Book Title: Siddhant Lakshan Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 197
________________ दीधिति:२१ mmmmmmmmm ___ (विषयितया प्रमेयत्वविशिष्टस्य ज्ञानादेरभावप्रतियोगितायां प्रमेयत्वावच्छिन्नत्वस्य प्रसिद्धावपि स्वरूपसम्बन्धेन साध्यतावच्छेदकतावच्छेदकेन तदवच्छिन्नत्वस्याप्रसिद्धेः,-) अत आह, -समवायेति । ननु स्वरूपसम्बन्धेन गगनादेर्वृत्तिमत्त्वेऽपि, -प्रकृतसाध्यीयसाध्यतावच्छेदकइ सम्बन्धसामान्ये, तादृशोभयाभावविवक्षयैव सर्वसामञ्जस्ये कृतं विवक्षान्तरेण ? _ 'घटवान् महाकालत्वा'दित्यत्र घटीयतादृशविशेषणतायां पटत्वावच्छिन्नप्रतियोगिकत्वविरहेण पटाभावस्यैव प्रतियोगिवैयधिकरण्यसम्भवात्, _ 'कालः प्रमेयवान्महाकालत्वा 'दित्यत्र च कालिकसम्बन्धेन प्रमेयसामान्यस्य व्याप्यवृत्तितया । तत्र प्रतियोगिवैयधिकरण्यस्यैवानुपादेयत्वेन निर्दोषादतः पूर्वकल्पे दोषान्तरमाह, -अत एवेति । Emmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm चन्द्रशेखरीया : ननु कालिकात्मकेन स्वरूपसम्बन्धेन गगनं महाकालादौ वर्तते इति मतम् अङ्गीकृत्य भवता नूतनपरिष्कारः कृतः । किन्तु प्राचीनलक्षणं एव 'प्रकृतसाध्यीयसाध्यतावच्छेदकसम्बन्धसामान्ये । निरुक्तप्रतियोगि-प्रतियोगिकत्व-हेत्वधिकरणयत्किचिद्व्यक्त्यनुयोगिकत्वोभयाभाव' इत्यादिपरिष्कारसमन्वितं उच्यताम् । तावतैवाव्याप्तिदोषनिवारण-संभवात् । अत्र "प्रकृतसाध्यीय" इति पदं अधिकं निवेशितम् । तथा च घट एवात्र प्रकृतसाध्यः इति घटप्रतियोगिक: साध्यतावच्छेदककालिकसम्बन्ध एवात्र ग्राह्यः । तस्मिन् च घटप्रतियोगिक-कालिकसामान्ये पटाभावप्रतियोगिता-अवच्छेदकपटत्वावच्छिन्न-पटप्रतियोगिकत्वाभावात् ।। निरुक्तोभयाभावो वर्तते । अतः पटीयप्रतियोगिता लक्षणघटकत्वेन गृह्यते, तदनवच्छेदकं तु घटत्वं भवतीति लक्षणसमन्वयो संभवति । तत् किमर्थं प्राचीनलक्षणं लेशपरिष्कारसमन्वितं परित्यज्य नूतनलक्षणं क्रियते इति चेत् न प्राचीनलक्षणं दव्यं जातेः इत्यादौ अतिव्याप्तं भवति । तथा हि-अत्र द्रव्यत्वप्रतियोगिकसमवायसम्बन्धः प्रकृतसाध्यीय-साध्यतावच्छेदक-सम्बन्धः, स च सर्वत्र एक एव, समवायस्यैकत्वाभ्युपगमात् । तथा च य एव समवायः द्रव्ये वर्तते, स एव गुणे वर्तते कर्मणि च वर्तते । तथा च द्रव्यत्वप्रतियोगिकसमवायसामान्ये यथा द्रव्यत्वाभावप्रतियोगिद्रव्यत्व प्रतियोगिकत्वं वर्तते, तथैव जात्यधिक रणगुणादि-अनु योगिक त्वमपि वर्तत एव । इत्थञ्च निरुक्त समवायसामान्ये द्रव्यत्वाभावमादायोभयाभावो न वर्तते । अतो गगनाभावप्रतियोगिगगन-प्रतियोगिकत्वाभावमादाय उभयाभावो गृह्यते । तथा च गगनीयप्रतियोगिता एव लक्षणघटका, तदनवच्छेदकं च द्रव्यत्वत्वमिति अतिव्याप्तिः प्राचीनलक्षणस्य भवेत् । तस्मात् नूतनलक्षणं समादृतं । तेन च नातिव्याप्तिः । प्रतियोगितावच्छेदकसमवायेन द्रव्यत्वाभावप्रतियोगितावच्छेदकद्रव्यत्वत्वावच्छिन्न-द्रव्यत्वानधिकरणमेव गुणः, अतः समवायेन द्रव्यत्वाभावीयप्रतियोगिता लक्षणघटका भवति । तस्याञ्च समवायावच्छिन्नत्व-द्रव्यत्वत्वावच्छिन्नत्वोभयसत्वात् । निरूक्त-प्रतियोगितासामान्ये उभयाभावो न वर्तते । अतो नातिव्याप्तिः । अत्र यद्यपि कालः प्रमेयवान् महाकालत्वादित्यत्र प्राचीनलक्षणमव्याप्तं भवति । यतः साध्यतावच्छेदककालिक-सामान्ये सर्वपदार्थ Motoroloc00000000000000008805861366600000000000 - સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા - ૧૯૨

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214