________________
दीधिति:१९
Solo1010101010100100dooddodd000000000000000dddddd0000000000
जागदीशी - गगनप्रतियोगिकत्वविशिष्ट-महाकालानु योगिकत्वाप्रसिद्धया । गगनाभावमादाय प्रकृताव्याप्तिवारणासम्भवश्च स्यात्,
-अतो निरुक्तप्रतियोगिकत्वविशिष्ट-यत्किञ्चिद्धत्वधिकरणानुयोगिकत्वसामान्याभावं परित्यज्य-तदुभयसामान्याभाव'-उक्तः ।
m mmmmmmmmmmmmmmmmmm
mmmmmmmmmmmm
चन्द्रशेखरीया : एवं अनातिव्याप्तिनिवारणसंभवेऽपि कालिकेन घटवान् महाकालत्वादित्यत्र तु अव्याप्तिनिवारणं दुःशकं स्यात् । यतः तत्र गगनाभावमादायैवास्माभिः लक्षणसमन्वयः कर्तुं शक्यः । निरुक्तविवक्षणे तु गगनाभावोऽपि न ग्रहीतुं शक्येत । गगनं यदि केनापि सम्बन्धेन महाकाले वर्तेत, तदा तत्सम्बन्धे गगनप्रतियोगिकत्वं महाकालानुयोगिकत्वं च संभवेत् । तदैव च गगनप्रतियोगिकत्वविशिष्टं महाकालानुयोगिकत्वं प्रसिद्धं भवेत् । किन्तु गगनस्य केनापि सम्बन्धेन (संयोगादिना) महाकालेऽवर्तमानत्वात् न कुत्रापि सम्बन्धे तादृशं विशिष्टं भवति । तत्प्रसिद्धि-अभावाच्च साध्यतावच्छेदककालिके तदभावोऽपि न ग्रहीतुं शक्येत । इत्थं च गगनाभावस्यापि लक्षणघटकत्वासंभवात्त-त्राव्याप्तिर्दुवारा स्यात् । अतो विशिष्टाभावमपहाय तादृशोभयाभावविवक्षा कृता । तत्र तु न कोऽपि दोषः । यतः उभयाभावविवक्षायां एकत्रैव सम्बन्धे उभयप्रसिद्धि-आवश्यकता नास्ति । तथा च कालिके संयोगनिष्ठस्य गगनप्रतियोगिकत्वस्याभावो वर्तते । अतः कालिके गगनप्रतियोगिकत्वसामान्य-महाकालानुयोगिकत्वसामान्योभयाभावो वर्तते । तथा च गगनाभावस्यैव लक्षणघटकत्वात् नाव्याप्तिः भवति । __ अतिगंभीरमेतत्तत्वं । अतः उपरिष्टात् प्रतिपाद्यमाना पदार्थाः दृढं मनसि अवधारणीयाः । तथा हि साध्यतावच्छेदकसम्बन्धसामान्ये यः उभयाभावो विवक्षितः । तत्र 'साध्यतावच्छेदकसम्बन्धसामान्ये तादृशोभयं अस्ति न वा ?' इति प्रश्नो न करणीयः । यतः एवं सति महानसीयसंयोगे वह्निप्रतियोगिकत्वपर्वतानुयोगिकत्वोभयं नास्ति । अत: 'तादृशसम्बन्धसामान्ये तादृशोभयं नास्ति' इत्येव वक्तव्यं स्यात् । तथा च उभयाभावो वह्नयभावमादाय मीलितः, अतोऽव्याप्तिर्भवेत् । अतः 'तादृशसम्बन्धसामान्ये तादृशोभयाभावोऽस्ति न वा ?' इत्येवं प्रश्नः करणीयः । पर्वतीयवह्निसंयोगे तु तादृशोभयस्य विद्यमानत्वात् 'संयोगसामान्ये तादृशोभयाभावो अस्ति नवा' इति प्रश्नस्य "नास्ति" इत्येव समाधानं भवति । तथा च तादृशोभयाभावस्या सत्वात् न वह्नयभावः लक्षणघटकः इति न अव्याप्तिः । अत्रापि संयोगसामान्ये 'तादृशोभयाभावो नास्ति' इति अस्य "तादृशोभयाभावाभावः तादृशोभयरूपोऽस्ति" इति अर्थो न कर्तव्यः । संयोगसामान्ये तादृशोभयस्यासत्वात् । अतः केवलं संयोगसामान्ये तादृशोभयाभावो नास्ति इत्येव वक्तव्यम् । "साध्यतावच्छेदक-सम्बन्धसामान्यान्तर्गते एकस्मन्नपि सम्बन्धे यदि तादृशोभयं वर्तते, तदा सम्बन्धसामान्ये तादृशोभयाभावो न वर्तते" इति निष्कर्षः। ___ यदि हि हेत्वधिकरणं यत्किंचित् नोपादीयेत तदा तु सर्व-हेत्वधिकरणानुयोगिकत्वसामान्य लक्षणघटकं भवेत् । तथा च अव्याप्त्यादिदोषाः भवेयुः । यत: पर्वतीयवह्निसंयोगादौ सर्वहेत्वधिकरणानुयोगिकत्वं
mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
m
Emmmmmmmmmmmmm
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૩૪