Book Title: Siddhant Lakshan Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
दीधिति:२१
यद्धर्मावच्छिन्नावच्छेकताकत्व-यत्सम्बन्धावच्छिन्नावच्छेदकताकत्वोभयाभावस्तेन सम्बन्धेन । तद्धर्मावच्छिन्नस्य व्यापकत्वं विवक्षितं,
वृत्त्यनियामकसम्बन्धस्य प्रतियोगितावच्छेदकत्वाभावेऽपि, -प्रतियोगितावच्छेदकताघटकसम्बन्धत्वं सर्वसम्मतमेव,
"चैत्रो न पचती' त्यादौ वृत्त्यनियामकाऽनुकूलत्वसम्बन्धेन पाकविशिष्टायाः कृतेरभावस्य चैत्रादावन्वयदर्शनात् ।
đang
चन्द्रशेखरीया : अथवा अस्तु तावत् "वृत्यनियामकसम्बन्धः प्रतियोगितावच्छेदको न भवतीति" नियमः । तथापि वृत्यनियामकसम्बन्धस्य प्रतियोगितावच्छेदकतावच्छेदकत्वं तु सर्वेषां अभिमतमेव । अतः स्वावच्छेदकताघटकसम्बन्धेन यादृशप्रतियोगितावच्छेदकानधिकरणं हेत्वधिकरणं, तादृशप्रतियोगितासामान्ये यद्धर्मावच्छिन्नावच्छेदकताकत्व-यत्सम्बन्धावच्छिन्नावच्छेदक ताकत्वो भयाभावस्तेन सम्बन्धेनं तद्धर्मावच्छिन्नस्य हेतुव्यापकत्वं बोध्यम् । इत्थञ्च वृत्यनियामकसम्बन्धस्य प्रतियोगितानवच्छेदकत्वेऽपि न क्षतिः । प्रथमं तावदस्यार्थो निरूप्यते । स्वं=अभावीयप्रतियोगिता, तदवच्छेदकता प्रतियोगितावच्छेदकधर्मनिष्ठा, तस्याः घटक: अवच्छेदकसम्बन्धः, तेन सम्बन्धेन यादृशप्रतियोगिता-अवच्छेदकस्यानधिकरणं हेत्वधिकरणं, तादृशप्रतियोगितासामान्ये साध्यतावच्छेदकधर्मावच्छिन्ना या प्रतियोगितावच्छेदकता, तन्निरूपकत्वस्य साध्यतावच्छेदकसम्बन्धावच्छिना या प्रतियोगितावच्छेदकता तन्निरूपकत्वस्य च एतदुभयस्याभावः वर्तते । साध्यतावच्छेदकेन तेन सम्बन्धेन साध्यतावच्छेदकधर्मावच्छिन्नं साध्यं व्यापकं भवति । अत्र स्वामित्वेन धनवान् चैत्रत्वादित्यत्र स्वपदेन स्वामित्वेन धनवद्-अभावस्य प्रतियोगिता गृह्यते यदि, तदा तदवच्छेदकतायाः धननिष्ठायाः अवच्छेदकसम्बन्धः स्वामित्वम् । तेन सम्बन्धेन धनवन्निष्ठप्रतियोगिता वच्छेदकधनस्याधिकरणमेव चैत्रः, अतः सा प्रतियोगिता न गृह्यते । किन्तु समवायेन धनवान् यः धनावयवः, तदभावस्य प्रतियोगिता स्वपदेन गृह्यते । तदवच्छेदकतायाः धननिष्ठायाः अवच्छेदकसम्बन्धः समवायः, तेन सम्बन्धेन धनवन्निष्ठप्रतियोगितावच्छेदकधनस्यानधिकरणमेव चैत्रः, तथा च तादृशप्रतियोगितापदेन समवायेन धनवन्निष्ठा प्रतियोगिता गृह्यते, तस्याञ्च धनत्वावच्छिन्नायाः, धननिष्ठायाः अवच्छेकतायाः निरूपकत्वं यद्यपि अस्ति, तथा पि स्वामित्वावच्छिन्नायाः धननिष्ठायाः अवच्छेकतायाः निरूपकत्वं नास्ति । अतः तस्यां धनत्वावच्छिन्नावच्छेदकताकत्व-स्वामित्वावच्छिन्नावच्छेदकताकत्वो भयाभावसत्वात् स्वामित्वेन धनत्वावच्छिन्नधनं चैत्रत्वव्यापकं भवति । एवं स्वामित्वेन धनवान् द्रव्यत्वादित्यत्र स्वामित्वेन धनवच्चैत्राभावस्य प्रतियोगिता स्वपदेन गृह्यते । तत्प्रतियोगितावच्छेदकतायाः धनवनिष्ठायाः अवच्छेदकसम्बन्धः स्वामित्वं, तेन सम्बन्धेन धनवनिष्ठप्रतियोगितावच्छेदकधनस्यानधिकरणमेव द्रव्यत्वाधिकरणं घटादि । तथा च स्वामित्वेन धनवन्निष्ठायाः प्रतियोगितायाः लक्षणघटकत्वात्, तस्याञ्च धनत्वावच्छिन्नायाः धननिष्ठायाः अवच्छेदकतायाः निरूपकत्वस्य च सत्वात् लक्षणघटकप्रतियोगितासामान्ये धनत्वावच्छिनावच्छेदकताकत्व-स्वामित्वावच्छिन्नावच्छेदकताकत्वोभयाभावो न वर्तते । तथा च नातिव्याप्तिः
ambimmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm00000000000000000mmmmmmmmmmmms
Dooooooo
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખીયા નામની ટીકા - ૧૮૫

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214