Book Title: Siddhant Lakshan Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
दीधिति:२१
जागदीशी -तादृशसम्बन्धस्यापि प्रतियोगितावच्छेदकत्वपक्ष एव एतन्निरूक्त्यादरात् ।
चन्द्रशेखरीया : न वृत्यनियामकस्वामित्वादिसम्बन्धोऽपि प्रतियोगिवच्छेदको भवति इति मतमङ्गीकृत्यैवैतद्लक्षणकरणात् न दोषः । तथा च घटादौ स्वामित्वेन धनाभावो वर्तते । अतः तत्प्रतियोगितायां स्वामित्वावच्छिन्नत्वं प्रसिद्धमस्ति । प्रकृते तु स्वामित्वसम्बन्धेन धनसम्बन्धी एव चैत्रः इति धनाभावो न ग्रहीतुं शक्यते, किन्तु समवायादिना धनाभावो गृह्यते, तत्प्रतियोगितावच्छेदक समवाये न धननिष्ठप्रतियोगितावच्छेदकधनत्वावच्छिन्नधनसंबंधिनो धनावयवाः, तादृशधनसंबंधिभिन्नश्च चैत्रः, अतः समवायेन धनादिनिष्ठप्रतियोगिता: लक्षणघटकाः भवन्ति । तासु च स्वामित्वावच्छिन्नत्वाभावो वर्तते इति लक्षणसमन्वयात् नाव्याप्तिः ।
ચન્દ્રશેખરીયાઃ ઉત્તર : વૃત્તિ-અનિયામકસંબંધ પણ પ્રતિયોગિતાવચ્છેદક બને જ છે એ મતને અનુસારે જ અમે આ લક્ષણ બનાવેલ છે. એટલે પ્રતિયોગિતાઓમાં સ્વામિત્વાવચ્છિન્નત્વ પ્રસિદ્ધ હોવાથી લક્ષણઘટક પ્રતિયોગિતામાં તેનો અભાવ પણ લઈ શકાય છે અને તેથી અવ્યાપ્તિ ન આવે
TBTD00000000000000000000000000000000000
जागदीशी - "निरूक्तप्रतियोगितासामान्ये, यत्सम्बन्धातिरिक्तसम्बन्धानवच्छिन्नत्व यद्धर्माव-च्छिन्नत्वोभयाभावस्तत्सम्बन्धेन तद्धर्मावच्छिन्नस्य व्यापकत्व"-मिति तु न युक्तम्;
वृत्त्यनियामकसम्बन्धेन साध्यतायां व्यभिचारिण्यतिव्याप्त्यापत्तेः ।
Emmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
Ung
चन्द्रशेखरीया : ननु वृत्यनियामकसम्बन्धः प्रतियोगितावच्छेदको न भवतीति नियमाङ्गीकारेऽपि निरुक्त प्रतियोगितासामान्ये साध्यतावच्छे दक - यत्सम्बन्धभिन्नासम्बन्धानवच्छिन्नात्वसाध्यतावच्छेदकयधर्मावच्छिन्नत्वोभयाभावः, तत्सम्बन्धेन तद्धर्मावच्छिन्नस्य व्यापकत्वं इति विवक्षणे नात्राव्याप्तिः भवेत् । तथाहि समवायेन धनाभावीयादिप्रतियोगिताः लक्षणघटकाः । ता सु च साध्यतावच्छेदकस्वामित्वसम्बन्धभिन्नसमवायसम्बन्धावच्छिन्नत्वं अस्ति, समवायाद्यनवच्छिन्नत्वं नास्ति । अतः प्रतियोगितासामान्ये उभयाभावसत्वात् नाव्याप्तिः इति चेत् न, एवं सति स्वामित्वेन धनाभावो यदि लक्षणघटकत्वेन गृह्येत, तदैवातिव्याप्तिः न भवेत् । किन्तु धनाभावप्रतियोगिताया अवच्छेदकः स्वामित्वसम्बन्धो भवदुक्तरीत्या न भवति । 'वृत्यनियामकसम्बन्धः प्रतियोगितावच्छेदको न भवतीति' नियमाङ्गीकारात् । तथा च स्वामित्वस्य प्रतियोगितानवच्छेदकतया "प्रतियोगितावच्छेदकेन स्वामित्वसम्बन्धेन धननिष्ठप्रतियोगितावच्छेदक-धनत्वावच्छिन्नधनसंबंधिभिन्नं हेत्वधिकरणमित्यादि न वक्तुं शक्यते । एवञ्च स्वामित्वेन धनाभावप्रतियोगिता न लक्षणघटका, किन्तु समवायादिना धनाभावप्रतियोगिता एव । तस्याञ्च साध्यतावच्छेदक-स्वामित्वभिन्नसमवायावच्छिन्नत्वसत्वात् तदनवच्छिनत्वाभावात् उभयाभावो वर्तते । तथा चात्रातिव्याप्तिः भवेत् । तस्मात् भवन्मतं न समुचितम् । अतो वृत्यनियामकस्वामित्वादिसम्बन्धः प्रतियोगितावच्छेदको भवतीति मतमङ्गीकृत्यैव सर्वं सुसङ्गतं कर्तव्यम् ।
g
n
u
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૮૩
c

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214