Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 9
________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः वसिन्दूरारुणकुम्भैर्गजैः परिवव्रे । ततोऽप्युत्सुको नृपो गजघण्टाटणत्कारैराकाशं पूरयन्निव श्रीमहावीरतीर्थपतिं प्रति चचाल । गजेन्द्रगर्जितैरश्वहेषितैश्च मिलद्भिराकाशतले शब्द आकाशगुणोऽभूत् । प्रसन्नचन्द्रराजर्षिकथा ४ ततः श्रेणिकस्य द्वौ प्रधानसैनिकावेकमेकाग्रचित्तमेकपादेनैक मूलं वृक्षमिव स्थितं सिद्धिक्षेत्रमाक्रष्टुमिवोर्श्वीकृतभुजयुगं दर्पण व सूर्येऽपि निश्चलन्यस्तनेत्रं सूर्यतापात् स्वेदबिन्दुभिरुत्पन्नस्फोटकमिव मूर्तमिव शान्तरसं शान्तं मुनिवरं ददृशतुः । तयोर्मुख्यसैनिकयोरेकतरोऽवोचदहो ! मुनिवर एवं तपस्तप्यते, सोऽयं मुनिशिरोमणिमहात्मा वन्द्योऽस्ति, एतदन्यः क एकपादेन तिष्ठेत् ? को वा सूर्यमण्डलं मुहूर्तमप्येवं पश्येत् ? अहो ! अहो ! अस्य दुष्करकारित्वम् । अस्य महात्मनः स्वर्गे वा मोक्षो वा न दूरे, महता तपसा किं किमसाध्यं न साध्यते ? तत्र द्वितीयसैनिक उवाच- हे मित्र ! त्वं किं न जानासि ? अयं प्रसन्नचन्द्रो राजाऽस्ति । अस्य धर्मो नाऽस्ति । अस्य तपो वृथाऽस्ति । अयं बालं पुत्रं स्वराज्येऽस्थापयत् । स मन्त्रिभिर्वृक्षादपक्वफलमिव राज्यादपनेष्यते । अनेन मार्जाराणां दुग्धमिव दुरात्मनां तेषां मन्त्रिणां रक्षणाय राज्यं समर्पितं, तस्मिन् बाले पुत्रे नाशितेऽस्य वंशोऽप्युच्छेदितः स्यात् । अतो निजपूर्वपुरुषाणां नामनाशनादयं पातकी स्यात् । प्रव्रज्यां जिघृक्षुणाऽनेन या राज्ञ्यस्त्यक्तास्तासां पतिरहितानां का गतिर्भविष्यतीति न जाने ? कर्णकोटरप्रविष्टेन तद्वचनप्रचण्डवातेन प्रसन्नचन्द्रराजर्षेः समाधितरुर्भग्नोऽजनि । तत एवं स व्यचारयद्- "अहो ! तेषां परिशिष्टपर्व प्रथमः सर्गः दुराशयानां मन्त्रिणां यन्मया सत्कारो व्यधायि तद् ध्रुवं भस्मनिहुतम् । मम पुत्रस्य स्तनन्धयस्य तै: कुमतिभिः पापकर्मभिर्यद् राज्यं विनाशयितुमारेभे ततस्तान् विश्वस्तघातकान् धिक् । यद्यहं तत्र राज्येऽभविष्यं तदा तेषां दुरात्मनां नवनवैर्निग्रहैरनुशासनमकरिष्यम् । अहो ! ममाऽनेन जीवितेन किम् ? किं वा भूयसा तपसा ? यत् स्वपुत्रस्य पराभवः श्रवणपथमगात्" । एवं स राजर्षिर्दुर्ध्यानमत्यन्तं कुर्वाणो निजसाधुत्वं व्यस्मार्षीत् । सिंहावलोकनन्यायेन क्षत्रतेजसाऽऽलीढः स प्रत्यक्षानिव पुत्रद्वेषिणस्तानमात्यानद्राक्षीत् । प्राग्वद् रणरङ्गैकसूत्रधारः खड्गधारया रणे तान् सूरणानिव खण्डशो मनसा चकार । अपि च छेदनं भेदनं दारुणतरमन्यदपि दुष्कर्म क्रोधान्धः सन् स राजर्षिर्मन्त्रिणां किं किं नाऽकार्षीत् ? तत्र प्रदेशे जिनधार्मिकः श्रेणिको राजगृहाधिप आजगाम । तं मुनिमवलोक्य स राजकुञ्जरः कुञ्जरादुत्ततार, भून्यस्तमस्तको मुनिवरं प्रणनाम च । ततो राजोर्ध्वबाहुमेकपादस्थं तपस्यालीनं तं मुनिमवलोक्याऽतिप्रमुदितोऽन्वमोदिष्ट । प्रसन्नचन्द्रराजर्षेरद्भुतं तपःसामर्थ्यं विचारयन् श्रेणिको भूपो जगद्गुरुजिनसमीपमापत् । राजा पञ्चाङ्गस्पृष्टभूपृष्ठः स्वामिनं वन्दित्वा कमलमुकुलितपाणिर्यथास्थानमुपाविशत् । अवसरमासाद्य राजशिरोमणिर्जगद्गुरुं वस्त्राञ्चलाच्छादितमुखद्वार एवमप्राक्षीत् । "यस्मिन् समये ध्यानावस्थितो राजर्षिः प्रसन्नचन्द्रो मया निरैक्षि तादृश एव स कालधर्मं कुर्यात् तदा कां गतिमवाप्नुयात् ?" एतन्निशम्य स्वाम्याह - "यदि स नरेन्द्रस्तदा विपद्येत तदा सप्तमीं नरकभूमि गच्छेत्" । सरलमती राजा श्रमणाराधकः प्रभु

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 128