Book Title: Siddhant Lakshan Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 139
________________ दीधिति:१९ Solo1010101010100100dooddodd000000000000000dddddd0000000000 जागदीशी - गगनप्रतियोगिकत्वविशिष्ट-महाकालानु योगिकत्वाप्रसिद्धया । गगनाभावमादाय प्रकृताव्याप्तिवारणासम्भवश्च स्यात्, -अतो निरुक्तप्रतियोगिकत्वविशिष्ट-यत्किञ्चिद्धत्वधिकरणानुयोगिकत्वसामान्याभावं परित्यज्य-तदुभयसामान्याभाव'-उक्तः । m mmmmmmmmmmmmmmmmmm mmmmmmmmmmmm चन्द्रशेखरीया : एवं अनातिव्याप्तिनिवारणसंभवेऽपि कालिकेन घटवान् महाकालत्वादित्यत्र तु अव्याप्तिनिवारणं दुःशकं स्यात् । यतः तत्र गगनाभावमादायैवास्माभिः लक्षणसमन्वयः कर्तुं शक्यः । निरुक्तविवक्षणे तु गगनाभावोऽपि न ग्रहीतुं शक्येत । गगनं यदि केनापि सम्बन्धेन महाकाले वर्तेत, तदा तत्सम्बन्धे गगनप्रतियोगिकत्वं महाकालानुयोगिकत्वं च संभवेत् । तदैव च गगनप्रतियोगिकत्वविशिष्टं महाकालानुयोगिकत्वं प्रसिद्धं भवेत् । किन्तु गगनस्य केनापि सम्बन्धेन (संयोगादिना) महाकालेऽवर्तमानत्वात् न कुत्रापि सम्बन्धे तादृशं विशिष्टं भवति । तत्प्रसिद्धि-अभावाच्च साध्यतावच्छेदककालिके तदभावोऽपि न ग्रहीतुं शक्येत । इत्थं च गगनाभावस्यापि लक्षणघटकत्वासंभवात्त-त्राव्याप्तिर्दुवारा स्यात् । अतो विशिष्टाभावमपहाय तादृशोभयाभावविवक्षा कृता । तत्र तु न कोऽपि दोषः । यतः उभयाभावविवक्षायां एकत्रैव सम्बन्धे उभयप्रसिद्धि-आवश्यकता नास्ति । तथा च कालिके संयोगनिष्ठस्य गगनप्रतियोगिकत्वस्याभावो वर्तते । अतः कालिके गगनप्रतियोगिकत्वसामान्य-महाकालानुयोगिकत्वसामान्योभयाभावो वर्तते । तथा च गगनाभावस्यैव लक्षणघटकत्वात् नाव्याप्तिः भवति । __ अतिगंभीरमेतत्तत्वं । अतः उपरिष्टात् प्रतिपाद्यमाना पदार्थाः दृढं मनसि अवधारणीयाः । तथा हि साध्यतावच्छेदकसम्बन्धसामान्ये यः उभयाभावो विवक्षितः । तत्र 'साध्यतावच्छेदकसम्बन्धसामान्ये तादृशोभयं अस्ति न वा ?' इति प्रश्नो न करणीयः । यतः एवं सति महानसीयसंयोगे वह्निप्रतियोगिकत्वपर्वतानुयोगिकत्वोभयं नास्ति । अत: 'तादृशसम्बन्धसामान्ये तादृशोभयं नास्ति' इत्येव वक्तव्यं स्यात् । तथा च उभयाभावो वह्नयभावमादाय मीलितः, अतोऽव्याप्तिर्भवेत् । अतः 'तादृशसम्बन्धसामान्ये तादृशोभयाभावोऽस्ति न वा ?' इत्येवं प्रश्नः करणीयः । पर्वतीयवह्निसंयोगे तु तादृशोभयस्य विद्यमानत्वात् 'संयोगसामान्ये तादृशोभयाभावो अस्ति नवा' इति प्रश्नस्य "नास्ति" इत्येव समाधानं भवति । तथा च तादृशोभयाभावस्या सत्वात् न वह्नयभावः लक्षणघटकः इति न अव्याप्तिः । अत्रापि संयोगसामान्ये 'तादृशोभयाभावो नास्ति' इति अस्य "तादृशोभयाभावाभावः तादृशोभयरूपोऽस्ति" इति अर्थो न कर्तव्यः । संयोगसामान्ये तादृशोभयस्यासत्वात् । अतः केवलं संयोगसामान्ये तादृशोभयाभावो नास्ति इत्येव वक्तव्यम् । "साध्यतावच्छेदक-सम्बन्धसामान्यान्तर्गते एकस्मन्नपि सम्बन्धे यदि तादृशोभयं वर्तते, तदा सम्बन्धसामान्ये तादृशोभयाभावो न वर्तते" इति निष्कर्षः। ___ यदि हि हेत्वधिकरणं यत्किंचित् नोपादीयेत तदा तु सर्व-हेत्वधिकरणानुयोगिकत्वसामान्य लक्षणघटकं भवेत् । तथा च अव्याप्त्यादिदोषाः भवेयुः । यत: पर्वतीयवह्निसंयोगादौ सर्वहेत्वधिकरणानुयोगिकत्वं mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm m Emmmmmmmmmmmmm સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૩૪

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214