Book Title: Siddhant Lakshan Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
दीधिति:२१
m mmmmmmmmmmmmm
Ammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
प्रमेयत्वावच्छिन्नत्वं न प्रसिद्ध्यति । अतो लक्षणघटकीभूते प्रतियोगितासामान्ये प्रमेयत्वावच्छिन्नत्वाभावो न ग्रहीतुं शक्यते । तथा च प्रमेयत्वावच्छिनत्वाभावघटितलक्षणसमन्वयस्यासंभवादत्राव्याप्तिः दुर्वारा । न च प्रमेयत्वविषयके ज्ञाने विषयितासम्बन्धेन प्रमेयत्वं वर्तते । तथा च प्रमेयत्वविशिष्टं यत् ज्ञानं, तस्मिन् वर्तमाना या विषयिता, सा प्रमेयत्वावच्छिन्ना भवति । एवं विषयितादौ प्रकारित्वापराभिधानादौ प्रमेयत्वावच्छिन्नत्वस्य प्रसिद्धत्वात् निरुक्तप्रतियोगितासामान्ये प्रमेयत्वावच्छिन्नत्वाभावोऽपि वक्तुं शक्यते इति वाच्यम् प्रतियोगितानिष्ठस्यैव प्रमेयत्वावच्छिनत्वस्याभावोऽत्र विवक्षितः, अन्यथा 'धूमवान् वहनेरित्यत्रातिव्याप्तिप्रसङ्गो भवेत् । तथाहि यद्यपि धूमनिष्ठा प्रतियोगिता लक्षणघटका भवति । किन्तु धूमत्वावच्छिन्नत्वं धूमनिष्ठप्रतियोगितायां धूमत्वज्ञाननिष्ठप्रकारितायां च भिन्न भिन्नं वर्तते, न त्वेकं । अतो धूमनिष्ठप्रतियोगितायां लक्षणघटकीभूतायां धूमत्वज्ञाननिष्ठप्रकारितायां वर्तमानस्य धूमत्वावच्छिन्नत्वस्याभाव एव वर्तते । तथा च तस्यामपि उभयाभावसत्वात् निरूक्तप्रतियोगितासामान्ये निरूक्तोभयाभावसत्वात् संयोगेन धूमो वह्निव्यापको भवेत् । तद्वारणाय प्रतियोगितायां प्रसिद्धस्यैव साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वस्याभावो लक्षणघटकीभूतायां प्रतियोगितायां अङ्गीकर्तव्यः, न त्वन्यः । एवञ्च धूमाभावीयप्रतियोगितायां धूमाभावप्रतियोगिताप्रसिद्धस्य
धूमत्वावच्छिन्नत्वस्य सत्वात् संयोगावच्छिनत्वस्य च सत्वात् उभयाभावो न वर्तते । अतोऽतिव्याप्तिन भवेत् । ३ एवञ्चात्रापि प्रतियोगितायां प्रसिद्धस्यैव प्रमेयत्वावच्छिन्नत्वस्याभावो लक्षणघटकीभूतायां प्रतियोगितायां वाच्यः, न त्वन्यः, किन्तु कस्यामपि प्रतियोगितायां प्रमेयत्वावच्छिन्नत्वमप्रसिद्धमिति तदभावो न ग्रहीतुं शक्यते, अन्यत्र प्रसिद्धस्यैव वस्तुनः अभावोऽन्यत्र ग्रहीतुं शक्यते इति नियमात् । तथा च भवत्यत्राव्याप्तिः । न च विषयितासम्बन्धेन प्रमेयत्वविशिष्टस्य ज्ञानस्य गगनेऽभावो वर्तते । तदभावप्रतियोगिता तु ज्ञाननिष्ठा ज्ञाने विषयितासम्बन्धेन वर्तमानेन प्रमेयत्वेनावच्छिन्ना । इत्थञ्च गगने निष्ठस्य प्रमेयत्वविशिष्टज्ञानाभावस्य प्रतियोगितायां प्रमेयत्वावच्छिन्नत्वस्य प्रसिद्धत्वात्, लक्षणघटकीभूतप्रतियोगितासामान्ये तदभावो वक्तुं शक्यते इति लक्षणघटनात् नाव्याप्तिरिति वाच्यम् एवमत्र विषयितासम्बन्धेन प्रतियोगितायां प्रमेयत्वावच्छिनत्वस्य प्रसिद्धत्वेऽपि साध्यतावच्छेदकतावच्छेदकसम्बन्धेन स्वरूपसम्बन्धात्मकेन प्रमेयत्वावच्छिन्नत्वस्याप्रसिद्धत्वात् । भवत्यव्याप्तिः । लक्षणे च साध्यतावच्छेदकतावच्छेदकसम्बन्धेन साध्यतावच्छेदकावच्छिन्नत्वस्यैव कुत्रापि प्रसिद्धस्याभावो इष्यते न त्वन्यः । अन्यथा विषयितासम्बन्धेन धूमत्वविशिष्टज्ञानाभावस्य गगनादिनिष्ठस्य या प्रतियोगिता, तस्यां धूमत्वावच्छिन्नत्वं प्रसिद्धम् । लक्षणघटकीभूतायां धूमाभावीयप्रतियोगितायां तु निरुक्तज्ञाननिष्ठप्रतियोगिताप्रसिद्धस्य धूमत्वावच्छिन्नत्वस्याभाव एव वर्तेत । अतः तस्यामपि निरुक्तोभयाभाव सत्वात् पूर्ववदेवातिव्याप्तिर्भवेत् । साध्यतावच्छेदक तावच्छेदक सम्बन्धेन साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वस्य कुत्रचित् प्रसिद्धस्याभावविवक्षणे तु न दोषः । धूमत्वनिष्ठायाः साध्यतावच्छेदकतायाः अवच्छेदकः सम्बन्धः समवायः, धूमत्वस्य धूमे समवायेन वर्तमानत्वात् । तेन । सम्बन्धेन तु धूमत्वं धूमे एव वर्तमानं सत् धूमनिष्ठप्रतियोगितायाः अवच्छेदकं भवितुमर्हति । तथा च संयोगेन धूमाभावीयप्रतियोगितायां साध्यतावच्छेदकतावच्छेदकसमवायेन धूमत्वावच्छिन्नात्वं तु वर्तते एव । अतस्तत्रोभयसत्वात् न प्रतियोगितासामान्ये निरुक्तोभयाभावो भवति । तथा चातिव्याप्तिः । एवमत्रापि
000000
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૮૮
00000100
200000001

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214