________________
दीधिति: २१
બધામાં સા.અવ.કાલિકસંબંધત્વનો જ અભાવ હોવાથી ઉભયાભાવ મળી જાય. આમ ગગનપ્રતિયોગીકસંબંધસામાન્યમાં તાદશોભયાભાવ મળી જવાથી ગગનાભાવ જ લક્ષણઘટક બની જતા અવ્યાપ્તિ ન આવે. એમ બીજા પણ સ્થાનોમાં યથાયોગ્ય રીતે સમજી લેવું.
આ રીતે વિવક્ષા કરવી શક્ય હોવા છતાં દીષિતિકારે જે સાધ્યતાવચ્છેદકસંબંધસામાન્યમાં યાદશપ્રતિયોગિતાવચ્છેદકાવચ્છિન્નપ્રતિયોગિકત્વસામાન્ય + હેત્વધિકરણીભૂતયત્કિંચિત્યક્ત્વનુયોગિકત્વસામાન્યોભયાભાવની વિવક્ષા કરી છે. તે ગુરુભૂત છે. માટે એ એમનો દોષ માનવો. અહીં ઘણી લાંબી ચર્ચા થઈ શકે છે. પણ અમે વિસ્તારના ભયથી કરતા નથી.
दीधिति:
“स्वरूपसम्बन्धेन गगनादेर्वृत्तिमत्वे तु, – निरुक्तप्रतियोग्यनधिकरणहेतुमन्निष्ठाभावप्रतियोगितासामान्ये, -
यत्सम्बन्धावच्छिन्नत्व,– यद्धर्मावच्छिन्नत्वोभयाभावः,
- तेन सम्बन्धेन तद्धर्मावच्छिन्नस्य व्यापकत्वं बोध्यम् ।
जगदीशी कालस्य जगदाधारत्वप्रवादमनुसृत्याह – स्वरूपसम्बन्धेनेति । कालिकविशेषण-तयेत्यर्थः । गगनादेरवृत्तित्वप्रवादस्तु संयोग- समवायपरः,
-
तथा चोक्तप्रणाल्याऽपि गगनाभावो न प्रतियोगिव्यधिकरण इति, - 'घटवान् महाकालत्वा 'दित्यादावव्याप्तिस्तदवस्थैवेति भावः ।
चन्द्रशेखरीया : ननु 'महाकालो जगतामाधारः' इति प्रवादानुसारेण तु गगनमपि कालिकेन महाकाले वर्तत एव। तथा च साध्यतावच्छेदककालिकसम्बन्धे गगनप्रतियोगिकत्व - महाकालानुयोगिकत्व-उभयसत्वात् न गगनाभावोऽपि लक्षणघटको भवतीति अव्याप्तिस्तदवस्थैव इति चेत् न एवं सति विभुपदार्थाः न कुत्रापि वर्तन्ते इति प्रवादो व्याहन्येत । आकाशस्य विभुद्रव्यस्य कालिकेन महाकालवृत्तित्वाभ्युपगमात् । ननु विभुपदार्थानां कुत्रापि वृत्तिताऽभावप्रवादस्तु समवाय - संयोगादिना एव उपपद्यते । अर्थात् विभुपदार्थाः समवायसंयोगादिना न कुत्रापि वर्तन्ते इति पदार्थमाश्रित्यैव स प्रवादः प्रवृत्तः । तथा च विभुपदार्थानां कालिकेन वृत्तित्वाभ्युपगमेऽपि तेषां समवायादिनाऽवृत्तित्वप्रवादस्य न काऽपि क्षतिः संभवति । तथा च गगनस्य कालिकेन महाकाले वृत्तित्वात् भवत्येव अव्याप्तिः इति चेत् अत्रोच्यते । एवं यदि गगनं कालिकेन महाकालवृत्ति भवेत् तदा तु न निरुक्तरीत्याऽपि गगनाभावमादाय लक्षणसमन्वयो भवति । अतोऽव्याप्तिस्तदवस्थैव भवति । तद्वारणाय वयं परिष्कारं कुर्मः
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૭ ૧૬૦