Book Title: Siddhant Lakshan Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
दीधिति: २२
जगदीशी - इदमिहेत्यादि । 'इदमिह नास्तीति प्रतीतिसाक्षिकभावाऽभावसाधारणाऽभावत्वप्रवेशे तादात्म्येन साध्यतायां व्यभिचारिण्यतिव्याप्तिस्तादृशप्रतीतिनियामकाभावप्रतियोगितायास्तादात्म्यावच्छिन्नत्वाभावेनो भयाभावसत्त्वात्, अत-' इदं इदं न
भवती 'त्युक्तम् ।
चन्द्रशेखरीया : न, अभावत्वञ्च इदमिह नास्ति इदमिदं न भवति इति प्रतीतिनियामक: भावाभावसाधारणः स्वरूपसम्बन्धविशेष एव । 'भूतले घटो नास्ति' इति प्रतीतिनियामको घटाभावः । अतः तस्मिन् अभावत्वं वर्तते । एवं भूतले घटाभावो नास्ति इति प्रतीतिनियामको घटाभावाभावो घटरूपः । अतः तस्मिन् भावरूपेऽपि पदार्थे निरुक्ताभावत्वं वर्तते । तथा च 'घटे घटत्वाभावो नास्ति' इति प्रतीतिनियामको घटत्वाभावाभावो भवतीति लक्षणघटकत्वेन सोऽपि ग्रहीतुं शक्यते । तत्प्रतियोगितावच्छेदकस्वरूपसम्बन्धेन घटत्वाभाव-अनधिकरणं द्रव्यत्वाधिकरणं घटो भवति । तथा च घटत्वाभावनिष्ठा प्रतियोगिता लक्षणघटकत्वेन गृह्यते । तस्याञ्च स्वरूपावच्छिन्नत्व- द्रव्यत्वाभावत्वावच्छिन्नत्वोभयसत्वात् निरुक्तप्रतियोगितासामान्ये तादृशोभयाभावासत्वात् नातिव्याप्तिः भवति । ननु " इदमिह नास्ति" इति प्रतीतिनियामक: एव भावाभावसाधारणः स्वरूपसम्बन्धविशेषो अभावत्वेन प्रतिपाद्यताम्, तावतैवातिव्याप्तिनिवारणसंभवात् । इदमिदं न भवति इति प्रतीतिः कथं गृहीता इति चेत् यदि सा न गृह्यते । तदा तादात्म्येन गोमान् घटत्वादित्यत्र व्यभिचारिण्यतिव्याप्तिः भवेत् । यतो 'घटे गौः नास्ति' इति प्रतीतिनियामकः समवायादिनैव गवाद्यभावः भवति । अत्र तु लक्षणघटकत्वेन तादात्म्यावच्छिन्नप्रतियोगिताक एव गवाभावो गोभेदरूपो ग्रहीतुमावश्यकः । यतः तत्प्रतियोगितायामेव तादात्म्यावच्छिन्नत्व-गोत्वावच्छिन्नत्वोभयसत्वात् अतिव्याप्तिः न भवेत् । किन्तु 'इदमिह नास्ति, घटे गौः नास्ति' इत्यादिप्रतीतिनियामकः समवायादिनैव गवाभावो भवति, न तु तादात्म्येन गवाभावः । अतो ‘इदमिह नास्ति' इति प्रतीतिनियामकत्वेन तु समवायेन गवाद्यभाव एव ग्रहीतुं शक्यते । तत्प्रतियोगितासामान्ये निरुक्तोभयाभावात् भवत्येवातिव्याप्तिः । अतः इदं इदं न भवतीति प्रतीतिरपि गृहीता, अतस्तत्प्रतीतिनियामकोऽपि यो भवति, स लक्षणघटकत्वेन गृह्यते । तथा च 'घटः गौः न भवति' इति प्रतीतिनियामकः तादात्म्येन गवाभावो गोभेदरूपोऽपि लक्षणघटक- अभावपदेन ग्रहीतुं शक्यते । तत्प्रतियोगितावच्छेदकतादात्म्येन गोभेदप्रतियोगितावच्छेदकगोत्वावच्छिन्न- गो- अनधिकरणमेव घटत्वाधिकरणं घट:, तथा च गोभेदस्य गोनिष्ठा प्रतियोगिताऽपि लक्षणघटकत्वेन ग्रहीतुं शक्यते । तस्याञ्च गोत्वावच्छिन्नत्वस्वरूपावच्छ्न्नित्वोभयसत्वात् निरुक्तप्रतियोगितासामान्ये निरुक्तोभयाभावासत्वात् अतिव्याप्तिर्न
भवति ।
ચન્દ્રશેખરીયા : ઉત્તર ઃ જો એ ન કરો તો એમ જ અર્થ થાય કે ‘ઇદમિહ નાસ્તિ' એવી પ્રતીતિનો નિયામક એવો સ્વરૂપસંબંધવિશેષ જ અભાવત્વ છે બીજો નહિ અને તો પછી તાદાત્મ્યન ગોમાન્ ઘટત્વાત્ એ સ્થાને અતિવ્યાપ્તિ આવે. અહીં તાદાત્મ્યથી ગો-અભાવ=ગોભેદ જ અભાવ તરીકે લેવો પડે. કેમકે તેની જ પ્રતિયોગિતામાં તાદાત્મ્યાવચ્છિન્નત્વ+ગોત્વાવચ્છિન્નત્વોભય મળવાથી પ્રતિયોગિતાસામાન્યમાં ઉભયાભાવ ન
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૭ ૨૦૨

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214