Book Title: Siddhant Lakshan Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 52
________________ दीधिति: १४ चन्द्रशेखरीया : न प्रथमकल्पे तादृशप्रतियोगितावच्छेदकसम्बन्धावच्छिन्नाधिकरणतानिरूपितविशेषणताविशेषेण तादृशप्रतियोगितावच्छेदकावच्छिन्नाधिकरणतासामान्याभाववान् एव तादृशप्रतियोगि- अनधिकरण हेत्वधिकरणपदेन विवक्षितः । द्वितीयकल्पे तु साध्यतावच्छेदकसम्बन्धावच्छिन्न-अधिकरणता निरूपितविशेषणताविशेषेण तादृशप्रतियो गितावच्छेदकावच्छिन्नाधिकरणतासामान्याभाववानेव तादृशप्रतियोग्यनधिकरणहेत्वधिकरणपदेन विवक्षितः इति बोध्यम् । इत्थं च पर्वतानुयोगिकसंयोगेन 'वह्निमान् धूमादित्यत्र पर्वतानुयोगिकसंयोगेन घटाभाव एव गृह्यते । घटत्वावच्छिन्नघटनिष्ठ - प्रतियोगितावच्छेदकेन पर्वतानुयोगिकसंयोगेनावच्छिन्नश्च न घटः, किन्तु पर्वते वर्तमानाः वह्निवृक्षादय एव तदधिकरणता तु पर्वते विशेषणताविशेषेण स्वरूपसम्बन्धात्मकेन वर्तते । तादृशेन वह्नि-वृक्षादि - अधिकरणतानिरूपितस्वरूपसम्बन्धेन तु घटत्वावच्छिन्नघटनिष्ठप्रतियोगितावच्छेदकघटत्वावच्छिन्नघटाधिकरणता पर्वते न वर्तते एव । यतः तादृशघटाधिकरणता घटनिरूपितस्वरूपसम्बन्धेन भूतलादौ एव वर्तते । इत्थं च पर्वतः तादृशाधिकरणतासामान्याभाववान् मीलितः, तत्र च घटाभावस्य सत्वात् लक्षणसमन्वयः भवति । यद्यपि अ समवायेन वहन्यभावोऽपि ग्रहीतुं शक्यः, तदीयप्रतियोगितावच्छेदक-समवायसम्बन्धावच्छिन्नपर्वतत्वादिअधिकरणतानिरूपित - स्वरूपसम्बन्धेन वह्नित्वावच्छिन्नवह्नि- अधिकरणतासामान्याभावः एव पर्वते अस्ति । पर्वते समवायेन वह्नेः अभावात् । किन्तु तथापि तस्य वहन्यभावस्य प्रतियोगिता न साध्यतावच्छेदकसंयोगावच्छिन्ना इति तस्याः लक्षणाघटकत्वादेव न दोषः इति बोध्यम् । एवं यद्यपि घटत्वावच्छिन्नघटस्य कालिकेन पर्वते विद्यमानत्वात् पर्वते कालिकावच्छिन्नघटयधिकरणता वर्तते । तथापि सा कालिकावच्छिन्नघटाधिकरणतानिरूपितस्वरूपसम्बन्धेनैव वर्तते । प्रतियोगितावच्छेदकसंयोगावच्छिन्नवृक्षाधिकरणता निरू पितस्वरूपसम्बन्धेन तु कालिकावच्छिन्नघटाधिकरणतायाः अभाव एव पर्वते वर्तते । अतः पर्वते तादृशसामान्याभावस्याक्षतत्वात् घटाभाव एव लक्षणघटकत्वेन ग्रहीतुं शक्यते इति नाव्याप्तिः । एवं द्वितीयकल्पेऽपि साध्यतावच्छेदकपर्वतानुयोगिकसंयोगावच्छिन्नवह्निवृक्षादि - अधिकरणतानिरूपित स्वरूपसम्बन्धेन घटत्वावच्छिन्नघटाधिकरणतासामान्यस्याभावः पर्वते वर्तते, अतः संयोगादिना घटाभावोऽपि लक्षणघटको भवति । समवायेन वहन्यभावस्तु न लक्षणघटकः, तादृशाभावप्रतियोगितावच्छेदक वह्नित्वावच्छिनवह्नि-अधिकरणतायाः पर्वतानुयोगिकसंयोगावच्छिन्नवह्न्यधिकरणतानिरूपितस्वरूपसम्बन्धेन पर्वते वर्तमानत्वात् इति न कोऽपि दोषः । इत्थं चैतद् अङ्गीकर्तव्यम् अन्यथा तु न कोऽपि अभावो लक्षणघटको भवितुमर्हति । यतः सर्वे एव हेतुमन्तः कालिकादिसम्बन्धेन स्वनिष्ठाभावप्रतियोगिघटादि - अधिकरणतावन्तः एव भवन्ति । तथा च प्रतियोगि-अनधिकरण-हेत्वधिकरणस्यैवाप्रसिद्धया सर्वत्रासंभवो भवेत् इति यथोक्तमेवाङ्गीकर्तव्यम् । ચન્દ્રશેખરીયા : ઉત્તરપક્ષ : नं. ૧ મતમાં વચ્છિન્નાધિકરણતાનિરુપિતવિશેષણતા વિશેષેણ તાદશપ્રતિયોગિતાવચ્છેદકાવચ્છિન્તાધિકરણતા- સામાન્યાભાવ જેમાં મળે, એ જ પ્રતિયોગિ અનધિકરણ-હેત્વધિકરણ તરીકે લઈ લેવું. અને તેમાં રહેલ તે અભાવની સાધ્યતાવચ્છેદકસંબંધાવચ્છિન્ન તાદશપ્રતિયોગિતાનો અનવચ્છેદક એવો સાધ્યતાવચ્છેદક બનવાનો છે. તાદશપ્રતિયોગિતાવચ્છેદકસંબંધા સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૭ ૪૦

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214