Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 11
________________ परिशिष्टपर्व - प्रथमः सर्गः त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः दृष्टपलितोऽपि विषयविषधरैदश्यमानोऽस्मीति लज्जे । अहमेवं स्थितेऽपि शीघ्रं प्रव्रजामि किन्तु स्तनन्धये तनये कथं राज्यभारो निवेश्यते ? अथवा हे मतिमति ! परिविव्रजिषोर्मे कि राज्यसुताभ्याम् ? त्वं निजमात्मजं परिपालय, अहं श्रामण्यं ग्रहीष्यामि । धारिण्युवाच-"नाथ ! त्वां विनाऽहं कथं स्थातुं समर्था ? यत: सत्यो नित्यं यदा कदा च पतिमनुगच्छन्ति, वनावनीरुह इव स्वकर्मभिरेव बालोऽप्ययं वर्धतां, किं तेन मम? तत: सोमचन्द्रो राजा बाले प्रसन्नचन्द्रे पुत्र राज्यमारोप्य धारिण्या धात्र्या च सह दिक्प्रोषितस्तापसोऽभूत् । स किञ्चिच्छून्यमाश्रमपदमध्यवात्सीत् । नीरसपत्रादिकं भुञ्जानो दुष्करं तपस्तेपे । स पलाशपत्राण्यादाय हरिणानां पान्थानां च शीतच्छायां सुधाप्रपामकार्षीत् । धारिणी प्रेमवशीभूतः स स्वादुस्वादूनि जलानि फलानि च पत्न्यर्थमानैषीत् । वनेऽपि सा धारिणी पतिव्रतपरायणा कोमलतरतृणैः पत्ये तल्पं कल्पयामास । सा पक्वेगुदफलानि दिने पिष्ट्वा ततस्तैलं निष्काश्य निशि दीपकानकार्षीत् । वन्यागोमयैर्वासस्थानचत्वरभूमि पतिसुखोपवेशनार्थमनेकवारं मार्जयामास । तत्र गोमयलिप्ताङ्गणे वनाश्रमे हरिणशिशून् प्रेम्णा लालयन्तौ दम्पती तप:श्रममविद्वांसौ कञ्चित् कालं व्यतीयतुः । वल्कलचीरिकथा अथ धारिणीराज्या: पूर्वसंभवो गर्भोऽनुक्रमेण ववृधे । अन्यदा सूतिकागृहमध्ये कान्त्याऽतैलपूरो दीप इव सुतो धारिण्या जनयाञ्चक्रे। पित्रा चाऽऽश्रमे वल्कलान्येवेति वल्कलैः सोऽवेष्ट्यताऽतो वल्कलचीरीति तस्य नाम चक्रे । धारिणी सूतिरोगेण कालधर्म मगात् । ततो निरक्षरः पुरुष इव स बालोऽदृष्टमातृकोऽजनि । ततः सोमर्षिस्तं बालं महिषीदुग्धं पायं पायं धात्र्याः समार्पयत् । दैवात् साऽपि धात्री धारिणीमनुजिगमिषुरिव कियता कालेन पञ्चत्वमगमत् । ततः सोमचन्द्रर्षिः स्वयमेव महिषीक्षीरं तं बालमपाययत् । गच्छंस्तिष्ठन् शयानो वा स निजाङ्के शिशुमधारयत् । अथ स बाल: क्रमात् पादचक्रमणसमर्थोऽभूत् । वनमृगशिशुभिः सह प्रतिदिनं धूलिक्रीडां चकार च । पुनः स्वयमानीतैरिन्धनैर्नीवारैश्च रसवतीं कृत्वा स सोमर्षि लमबूभुजत् । वन्यफलैस्तं पोषं पोषं दुष्करतपसि स्वसदृशं तं व्यधात् । अथ वल्कलचीर्यपि यौवनोन्मुखः सर्वथा स्वजनकसेवाकुशलोऽभूत् । एवं च फलाद्याहरणैर्नित्यमङ्गसंवाहनेन च सकलव्रतगरिष्ठां शुश्रूषां तातस्य चक्रे । स्त्रीजनरहितवने निवसन् स आजन्मब्रह्मचार्येव व्रती स्त्रीनामाऽपि न जज्ञौ । अथ प्रसन्नचन्द्र एकदा वनस्थस्य पितुर्धारिणीकुक्षिजातं सुतं स्वसोदर्य शुश्राव । ततः कीदृशः स मे भ्राता ? कथं वा मिलिष्यतीति मनसि परमं कौतुकमजनि तस्य । ततः प्रसन्नचन्द्रश्चित्रकरानेवमजिज्ञपत्-"मम तातपादानां पादकमलालङ्कृतं तपोवनं गच्छत, तातपादपङ्कजमरालस्य मदनुजस्य वननिवासिन: शीघ्रं रूपं लिखित्वाऽऽनयत" । ततः श्रीमतामादेश: प्रमाणमित्युक्त्वा चित्रकरास्त्वरितमेव वल्कलचीरिपवित्रितवनमगुः । तेऽपरविश्वकर्माणोऽनुपमकौशला दर्पणप्रतिबिम्बमिव यथावस्थं तं लिखित्वाऽऽनीय वल्कलचीरिणो दृशोः सुधावर्तिसदृशं रूपं प्रसन्नचन्द्रं दर्शयाञ्चक्रुः । प्रसन्नचन्द्रो.

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 128