________________
दीधिति:१९
aum
mmmmm
mmmmmm000000000000000000000000000000000000000mmun
तस्य कुत्राप्यवर्तमानत्वात् तेन सम्बन्धेन तदनधिकरणमपि न ग्रहीतुं शक्यमतोऽव्याप्तिःसंभवेत् इत्यलं विस्तरेण । प्रकृतं प्रस्तुमः । अत्र यत्र समवायेन दधित्वं वर्तते तत्र यो प्रमेयः समवायेन वर्तते, स समवायघटितसामानाधिकरण्येन दधित्वविशिष्टो भवति । अत्रानुमाने समवायघटितसामानाधिकरण्येनदधित्वविशिष्टः प्रमेयः तादात्म्येन साध्यः इति बोध्यम् । तथा च यत्र त्र्यणुकादौ स्थूलदधित्वं वर्तते । तत्र सर्वत्र तादात्म्येन तादृशं दधित्वविशिष्टप्रमेयात्मकं साध्यं वर्तत एव । तथा हि त्र्यणुकः समवायेन द्वयणुकदनि वर्तते, तत्र दधित्वं वर्तते । तथा च द्वयणुके वर्तमानः त्र्यणुकः समवायघटितसामानाधिकरण्येन दधित्वविशिष्टः भवति । स च त्र्यणुकः प्रमेयः एव, स च त्र्यणुके तादात्म्येन वर्तते । इत्थञ्च त्र्यणुके स्थूलदधित्वं हेतुरप्यस्ति, तादात्म्येन दधित्वविशिष्टप्रमेयोऽपि अस्ति इति इदं सत्स्थानम् । एवं यदि स्थूलदधित्वं चतुरणुकदध्नि गृह्यते, तदा तत्रापि त्र्यणुके समवायघटितसामानाधिकरण्येन दधित्वविशिष्टः सन् चतुरणुकः तादात्म्येन चतुरणुके वर्तते । एवं च सर्वत्र स्थूलदधित्वाधिकरणे दधित्वविशिष्टप्रमेयस्य तादात्म्येन सत्वात् अयं सद्धेतुः । किन्तु भवदुक्तरीत्या त्वत्राव्याप्तिर्भवति । यतो यदि स्थूलदधित्वाधिकरणं त्र्यणुकदधि हेत्वधिकरणत्वेन गृह्यते, तदा तु तत्र तादात्म्येन दधित्वविशिष्टप्रमेयं त्र्यणुकस्वरूपं वर्तते । अतः तादात्म्येन साध्याधिकरणमेव त्र्यणुकदधि । एवं समवायेन तत्रैव त्र्यणुके दधित्वविशिष्टचतुरणुकदधिस्वरूपं दधित्वविशिष्टप्रमेयं वर्तते । अतः समवायेनाऽपि साध्याधिकरणमेव त्र्यणुकदधि । एवं स्वरूपेणापि दधित्वविशिष्टप्रमेयस्याधिकरणमप्रसिद्धमेव । तथा हि अत्र समवायघटितसामानाधिकरण्येन दधित्वविशिष्टं प्रमेयमेव साध्यत्वेन गृहीतं । अतः यद् प्रमेयं समवायेन दध्नि वर्तते । तत् एव समवायघटितसामानाधिकरण्येन दधित्वविशिष्टं भवति । यथा त्र्यणुकादौ दध्नि चतुरणुकद्रव्यत्वपृथ्वीत्वसत्तात्र्यणुकत्वादयो पदार्थाः प्रमेयरूपाः समवायेन वर्तन्ते । अतः ते सर्वे तादृशसम्बन्धेन दधित्वविशिष्टप्रमेयरूपाः भवन्ति । तथा च समवायेन दध्नि वर्तमानमेव वस्तु दधित्वविशिष्टप्रमेयात्मकं साध्यं भवति, नान्यत् । यच्च वस्तु समवायेन कुत्रापि वर्तते । तद् वस्तु शुद्धस्वरूपेण न कुत्रापि वर्तते इति नियमः। यथा समवायेन कपालादौ वर्तमानाः घटादयो स्वरूपेण कुत्रापि न वर्तन्ते । दधित्वविशिष्टप्रमेयञ्च समवायेन वर्तमानमेवास्ति, अतः तद् स्वरूपेण कुत्रापि न वर्तते इति सिद्धम् । इत्थं च शुद्धस्वरूपसम्बन्धेन दधित्वविशिष्टप्रमेयस्याधिकरणमेवाप्रसिद्धमतो न तेन सम्बन्धेन तदनधिकरणं ग्रहीतुं शक्यम् इति न शुद्धस्वरूप-सम्बन्धेनापि लक्षणसमन्वयः कर्तुं शक्यः । दैशिकविशेषणतासम्बन्धेन कालिकविशेषतासम्बन्धेन च दधित्वविशिष्टप्रमेयस्य हेत्वधिकरणे स्थूलदनि वर्तमानत्वात् न तादृशसम्बन्धावाश्रित्यापि अव्याप्तिनिरासो भवितुमर्हति । अत्र हेतौ यदि स्थूलपदं न निवेश्यते । तदा तु द्वयणुके दधित्वं हेतुः वर्तते । तत्र तादात्म्येन द्वयणुकात्मकमेव प्रमेयं वर्तते, नान्यत् । स च द्वयणुकः न समवायघटितसामानाधिकरण्येन दधित्वविशिष्टः । यतो द्वयणुकदनि हेतुसत्वेऽपि दधित्वविशिष्टप्रमेयात्मकसाध्यस्य तादात्म्येन अभावोऽस्ति । अतो अयं हेतुः व्यभिचारी भवेत् । तथा चात्राव्याप्तिकथनमसंगतमेव स्यात् । अतः स्थूलपदमुपात्तम् । स्थूलदधित्वं तु त्र्यणुकादौ एव वर्तते । तत्र सर्वत्र दधित्वविशिष्टत्र्यणुकदध्यादिस्वरूपप्रमेयस्य तादात्म्येन वर्तमानत्वात् नायं व्यभिचारी हेतुः भवति । अतो निरुक्तरीत्या तत्राव्याप्तिः भवति । अत एव न भवतां व्याप्तिलक्षणं सम्मतं अस्माकं ।
ommmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૧૯ 0000000000000000000000OOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOD GODDOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOO018