Book Title: Siddhant Lakshan Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 125
________________ दीधिति:१९ aandaadanamadamadRODUCTIONARTodaddddddddddddodarodamadTATTOORDITORIADOODOOR TRADITATOPROORDARORADOORDROOMITRAMODOOOOOOOOOOOOOOOOOD Ammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm000000000mm ननु अत्रानुमानेऽपि अव्याप्तिः न भवत्येव । यतो यदि स्थूलदधित्वाधिकरणम् त्र्यणुकम् गृह्यते, तदा चतुरणुकानुयोगिक-समवायेन दधित्वविशिष्टप्रमेयात्मकसाध्यस्य पञ्चाणुकस्वरूपस्याधिकरणम् चतुरणुकदधि एव । न तु त्र्यणुकदधि । तथा च चतुरणुकदधि-अनुयोगिकसमवायेन दधित्वविशिष्टप्रमेयानधिकरणं हेत्वधिकरणं त्र्यणुकदधि भवति । इत्थं च यद्यत्सम्बन्धपदेन चतुरणुकदध्यनुयोगिकसमवायो ग्रहीतुं शक्यः, तद्भिन्नः सम्बन्धः तादात्म्यम् । तेन सम्बन्धेन दधित्वविशिष्टप्रमेयस्य त्र्यणुकादिदधिरूपस्याधिकरणम् त्र्यणुकादिदधि एव । तत्र च स्थूलदधित्वं वर्तते इति लक्षणघटनात् नाव्याप्तिः । एवं दधित्वविशिष्टप्रमेयरूपं साध्यं तु दध्नि समवायेन वर्तमानमेव त्र्यणुकदधि-चतुरणुकदधि-द्रव्यत्व-पृथ्वीत्वादि भवति । न त्वन्यत् । तत्र हेत्वधिकरणे त्र्यणुकदनि द्रव्यत्वपृथ्वीत्वादिरूपम् यत् दधित्वविशिष्टप्रमेयं, तत् संयोगेन न वर्तत एव । तस्य संयोगेन वृत्तितायाः एवाप्रसिद्धत्वात् । यच्च त्र्यणुकदधि-चतुरणुकदधिस्वरूपं साध्यं, तत् त्र्यणुकदध्नि तादात्म्य-समवायादिना यद्यपि वर्तते, किन्तु संयोगेन न वर्ततेऽपि । त्र्यणुकदनि त्र्यणुकदधिचतुरणुकदध्यादीनां साध्यस्वरूपाणां संयोगेनावर्तमानत्वस्य संभवात् । इत्थं च संयोगेन दधित्वविशिष्टप्रमेयानां त्र्यणुकदधित्वादिरूपाणां अधिकरणं तत्पात्रकादि । तदनधिकरणं तु त्र्यणुकदधि भवति । अतो यद्यत्सम्बन्धपदेन संयोगोऽपि ग्रहीतुं शक्यते । तद्भिनेन तादात्म्यसम्बन्धेन साध्याधिकरणे हेतोः वर्तमानत्वात् भवति लक्षणसमन्वयः। तथा च अस्मदुक्तव्याप्तिलक्षणमपि निर्दुष्टमेव भवति तत्कथं तस्य प्रतिषेधः क्रियते इति चेत् सत्यं तथापि तत्त्र्यणुकदधिवृत्तित्वविशिष्टदधि यत्र तादात्म्येन साध्यं तत्र तत्त्र्यणुकदधित्वहेतौ अव्याप्तिः भवेत् । तथा हि अत्र हेत्वधिकरणं तु तत्त्र्यणुकमेव । तच्च तत्त्र्यणुकदधि तादात्म्येन तत्त्र्यणुके वर्तते । अतः तत्त्र्यणुकदधि तत्त्र्यणुकदधिवृत्तित्वविशिष्टदधि भवति । एवं तत्त्र्यणुके समवायेन वर्तमानं चतुरणकदधि अपि तत्त्र्यणुकदधिवृत्तित्वविशिष्टदधि भवति । अनयोः द्वयोः मध्ये तत्त्र्यणुकदधिरूपं साध्यं तादात्म्येन तत्त्र्यणुकदनि वर्तत एव । अतो अयं सद्धेतुरस्ति । किन्तु भवदुक्तरीत्याऽत्र लक्षणसमन्वयो न भवेत् । तथाहि यदि तादात्म्यसम्बन्धो गृह्येत, तदा तेन सम्बन्धेन तत्त्र्यणुक-दधिवृत्तित्वविशिष्टदधिअधिकरणमेव तत्त्र्यणुकदधि, न तु अनधिकरणम् । अतः तादात्म्यं न ग्रहीतुं शक्यम् । यदि समवायो गृह्येत, तदा समवायेन तत्त्र्यणुकदधिवृत्तित्वविशिष्टदधि चतुरणुकदधिस्वरूपं तत्र तत्त्र्यणुके वर्तते । अतः समवायेनापि तत्त्र्यणुक-दधिवृत्तित्वविशिष्टदधि-अधिकरणमेव तत्र्यणुकदधि । अतः समवायोऽपि न गृह्यते । एवं यदि चतुरणुकदध्यनुयोगिकसमवायादि गृह्येत । तदा तु तत्त्र्यणुकदधिवृत्तित्वविशिष्टदधि समवायेन तत्युकदधिन वर्तमानं चतुरणुकदधिरू पं तत्त्र्यणुकानुयोगिकसमवायेनैव वर्तते । न त्वन्यसम्बन्धेन । अतः चतुरणुकदध्यनुयोगिकसमवायादिना साध्याधिकरणस्यैवाप्रसिद्धत्वात् तेन सम्बन्धेन तदनधिकरणमपि ग्रहीतुं न शक्यम् इति न तादृशसम्बन्धोऽपि ग्रहीतुं शक्यः । एवं संयोगोऽपि ग्रहीतुं न शक्यते । तथाहि-यथा द्रव्यत्वं समवायेन सर्वत्र द्रव्ये वर्तते । किन्तु समवायेन घटवृत्तित्वविशिष्टं द्रव्यत्वं तु समवायेन केवलं घटे एव वर्तते । सोऽपि समवायः घटानुयोगिकसमवाय एव, न त्वन्यः । एवं समवायेन कपालवृत्तित्वविशिष्टो घटोऽपि कपालानुयोगिकसमवायेनैव वर्तते । न तु संयोगादिना कुत्रापि । एवमत्रापि समवायेन तत्त्र्यणुकदधिवृत्तित्वविशिष्टचतुरणुकदधिरूपं साध्यं समवायेनैव वर्तते । तादात्म्येन तत्त्र्यणुकदधिवृत्तित्वविशिष्टतत्यणुकदधिरूपं ammthmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmms BodmanduDDDDDDDDDDOOOOOOOOOOOOOOOOGODaddaddRRODOTOHDDOOTAGONDITICISITICCOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOODOOOOOOOOOOOOOOOOOOOOOOTOBODOOOOR - સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૨૦

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214