Book Title: Siddhant Lakshan Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 172
________________ दीधिति: २१ બધામાં સા.અવ.કાલિકસંબંધત્વનો જ અભાવ હોવાથી ઉભયાભાવ મળી જાય. આમ ગગનપ્રતિયોગીકસંબંધસામાન્યમાં તાદશોભયાભાવ મળી જવાથી ગગનાભાવ જ લક્ષણઘટક બની જતા અવ્યાપ્તિ ન આવે. એમ બીજા પણ સ્થાનોમાં યથાયોગ્ય રીતે સમજી લેવું. આ રીતે વિવક્ષા કરવી શક્ય હોવા છતાં દીષિતિકારે જે સાધ્યતાવચ્છેદકસંબંધસામાન્યમાં યાદશપ્રતિયોગિતાવચ્છેદકાવચ્છિન્નપ્રતિયોગિકત્વસામાન્ય + હેત્વધિકરણીભૂતયત્કિંચિત્યક્ત્વનુયોગિકત્વસામાન્યોભયાભાવની વિવક્ષા કરી છે. તે ગુરુભૂત છે. માટે એ એમનો દોષ માનવો. અહીં ઘણી લાંબી ચર્ચા થઈ શકે છે. પણ અમે વિસ્તારના ભયથી કરતા નથી. दीधिति: “स्वरूपसम्बन्धेन गगनादेर्वृत्तिमत्वे तु, – निरुक्तप्रतियोग्यनधिकरणहेतुमन्निष्ठाभावप्रतियोगितासामान्ये, - यत्सम्बन्धावच्छिन्नत्व,– यद्धर्मावच्छिन्नत्वोभयाभावः, - तेन सम्बन्धेन तद्धर्मावच्छिन्नस्य व्यापकत्वं बोध्यम् । जगदीशी कालस्य जगदाधारत्वप्रवादमनुसृत्याह – स्वरूपसम्बन्धेनेति । कालिकविशेषण-तयेत्यर्थः । गगनादेरवृत्तित्वप्रवादस्तु संयोग- समवायपरः, - तथा चोक्तप्रणाल्याऽपि गगनाभावो न प्रतियोगिव्यधिकरण इति, - 'घटवान् महाकालत्वा 'दित्यादावव्याप्तिस्तदवस्थैवेति भावः । चन्द्रशेखरीया : ननु 'महाकालो जगतामाधारः' इति प्रवादानुसारेण तु गगनमपि कालिकेन महाकाले वर्तत एव। तथा च साध्यतावच्छेदककालिकसम्बन्धे गगनप्रतियोगिकत्व - महाकालानुयोगिकत्व-उभयसत्वात् न गगनाभावोऽपि लक्षणघटको भवतीति अव्याप्तिस्तदवस्थैव इति चेत् न एवं सति विभुपदार्थाः न कुत्रापि वर्तन्ते इति प्रवादो व्याहन्येत । आकाशस्य विभुद्रव्यस्य कालिकेन महाकालवृत्तित्वाभ्युपगमात् । ननु विभुपदार्थानां कुत्रापि वृत्तिताऽभावप्रवादस्तु समवाय - संयोगादिना एव उपपद्यते । अर्थात् विभुपदार्थाः समवायसंयोगादिना न कुत्रापि वर्तन्ते इति पदार्थमाश्रित्यैव स प्रवादः प्रवृत्तः । तथा च विभुपदार्थानां कालिकेन वृत्तित्वाभ्युपगमेऽपि तेषां समवायादिनाऽवृत्तित्वप्रवादस्य न काऽपि क्षतिः संभवति । तथा च गगनस्य कालिकेन महाकाले वृत्तित्वात् भवत्येव अव्याप्तिः इति चेत् अत्रोच्यते । एवं यदि गगनं कालिकेन महाकालवृत्ति भवेत् तदा तु न निरुक्तरीत्याऽपि गगनाभावमादाय लक्षणसमन्वयो भवति । अतोऽव्याप्तिस्तदवस्थैव भवति । तद्वारणाय वयं परिष्कारं कुर्मः સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૭ ૧૬૦

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214