Book Title: Siddhant Lakshan Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 71
________________ wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwmmmmmmm दीधिति:१७ ALODDDDDDDDDDDDDDDDDDDDDDDDIOHDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDI ARI DDRDDDDDDDDDDDDDDDDDDDI TI ES व्याप्तिविशिष्टसास्नाज्ञानात्तु गोतादात्म्यसाध्यिका एव "इयं गोतादात्म्यवती" इत्यनुमितिरुचिता, न तु गोसाध्यिका, गोनिरूपितव्याप्तिविशिष्टसास्नाज्ञानाभावात् इति वाच्यम् सम्बन्धनिष्ठायाः व्यापकतायाः ज्ञानात् संबंधिनोऽनुमितिः मिश्रादीनां सम्मतैव । तथा च गोतादात्म्यनिष्ठाया: व्यापकतायाः ज्ञानात् गोरनुमिति नुपपन्ना। इत्थं च "इयं गौः" इत्यनुमित्यनुरोधेनापि धर्मिणो गवादेः धर्मव्यापकत्वं न सिद्ध्येत्, किन्तु दीधितिकारस्तु । तत्साधयितुं इच्छति । अतः दीधितिकारेण "योत्ववाद्यग्रहदशायां" इति पदमुपात्तम् । तस्यार्थस्तु गोतादात्म्यत्वाग्रहदशायामिति । तथा च यत्र गोतादात्म्यत्वस्य ज्ञानं नास्ति । तत्र गोतादात्म्यत्वं तादृशप्रतियोगितानवच्छेदकमिति ज्ञानं न संभवति । तज्ज्ञानं विना च गोतादात्म्ये सास्नाव्यापकत्वज्ञानमपि न संभवति । तथा च तत्र जायमानायाः "इयं गौः" इत्यनुमित्तेः उत्पत्तिः गोनिरूपितव्याप्तिज्ञानविशिष्टसास्नाज्ञानादेव मन्तव्या। एवं च तदनुमित्यनुरोधेन गवि धर्मिणि धर्मव्यापकत्वं प्रसिद्धं भवति इति न कश्चिद् दोषः । अत्र प्राचीनमतेऽपि आदिपदप्रयोजनं पूर्ववत् एव विभावनीयम् । तथापि स्थानाशून्यार्थं किञ्चित्प्रदर्श्यते । पूर्वपक्षः कथयति – गवि व्यापकताज्ञानाय 'गोत्वं तादृशप्रतियोगितानवच्छेदकं' इति ज्ञानमावश्यकं, तत्र गोत्वत्वस्य गोतादात्म्यरूपस्य धर्मितावच्छेदकविधया उपस्थितिरावश्यकी । तथा च गोतादात्म्यज्ञानं विना निरूक्तानुमितेः असंभवात्, गोतादात्म्यज्ञानान्तरं समुत्पद्यमानायाः अनुमितेः गोसाध्यकत्वेऽपि गोतादात्म्यनिरूपितव्याप्तिविशिष्टसास्नाज्ञानजन्यत्वस्य संभवदुक्तिकत्वात् न तदनुमित्यनुरोधेनापि गवि सास्नाव्यापकत्वं सिध्यति अपि तु गोतादात्म्ये एव तत्सिद्ध्यतीति । तत्र प्राचीनाः उत्तरयन्ति - तथापि यत्र गोतादात्म्यनिरूपितव्याप्तिविशिष्टसास्त्रायाः पक्षधर्मत्वेन ज्ञानं न भवति । तत्र जायमानायाः अनुमितेः अनुरोधेन गवि सास्नाव्यापकत्वमवश्यं मन्तव्यं । यतः तत्र गोनिरूपितव्याप्तिविशिष्टसास्नाविषयकपक्षधर्मताज्ञानादेव साऽनुमितिः समुत्पन्नाऽवश्यं मन्तव्या । तथा च समागतमेव गवि सास्नाव्यापकत्वमिति आदिपदेन गोतादात्म्यनिरूपितसास्नाविषयकपक्षधर्मतां गृहीत्वा तदग्रहदशायां जायमानानुमित्यनुरोधेन गवि सास्नाव्यापकत्वं संगमनीयमित्यादि । ___ अत्र तच्चिन्त्यमित्यनेन जगदीशः प्राचां मतेऽस्वरसं दर्शयति । तद्बीजं तु स्वयमेव विवृत्तिटीकानुसारेण विभावनीयम् । नात्र प्रतन्यते । विवृत्तिकारस्य पुरस्तात् "तच्चिन्त्यमि"ति पाठो नासीत् किन्तु “आहुरित्येव" पाठोऽभवत् इति तु विवृत्तिटीकायां प्रोक्तेन "आहुरित्युक्त्या सूचितः" इति ग्रन्थेनानुमीयते । ચન્દ્રશેખરીયાઃ પ્રાચીનો ખરેખર તો “ગૌ એ તાદાભ્યથી સાસ્નાનો વ્યાપક છે” એવો બોધ પ્રથમ નથી 8 થતો. પરંતુ “ગૌતાદાભ્ય જ સાસ્નાવ્યાપક છે' એવો બોધ થાય છે. અર્થાત્ “સાસ્નાવતુનિષ્ઠાભાવાપ્રતિયોગી ગૌતાદાત્યં= સાસ્નાવનિષ્ઠાભાવપ્રતિયોગિતાનવચ્છેદ-ગૌતાદામ્યવં તદવચ્છિન્ન ગોતાદાત્સ્ય” એવો જે ઉં બોધ થાય. અને એના દ્વારા જ પછી “ઇયં ગૌ:” એવી ગૌની તાદાભ્યથી સિદ્ધિ થાય છે. એટલે એ અનુમિતિ દ્વારા ગૌને તાદાભ્યથી સાસ્નાવ્યાપક માનવાની વાત બરાબર નથી લાગતી. કેમકે ગૌતાદાભ્યને જ સાસ્નાવ્યાપક માનવાથી આ અનુમિતિ ઘટી જાય છે. પ્રશ્ન ઃ જો ગીતાદાભ્યમાં વ્યાપક્તાનો બોધ થયો છે, તો પછી અનુમિતિ પણ ઇયં ગૌતાદામ્યવતી' એમ જ થવી જોઈએ. ઇયં તાદાસ્પેન ગોમતી (ઇયં ગૌઃ)' એ અનુમિતિ શી રીતે થઈ શકે? જેમાં વ્યાપક્તાનો બોધ BLOODDDDDDDDDDDDDDDDDDIDIODODDOODCDDDDDDDDDITI ATIODODDDDDDDDDDDDDDDDDDHUBABITIOHIROIDDITI OTIDIODOASTDOODIODIODOODDDDI DI O સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા - ક ommmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm ChaodOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOODUCTIDIODOIDIODOOOOOOOOOOOOOODIDIODIDIODOTCOIROIDOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOODOODddadauwaduadmaaaaaaaaaaaaaadood

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214