् । ततो यस्य यस्य धनं चौरापहृतमासीत् स स स्वं स्वं धनमुपलक्ष्योत्थापितबाहुरारक्षकानकथयत् । आरक्षकाश्च चौरं मत्वा राजद्वारमनयन् । राजानुजो वल्कलचीरी जीवानुकम्पया दृशा तमद्राक्षीत् । मार्गोपकारिणं तमुपलक्ष्याऽमोचयच्च । यतः "नहि कृतमुपकारं साधवो विस्मरन्ति" । ___इतश्च सोमचन्द्रः स्वं सुतमपश्यन् वने वृक्षाद् वृक्षमश्रुभिः सिञ्चन्निवाऽभ्रमत् । प्रसन्नचन्द्रप्रेषितजनैर्वल्कलचीरिवार्ताकथनानन्तरं स प्रफुल्लनयनोऽजनि । परं च तस्य पुत्रवियोगेनाऽतिरोदनवशाद् दिनेऽपि रात्राविवाऽन्धत्वमभूत् । स वृद्धतापसोऽन्यैस्तपस्विभिस्तपोऽन्ते फलादिभिरपार्यत । ___ अथ द्वादशसु वर्षेषु पूर्णेषु रजन्यां प्रबुद्धो वल्कलचीर्येक दैवमचिन्तयत्-"मम मन्दभाग्यस्योत्पन्नमात्रस्य माता व्यपद्यत । मत्तातो वने वसन्नपि मत्परिचर्यामकरोत् । रात्रिन्दिवं कटिस्थोऽहं तपःकष्टादप्यधिकं कष्टं स्वपितुरजीजनम् । यौवने यावदहं तत्प्रत्युपकारसमर्थोऽभूवं तावद् दैवादजितेन्द्रिय-पापोऽत्राऽऽगमम्" । इत्येवं निशीथे चिन्तयन् स गत्वा राजानमवोचत्-"अग्रज ! अहं

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128