Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्या
साकाषचरितम्-गद्यात्मकसारोद्वारः
वचनेन चिन्ताकुलितो व्यचारयत्-"अहो ! अत्युग्रतपसोऽस्य कथं दारुणा नरकावनिः स्यात् ?" ततो भूपतिर्भूयः स्वामिनं पप्रच्छ"हे प्रभो ! अस्मिन् समये स यदि कालं कुर्वीत तदा कां गति प्राप्नुयात् ?" प्रभुरुदतरत्-“हे राजशिरोमणे ! अधुना स राजर्षिः परमतपाः सर्वार्थसिद्धनामविमानारोहणयोग्यो विद्यते" ।
राजा सविस्मयमाह-"भगवन् ! द्विविधा किमियं भवतां वाणी? सर्वज्ञवाक् कदाऽपि मिथ्या न भवति, अतोऽज्ञस्य मम रहस्यं कथय। एतदाकर्ण्य स्वामी प्राह-"राजन् ! यदा त्वयाऽसौ वन्दितस्तदा स रौद्रध्यानपर आसीत्, साम्प्रतं तु शुक्लध्यानपरायण इति । तदा रौद्रध्यानाद् नरकाहः शुक्लध्यानाच्चाऽधुना स सर्वार्थसिद्धयोग्यः" ।
श्रेणिको भूपः पुनः स्वामिनं पप्रच्छ-"भगवन् ! स कथं रौद्रध्यानी कथं च शुक्लध्यानपरोऽभूत्" । स्वामी प्राह-राजन् ! त्वदग्रे सैनिकवचनेन स्वपुत्रस्य स्वमन्त्रिवर्गादभिभवमसावौषीत्, तेन सुतममतापिशाचिनीसमाविष्टमना विस्मृतसाधुव्रतो मनसा दुरात्ममन्त्रिभिरसिना योद्धमारेभे । प्रत्यक्षैरिव तैर्दुरात्मभिरमात्यैः सहाऽत्यन्तं संग्रामयन्निष्ठितास्रः प्रसन्नचन्द्रो राजर्षिः क्रुधाऽप्रसन्नमना अभूत् । स्वं निरस्त्रमपि गृहीतास्त्रं सन्नद्धमज्ञासीत्, क्रोधावेशेनाऽचिन्तयच्च स्वमन्त्रिवर्गमेतं मुकुटेन हन्मीति । ततो मुकुटजिघृक्षया यदा शिरः करेणाऽस्पृशत्, तदा लुञ्चितं स्वं मूर्धानं स्पृशन्नात्मानं गृहीतव्रतं समस्मार्षीत् ।
तदा व्यचिन्तयत्-"अहो ! धिग् धिग् रौद्रध्यानानुबन्धिनं मां, निर्ममस्य मम तेन पुत्रेण मन्त्रिवर्गेण च किम्?" इति चिन्तयतो
परिशिष्टपर्व - प्रथमः सर्गः राजर्षेर्मोहदुर्दिने नष्टे भूयोऽपि विवेकदिवाकरोऽतिभास्वर उदगात् । ततः स पुरतः स्थितानिवाऽस्मांस्तत्रैव वन्दित्वाऽऽलोच्य प्रतिक्रम्य च शुक्लध्यानमकार्षीत्, तेन प्रसन्नचन्द्रराजर्षिर्घानवनसंभवं कर्मकक्षं शुक्लध्यानाग्निना शीघ्रं भस्मसादकार्षीत् ।
तस्य राजर्षेश्चरितसुगन्धवासितो धर्मवीरः श्रेणिकः श्रीमहावीरस्वामिनं व्यजिज्ञपत्-"भगवन् ! प्रसन्नचन्द्रराजर्षिर्बालं पुत्रं राज्ये संस्थाप्य कथं मुनिव्रतमग्रहीत् ? तदा वीरप्रभुरब्रवीत्-"राजन् ! पोतनाख्ये नगरे सौम्यत्वेन चन्द्रः सोमचन्द्रो नाम राजाऽभूत् । तस्य शीलालङ्कारा धर्मधारिणी धारिणी नाम सधर्मचारिणी विवेक वारिवापिका बभूव । सा चैकदा गवाक्षासीनस्य निजनाथस्य केशकलापं पाणिपङ्केरुहाभ्यां विवरीतुं प्रारेभे । तदा सा राजशिरसि पलितमवलोक्य राजानमुवाच-"स्वामिन् ! अयं दूत आगतः" । राजा दिशोऽवलोक्योवाच-"अत्र स दूतः किं न दृश्यते ? " तदा राज्या पलितं दर्शितमूचे च
कृतान्तस्य दूती जरा कर्णमूले, समागत्य वक्तीति लोकाः शृणुध्वम् । परस्त्री-परद्रव्यवाञ्छां त्यजध्वं, जिनेशस्य पादारविन्दं भजध्वम् ॥१॥
इत्यादि प्रियावचनं श्रुत्वा राजा यौवनवनघातकं शस्त्रमिव तं पलितं दृष्ट्वा दुरमनायत । ततो धारिणीदेवी सहासं साहसं विदधाना राजानमुवाच-"एकं पलितं दृष्ट्वा यदि दुर्मनायसे तर्हि पटहध्वनिनोद्घोषय-कोऽपि भवतो वृद्धत्वं लोके न प्रकाशयेत्" इति राज्ञीवचः श्रुत्वा राजोवाच-"देवि ! नाऽहं पलितदर्शनेन जिहेमि किन्तु मदीयपूर्वपुरुषा अदृष्टपलिता एव प्राव्रजन् । अहं तु

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 128