________________
दीधिति:१९ aandaadanamadamadRODUCTIONARTodaddddddddddddodarodamadTATTOORDITORIADOODOOR TRADITATOPROORDARORADOORDROOMITRAMODOOOOOOOOOOOOOOOOOD
Ammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm000000000mm
ननु अत्रानुमानेऽपि अव्याप्तिः न भवत्येव । यतो यदि स्थूलदधित्वाधिकरणम् त्र्यणुकम् गृह्यते, तदा चतुरणुकानुयोगिक-समवायेन दधित्वविशिष्टप्रमेयात्मकसाध्यस्य पञ्चाणुकस्वरूपस्याधिकरणम् चतुरणुकदधि एव । न तु त्र्यणुकदधि । तथा च चतुरणुकदधि-अनुयोगिकसमवायेन दधित्वविशिष्टप्रमेयानधिकरणं हेत्वधिकरणं त्र्यणुकदधि भवति । इत्थं च यद्यत्सम्बन्धपदेन चतुरणुकदध्यनुयोगिकसमवायो ग्रहीतुं शक्यः, तद्भिन्नः सम्बन्धः तादात्म्यम् । तेन सम्बन्धेन दधित्वविशिष्टप्रमेयस्य त्र्यणुकादिदधिरूपस्याधिकरणम् त्र्यणुकादिदधि एव । तत्र च स्थूलदधित्वं वर्तते इति लक्षणघटनात् नाव्याप्तिः । एवं दधित्वविशिष्टप्रमेयरूपं साध्यं तु दध्नि समवायेन वर्तमानमेव त्र्यणुकदधि-चतुरणुकदधि-द्रव्यत्व-पृथ्वीत्वादि भवति । न त्वन्यत् । तत्र हेत्वधिकरणे त्र्यणुकदनि द्रव्यत्वपृथ्वीत्वादिरूपम् यत् दधित्वविशिष्टप्रमेयं, तत् संयोगेन न वर्तत एव । तस्य संयोगेन वृत्तितायाः एवाप्रसिद्धत्वात् । यच्च त्र्यणुकदधि-चतुरणुकदधिस्वरूपं साध्यं, तत् त्र्यणुकदध्नि तादात्म्य-समवायादिना यद्यपि वर्तते, किन्तु संयोगेन न वर्ततेऽपि । त्र्यणुकदनि त्र्यणुकदधिचतुरणुकदध्यादीनां साध्यस्वरूपाणां संयोगेनावर्तमानत्वस्य संभवात् । इत्थं च संयोगेन दधित्वविशिष्टप्रमेयानां त्र्यणुकदधित्वादिरूपाणां अधिकरणं तत्पात्रकादि । तदनधिकरणं तु त्र्यणुकदधि भवति । अतो यद्यत्सम्बन्धपदेन संयोगोऽपि ग्रहीतुं शक्यते । तद्भिनेन तादात्म्यसम्बन्धेन साध्याधिकरणे हेतोः वर्तमानत्वात् भवति लक्षणसमन्वयः। तथा च अस्मदुक्तव्याप्तिलक्षणमपि निर्दुष्टमेव भवति तत्कथं तस्य प्रतिषेधः क्रियते इति चेत् सत्यं तथापि तत्त्र्यणुकदधिवृत्तित्वविशिष्टदधि यत्र तादात्म्येन साध्यं तत्र तत्त्र्यणुकदधित्वहेतौ अव्याप्तिः भवेत् । तथा हि अत्र हेत्वधिकरणं तु तत्त्र्यणुकमेव । तच्च तत्त्र्यणुकदधि तादात्म्येन तत्त्र्यणुके वर्तते । अतः तत्त्र्यणुकदधि तत्त्र्यणुकदधिवृत्तित्वविशिष्टदधि भवति । एवं तत्त्र्यणुके समवायेन वर्तमानं चतुरणकदधि अपि तत्त्र्यणुकदधिवृत्तित्वविशिष्टदधि भवति । अनयोः द्वयोः मध्ये तत्त्र्यणुकदधिरूपं साध्यं तादात्म्येन तत्त्र्यणुकदनि वर्तत एव । अतो अयं सद्धेतुरस्ति । किन्तु भवदुक्तरीत्याऽत्र लक्षणसमन्वयो न भवेत् । तथाहि यदि तादात्म्यसम्बन्धो गृह्येत, तदा तेन सम्बन्धेन तत्त्र्यणुक-दधिवृत्तित्वविशिष्टदधिअधिकरणमेव तत्त्र्यणुकदधि, न तु अनधिकरणम् । अतः तादात्म्यं न ग्रहीतुं शक्यम् । यदि समवायो गृह्येत, तदा समवायेन तत्त्र्यणुकदधिवृत्तित्वविशिष्टदधि चतुरणुकदधिस्वरूपं तत्र तत्त्र्यणुके वर्तते । अतः समवायेनापि तत्त्र्यणुक-दधिवृत्तित्वविशिष्टदधि-अधिकरणमेव तत्र्यणुकदधि । अतः समवायोऽपि न गृह्यते । एवं यदि चतुरणुकदध्यनुयोगिकसमवायादि गृह्येत । तदा तु तत्त्र्यणुकदधिवृत्तित्वविशिष्टदधि समवायेन तत्युकदधिन वर्तमानं चतुरणुकदधिरू पं तत्त्र्यणुकानुयोगिकसमवायेनैव वर्तते । न त्वन्यसम्बन्धेन । अतः चतुरणुकदध्यनुयोगिकसमवायादिना साध्याधिकरणस्यैवाप्रसिद्धत्वात् तेन सम्बन्धेन तदनधिकरणमपि ग्रहीतुं न शक्यम् इति न तादृशसम्बन्धोऽपि ग्रहीतुं शक्यः । एवं संयोगोऽपि ग्रहीतुं न शक्यते । तथाहि-यथा द्रव्यत्वं समवायेन सर्वत्र द्रव्ये वर्तते । किन्तु समवायेन घटवृत्तित्वविशिष्टं द्रव्यत्वं तु समवायेन केवलं घटे एव वर्तते । सोऽपि समवायः घटानुयोगिकसमवाय एव, न त्वन्यः । एवं समवायेन कपालवृत्तित्वविशिष्टो घटोऽपि कपालानुयोगिकसमवायेनैव वर्तते । न तु संयोगादिना कुत्रापि । एवमत्रापि समवायेन तत्त्र्यणुकदधिवृत्तित्वविशिष्टचतुरणुकदधिरूपं साध्यं समवायेनैव वर्तते । तादात्म्येन तत्त्र्यणुकदधिवृत्तित्वविशिष्टतत्यणुकदधिरूपं
ammthmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmms
BodmanduDDDDDDDDDDOOOOOOOOOOOOOOOOGODaddaddRRODOTOHDDOOTAGONDITICISITICCOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOODOOOOOOOOOOOOOOOOOOOOOOTOBODOOOOR
- સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૨૦