Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07 Author(s): Shubhankarsuri, Dharmkirtivijay Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad View full book textPage 8
________________ परिशिष्टपर्व - प्रथमः सर्गः mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तत्र देशे दक्षिणभरतार्द्धस्य सर्वस्वनिधिभूमिरिव लक्ष्मीक्रीडागृहं राजगृहं नाम नगरमस्ति । तत्र सौवर्णध्वजकुम्भमरीचयो वर्षाषु विद्यमानमेघानां विद्युत्सपत्नीत्वं गच्छन्ति । तत्र चन्द्रकान्तमणिनिर्मितवासगृहसंक्रान्तचन्द्रो रात्रौ कस्तूरीपूर्णमुक्तराजतपात्रायते । तत्र सुन्दराकृतिः सौवर्णः प्राकारोऽर्हत्समवसरणात् सुरैरेकः कृत इव शोभते । तत्र वापीजलं द्वयोः पार्श्वयोर्मिलगी रत्नसोपानकिरणैर्बद्धसेतुवत् प्रद्योतते, तत्र हर्येषु कन्याः क्रीडाशुकानपि जिनस्तवनानि नित्यं पाठयन्ति । तत्र रात्रिषु जिनमन्दिरशिखरचुम्बीनि स्वर्णकुम्भप्रतिबिम्बितानि नक्षत्राणि प्रकाशन्ते । तत्र प्राकारो रजत-सुवर्णकृतैः कपिशीर्षकैश्चन्द्र-सूर्यबिम्बैः सुमेरुगिरिरिव भासते । तत्र वासगेहे दग्धधूपगन्धाधिवासित: पवनः खेचरीणामङ्गे श्लिष्यन् प्रियतम इव हर्षाय जायते । तत्र चतुरो नेतेव गुणैः पृथ्वी लक्ष्मी चाऽऽवर्जयन्नुपचितयशाः श्रेणिको राजाऽभूत् । तस्य मनसि प्रसरता सम्यक्त्वरत्नप्रकाशेन मिथ्यात्वान्धकारस्याऽल्पोऽप्यवकाशो नाऽभूत् । तस्य कीर्तिः सुधर्माभ्यन्तरेऽप्सरोभिः कर्णपुटपेया विलक्षणा सुधेव देवानां हर्षं ददती सत्यगीयत । तस्मिन् केन्द्रे दुष्टग्रहवत् प्रतिकूले सति तस्य शत्रव आपदं प्रापुः । अखण्डशासने शक्रतुल्ये तस्मिन् राज्ञि पृथ्व्येकचन्द्रा द्यौरिवैकच्छत्राऽभूत् । तस्य जन्मारभ्य सामुद्रलक्षणवत् औदार्य-धैर्य-गाम्भीर्यशौर्यादयो गुणा अजायन्त । महापराक्रमस्य तस्यैकच्छवां पृथिवीं कुर्वत: पुरन्दरवज्रमिवाऽऽज्ञां कोऽपि नोल्ललङ्घ । एकदा तस्य राज्ञः पुरासन्ने गुणशिलनामकोद्याने सुरा-ऽसुरपरिवारसहितो भगवान् श्रीमहावीरस्वामी समवासरत् । तदा देवा गुणशिलोद्याने त्रिभी रूप्य-स्वर्ण-मणिमयैः प्राकारैरलकृतं समवसरणं चक्रुः । तत्र व्यन्तरसुराः पवनान्दोलितपल्लवैभव्यजनानाह्वयन्तमिवाऽशोकवृक्षं विचक्रुः । तस्मिन् समवसरणे पुरुषाकृतिः सुमेरुरिव जात्यसुवर्णवर्णो भगवान् श्रीमहावीरप्रभुः पूर्वद्वारेण प्राविशत् । श्रीमहावीरस्वाम्यशोकवृक्षाध:स्थितदेवच्छन्दे राजहंसः कमलमिव सिंहासनं यथाविध्यलञ्चकार । तत्र चतुर्विधः सङ्घो यथास्थानमुपविवेश। श्रीमहावीरप्रभुरमृतवर्षासदृशीं धर्मदेशनां प्रारेभे । तद्देशवासिनो जनाः शीघ्रं प्लवमाना मृगा इव समवसृतं श्रीमहावीरस्वामिनं राजान्तिकमुपेत्य राजानं व्यज्ञपयन् । तदा वीरस्वामिसमवसरणसमाचारामृतं श्रवणपुटेन पीतवतस्तस्य शरीरं पनसफलमिव हर्षेणोद्गतकण्टकं बभूव । ततः श्रेणिको राजा सिंहासनं पादुके च त्यक्त्वा श्रीमहावीरप्रभुं मनसिकृत्य भून्यस्तमस्तकः प्रणनाम । राजा स्वाम्यागमनसूचकेभ्यो जनेभ्यः पारितोषिके दैन्यदूरीकरणकारणं बहु सुवर्णं ददौ । अथ श्रेणिकनृपो जिनवन्दनयोग्ये सदृशे श्वेतवस्त्रे क्षीरोदलहरीव्यूते इव पर्यधात् । तदा राजगृहपतिर्मुक्तैर्बहुभिर्मुकुटादिभी रत्नभूषणैः कल्पतरुरिव शुशुभे । तदा तस्य बन्धवस्तदाज्ञया हस्त्यश्वादियानानि सज्जीकृतानि राजद्वारे शीघ्रमुपास्थापयन् । अथ राजशिरोमणिः श्रेणिकस्तेजस्वी सूर्य उदयाचलमिव कल्याणकारणं भद्रकुञ्जरमारुरोह । राजा सन्ध्यामेघसदृशैरनेकैर्नPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 128