Book Title: Siddhant Lakshan Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
दीधितिः२१
{ પ્રતિયોગિતાવચ્છેદકતા છે. તેનો અવચ્છેદક સંબંધ નૃત્યનિયામક એવો અનુકૂલ–સંબંધ બને છે કેમકે પાક એ કૃતિમાં સ્વાનુકૂલ–સંબંધથી રહે છે. આમ આ પ્રતીતિને અનુસારે નૃત્યનિયામક સંબંધ એ પ્રતિયોગિતાવચ્છેદકતા વચ્છેદક બને છે એ વાત સર્વમાન્ય બનવાથી આ મારું લક્ષણ નિર્દોષ ઠરે છે.
जागदीशी- व्यभिचारिणि तु, -साध्यवसामान्याभावप्रतियोगितायामेव तादृशोभयाभावविरहान्नातिव्याप्तिरिति तु"-नव्याः ।
ommmmm000000000000mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
चन्दशेखरीया : अत्र लक्षणे यदि सामान्यपदं न निवेश्यते, तदा तु संयोगेन घटवदभावप्रतियोगितावच्छेदकतायाः घटनिष्ठायाः अवच्छेदकसम्बन्धः संयोगः, तेन सम्बन्धेन घटवन्निष्ठप्रतियोगितावच्छेदकघटानधिकरणं हेत्वधिकरणमयोगोलकं भवति । तथा च तादृशप्रतियोगितापदेन संयोगेन घटवन्निष्ठप्रतियोगिता गृह्यते । तस्यां च धूमत्वावच्छिन्नायाः धूमनिष्ठायाः प्रतियोगितावच्छेदकतायाः निरूपकत्वं नास्ति । अतः तस्यां संयोगावच्छिन्नायाः प्रतियोगितावच्छेदकतायाः निरूपकत्वे सत्वेऽपि धूमत्वावच्छिन्ना वच्छेदकताकत्व-संयोगावच्छिन्नावच्छेदकताकत्वोभयाभावो वर्तते, अतोऽतिव्याप्तिः भवति । अतः सामान्यपदमुपात्तम् । तथा च संयोगेन धूमवदभावप्रतियोगिता स्वपदेन गृह्यते, तत्प्रतियोगितावच्छेदकतायाः धूमनिष्ठायाः अवच्छेदकसम्बन्धः संयोगः, तेन सम्बन्धेन संयोगेन धूमवन्निष्ठप्रतियोगितावच्छेदकधूमस्यानधिकरणमयोगोलकं भवति । तथा च संयोगेन धूमवन्निष्ठा प्रतियोगिताऽपि लक्षणघटकप्रतियोगितासामान्यान्तर्गता । तस्याञ्च धूमत्वावच्छिन्नायाः धूमनिष्ठायाः प्रतियोगितावच्छेदकतायाः निरूपकत्वं संयोगावच्छिन्नायाः धूमनिष्ठायाः प्रतियोगितावच्छेदकतायाः निरूपकत्वञ्च वर्तते । इत्थं च तादृशप्रतियोगितायां धूमत्वावच्छिन्नावच्छेदकताकत्व-संयोगावच्छिन्नावच्छेदकताकत्वोभयसत्वात् निरूक्तप्रतियोगितासामान्ये निरुक्तोभयाभावो न विद्यते । अतो नातिव्याप्तिः इति सामान्यपदं सार्थकं भवति ।
ननु 'दंडिमान् दंडिसंयोगात्' इत्यत्र व्याप्यवृत्तिपदस्य प्रथमव्याख्यानुसारेण दंडि साध्यं व्याप्यवृत्ति अस्ति । किन्तु तत्र यदि हेतुमन्निष्ठाभावस्य साध्यतावच्छेदकसम्बन्धावच्छिन्नायाः प्रतियोगितायाः अनवच्छेदकं साध्यतावच्छेदकमित्यादिरुपमेव प्रतियोगिव्यधिकरणपदाघटितं लक्षणमुच्येत । तदा तु दंडिसंयोगवान् प्रासादः भूतलञ्च, तत्र भूतले प्रासादीयदंड्यभावः, प्रासादे च भूतलीय-दंड्यभावः, तयोः द्वयोः प्रतियोगिता साध्यतावच्छेदकसंयोगावच्छिन्नाऽपि अस्ति । तत्प्रतियोगितावच्छेदकश्च क्रमशः प्रासादीयदंड: भूतलीयदंडश्च भवति इत्येवंरीत्या सर्वेषां दंडानां साध्यतावच्छेदकानां निरुक्तलक्षणघटकप्रतियोगितावच्छेदकत्वसंभवाद व्याप्तिर्भवेत् । तद्वारणाय व्याप्यवृत्तिसाध्यकस्थलेऽपि प्रतियोगिव्यधिकरणघटितमेव वक्ष्यमाणं लक्षणं वक्तव्यम् । तल्लक्षणञ्च 'दंडिमान् दंडिसंयोगादित्यत्राव्याप्तं यद्यपि न भवति । लक्षणघटकप्रासादीयदंड्यादिअभावप्रतियोगितासु दंडत्वावच्छिनदंडात्मकेन यादृशधर्मेण अवच्छिनत्वाभावात् लक्षणसमन्वयसंभवात् । किन्तु 'प्रमेयवान् घटत्वादि'त्यत्र अव्याप्तिर्भवेत् । यतो यदि कुत्रापि पदार्थे प्रमेयाभावो वर्तेत, तदा तत्प्रतियोगितायां प्रमेयत्वावच्छिन्नत्वं प्रसिद्धं भवेत् । किन्तु सर्वत्र प्रमेयाभावाभावात् कस्यामपि प्रतियोगितायाम्
immiummmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
100000
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૧૮૦

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214