________________
दीधिति: १९
साध्यतावच्छेदकाघटकेन महाकालान्यत्ववैशिष्ट्यरूपसाध्यनिष्ठधर्मेणावच्छिन्नत्वात्तादृशप्रतियोगिताकाभावमादाय न प्रतियोगिव्यधिकरणाभावस्य प्रसिद्धिसम्भावनाऽपीति प्राहुः,
चन्द्रशेखरीया : प्रकृते तु समवायेन घटत्वविशिष्टो घट एव कालिकेन साध्यः । तथा च साध्यतावच्छेदकतायाः घटत्वनिष्ठायाः अवच्छेदकेन समवायेन महाकालभेदविशिष्टघटाभावप्रतियोगितावच्छेदकं महाकालभेदविशिष्टघटत्वं न कुत्रापि वर्तते । यतो महाकालभेदवैशिष्ट्यं घटत्वम् च,इति द्वौ धर्मौ अत्र स्तः। तत्र घटत्वं समवायेन वर्तते । महाकालभेदवैशिष्ट्यं तु स्वरूपेण वर्तते । अतः समवायमात्रेण तु महाकालभेदवैशिष्ट्यघटत्वोभयं न कुत्रापि वर्तते । तथा चात्र समवायेन महाकालभेदविशिष्टघटत्वावच्छिन्नस्यैवाप्रसिद्धत्वात् तदधिकरणमप्यप्रसिद्धमेव अतः तद्घटितलक्षणसमन्वयो न भवति । तथा च महाकाले कालिकेन महाकालभेदविशिष्टघटस्यावर्तमान- त्वेऽपि न निरुक्तरीत्या लक्षणसमन्वयः संभवतीति अत्राव्याप्तिर्भवत्येव । न च महाकालभेदः न घटविशेषणमपि तु घटत्वविशेषणम् । तच्च महाकालभेदविशिष्टघटत्वं प्रतियोगितावच्छेदकं समवायेन घटे वर्तते एव । अतो महाकालभेदविशिष्टघटत्वावच्छिन्नो घटः प्रसिद्ध एव । तत्कथं तमादायाव्याप्तिनिरासो न संभवेत् इति वाच्यम् एवं सति महाकालभेदविशिष्टघटत्वात्मकेन विशिष्टेन निरूपितः समवायोऽभ्युपगतो भवेत् । वयं च विशिष्टनिरूपितसमवायं न स्वीकुर्मः । अतः तद्द्द्वारा लक्षणसमन्वयकरणं निरर्थकमेव भाति इति दृष्टव्यम् ।
ચન્દ્રશેખરીયા : હવે પ્રસ્તુતમાં તમે મહાકાલભેદવિશિષ્ટઘટાભાવને લક્ષણઘટક બનાવો છો. પરંતુ તેની પ્રતિયોગિતા તો સાધ્યતાવચ્છેદકતાનો અઘટક એવો અને સાધ્ય=ઘટમાં રહેનાર એવો જે મહાકાલભેદ છે તેનાથી અવચ્છિન્ન હોવાથી તે પ્રતિયોગિતા ન લઈ શકાય અને તેથી તેના દ્વારા લક્ષણસમન્વય પણ ન થઈ શકે. અને માટે અવ્યાપ્તિ આવે. (મહાકાલભેદ બોલો કે, મહાકાલ ભેદવૈશિષ્ટ્ય બોલો કે મહાકાલાન્યત્વવૈશિષ્ટ્ય બોલો બધું એક જ છે એ ખ્યાલ રાખવો.)
जागदीशी – तच्चिन्त्यम्, –'प्रमेयवान् वाच्यत्वा 'दित्यादौ हेतुसमानाधिकरणतादृशप्रतियोगिताका भावाऽ प्रसिद्ध्याऽव्याप्तिप्रसङ्गात् ।
चन्द्रशेखरीया : तच्चिन्त्यम् यतः एवं सति प्रमेयवान् वाच्यत्वात् इत्यादावपि अव्याप्त्यापत्तिर्भवेत् । तथाहि अत्र योऽपि घटाभावादिः लक्षणघटकत्वेन गृह्यते । तस्य प्रतियोगिता साध्यतावच्छेदकप्रमेयत्वाघटकेन प्रमेयात्मकसाध्यनिष्ठेन घटत्वादिरूपधर्मेण अवच्छिन्नैव भवति । न तु तदनवच्छिन्ना । न च कोऽपि धर्मः प्रमेयात्मकसाध्यनिष्ठो न भवति । न चात्र प्रमेयाभावो लक्षणघटको भवितुमर्हति । येन तत्प्रतियोगिता साध्यतावच्छेदकघटकेन साध्यवृत्तिप्रमेयत्वात्मकधर्मेणावच्छिन्ना सती साध्यतावच्छेदकाघटकेन साध्यवृत्ति धर्मेणानवच्छिन्ना प्रसिद्धा भवेत् । हेतुमति प्रमेयाभावस्यासत्वात् । तथा चात्र हेत्वधिकरणवृत्ति-अभावस्य
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૭ ૯૫