Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१० mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmHAMARAHASMAmmanmaamanna
परिशिष्टपर्व - प्रथमः सर्गः
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ऽनुजरूपमालोक्य मदीयजनकसदृशोऽयमनुज इति ध्यात्वाऽऽत्मा वै जायते पुत्र इति श्रुति सत्यापयति स्म ।
हे सोदर ! त्वं भाग्येन नयनगोचरतामाप इत्यभिधाय तं शिरसि चुचुम्ब, न च निजोत्सङ्गादुदतारयत् । स च वल्कलचीरिणं वल्कलाम्बरं निरीक्ष्य गिरिरिव सनिर्झरः शीघ्रं स्यन्दमाननयनजलधारोऽभूत् अवदच्च-"वर्षीयान् मम तात उचितं व्रतमाचरतु किन्तु बालस्याऽस्य मदनुजस्य वननिवासोऽपि न योग्योऽस्ति । अहं राज्यसुखहूदे मराल इव रमे, मदनुजन्मा तु भिल्ल इव वनवृत्त्याऽनुजीवति । स वनजातो जीव इव ग्रामे दुरानेयोऽस्ति । तस्मिन् राज्यभागाविधायिनि मम राज्येऽपि कष्टम् । एवं निजानुजस्य वनवासदुःखमनुशोचन् प्रसन्नचन्द्रश्चातुरीचणां वेश्यामेवमादिशत्"मुनिवेषेण यूयं वनं गत्वाऽङ्गस्पर्शेर्नवनववचनैः खाण्डैः फलैश्च ममाऽनुजं प्रलोभ्याऽत्राऽऽनयत" इति राजनिदेशमक्लेशं शिरसि निदधाना मुनिवेषं दधाना वेश्या: शीघ्रं सोमचन्द्राञ्चितं तदाश्रमपदमगमन् ।
ततस्तत्र बिल्वादिफलान्यादाय वल्कलवसनं वसानं कुटीराभिमुखमागच्छन्तमृषिसुतं तं वेश्या ददृशुः । सोऽपि सरलमतिर्मुनिवेषधारिवेश्यानां मुनिबुद्ध्याऽभिवादनं विधायाऽपृच्छत्-"के यूयं ? को वा भवतामाश्रमः ?" ता ऊचुः-"वयं पोतनाश्रमवासिन ऋषयः स्मः, तवाऽतिथय इहाऽऽगताः स्मः, त्वमस्माकं किमातिथ्यं करिष्यसि ?" वल्कलचीरी प्रोवाच-"मया वनाद् मधुराणि पक्वानि फलान्यानीतानि, हे महर्षयो ! यूयं भुग्ध्वम्" । ततो वेश्या अवोचन्-"अस्माकमाश्रमे नेदृशानि नीरसानि फलानि कश्चिद् भुङ्क्ते, अस्मदाश्रमतरूणां फलवर्णिकां पश्य" इत्युक्त्वा वृक्षमूले ता
वेश्या उपाविशन्, तं च तत्रोपावीविशन् । अविफलाशयास्तं खण्डफलान्यभोजयन् ।
वल्कलचीर्यपि तत्क्षणादेव तदास्वादाद् बिल्वादिफलत उदविजिष्ट । पुनरेकस्थानस्थितं तं स्वाङ्गमस्पर्शयन्, तत्करं च निजपीनस्तनकुम्भोरसि न्यधुः । सोऽवोचत्-"भो महर्षयः ! श्रीमतामिदमङ्गं किं कोमलम् ? किमेते वक्षःस्थले उन्नते स्त: ?" वेश्यास्तं कोमलपाणिपल्लवैः स्पृशन्त्य ऊचुः-"अस्मदीयवनफलभोजनेनैतादृशमङ्गं कोमलं भवति । अस्माकं महारसवनफलभक्षणेनाऽत्यन्तवृद्ध्या वक्षस्येते स्थले उत्पद्यते । तदिममाश्रममसाराणि फलानि च त्यज; अस्माकमाश्रममागत्य त्वमपि सरसफलभोजनेनाऽस्मादृशो भव ।
___ अथ खण्डफलास्वादलुब्धो मुग्धो वल्कलचीर्यपि वेश्याभिः सह जिगमिषुः सङ्केतमग्रहीत् । ततस्तापसभाण्डं संस्थाप्य वल्कलचीरी यथोपदिष्टं सङ्केतस्थानमगमत् । तदा वृक्षाधिरूढा गुप्तचरनरा आगच्छन्तं सोमचन्द्रर्षि दृष्ट्वा वेश्यानां न्यवेदयन्, वेश्याश्च मुनिशापभीता व्याधाद् मृग्य इव परस्परं वियुक्ताः शीघ्रशीघ्रमनेशन् । स्वपितरि स्थानं गते स वेश्यां नष्टधनो धनमिवाऽन्वेष्टुं प्रारेभे । वने मृग इव धावन्नेकं रथिनं दृष्ट्वा तमप्यृषि मन्यमानो 'भवन्तमभिवादय' इत्यवदत् ।
रथिना पृष्टो बाल:-"त्वं क्व गमिष्यसि ?" कुमार उवाच"हे महर्षे ! पोतनाभिधमाश्रमपदं गमिष्यामि" । रथिकेनोक्तम्"अहमपि पोतनाश्रमं जिगमिषामि । ततोऽग्रेसरमिव तं रथिनं वल्कलचीर्यप्यन्वगमत् । पथि स मुग्धो बालो रथिकप्रियां 'हे

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 128