Book Title: Siddhant Lakshan Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 137
________________ m mmmmmm m mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm दीधितिः१९ gOORBOTTOMATODDDDDDDDD9999990000000000000000019 799999999 9999999999999996850891990DDICTIODOIDDDDD98198DDROIGIBIDIODOBUDDOOR चन्द्रशेखरीया : ननु तादृशप्रतियोगिकत्वविशिष्टं यत् तादृशानुयोगिकत्वं तदभावस्यैव विवक्षा कथं न क्रियते, कथं उभयाभावपर्यन्तानुधावनं घटामञ्चतीति चेत् अत्रोच्यते । यदि हि तादृशप्रतियोगिकत्वविशिष्टस्य तादृशानुयोगिकत्वस्याभावः साध्यतावच्छेदकसम्बन्धसामान्ये विवक्ष्यते, तदा तु एतद्घटवान् कालान्तरीयतद्घटत्वादित्यत्र तादात्म्येन एतद्घटसाध्यकस्थले अतीतकालीनघटत्वात्मके व्यभिचारिणि हेतौ अतिव्याप्तिर्भवेत् । तथा हि विशिष्टस्याभावो यदि ग्रहीतुमिश्यते, तदा प्रथमं तु कस्मिंश्चित् सम्बन्धे तादृशानुयोगिकत्वं तादृशप्रतियोगिकत्वं च साधनीयम् । तेन तादृशप्रतियोगिकत्वविशिष्टं । सामानाधिकरण्यसम्बन्धेन तादृशानुयोगिकत्वं भवेत् । यथा पर्वतीयवह्निसंयोगे वह्निप्रतियोगिकत्वपर्वतानुयोगिकत्वोभयं वर्तते । अतः तत्र सामानाधिकरण्यसम्बन्धेन वह्निप्रतियोगिकत्वविशिष्टं पर्वतानुयोगिकत्वं भवति । तत्पश्चात् तदभावः प्रसिद्धो भवति । विशिष्टस्य प्रसिद्धिं विना तदभावप्रसिद्धिस्तु न संभवति । तथा चात्रापि व्यभिचारिहेतौ साध्याभावो यदि लक्षणघटको भवेत् । तदैव नातिव्याप्तिर्भवेत् । अन्यथा तु गगनाभावमादायातिव्याप्तिर्भवेदेव । अतोऽत्र साध्याभावो लक्षणघटकत्वेन ग्राह्यः, किन्तु न स लक्षणघटकत्वेन ग्रहीतुं शक्यते । तथा हि- कालान्तरीयतद्घटत्वाधिकरणं तु तद्घट एव भवति । साध्याभावश्च एतद्घटाभावरूपः, तत्प्रतियोगितावच्छेद-कैतद्घटत्वावच्छिन्नः एतद्घटः, स च संयोगेन भूतले, तादात्म्येन स्वस्मिन्, समवायेन स्वावयवे, कालिकेन वर्तामानघटपदादौ वर्तते । किन्तु अतीतकालीनतद्घटात्मके हेत्वधिकरणे तु न केनापि सम्बन्धेन वर्तते, विभिन्नकालीनयोः कालिकसम्बन्धेनापि परस्परवृत्तित्वाभावात् । तथा च एतद्घटप्रतियोगिकत्वं संयोगसमवा यादिरूपेषु सम्बन्धेषु वर्तते, तेषु च कुत्रापि तद्घटानुयोगिकत्वं नास्ति । येषु च संयोगादिषु तद्घटानुयोगिकत्वं वर्तते, तेषु कुत्रापि एतद्घटप्रतियोगिकत्वं नास्ति । इत्थं च कस्मिन्नपि सम्बन्धे । एतद्घटप्रतियोगिकत्वं तद्घटानुयोगिकत्वं च न वर्तते । अतोऽत्र एतद्घटप्रतियोगिकत्वविशिष्टं तद्घटानुयोगिकत्वं एव अप्रसिद्धं । अतः तदभावोऽपि साध्यतावच्छेदकतादात्म्ये ग्रहीतुमशक्यः । अतः साध्याभावो लक्षणघटको न भवति । किन्तु तद्घटे तदानीं वर्तमानस्य संयोगेन जलस्याभावो गृह्यते । यतः तस्मिन् संयोगे तद्घटानुयोगिकत्वं जलप्रतियोगिकत्वञ्च वर्तते । अतो जलप्रतियोगिकत्वविशिष्टं तद्घटानुयोगिकत्वं तत्र प्रसिद्धं । तस्य च साध्यतावच्छेदकैतद्घटतादात्म्येऽभावो वर्तते । इत्थं च तादृशजलाभावस्यैव लक्षणघटकत्वसंभवादतिव्याप्तिः। एवं संयोगेन गगनस्य वृत्तितामते तु गगनं संयोगेन तद्घटे वर्तते । अतः तस्मिन् संयोगे गगनप्रतियोगिकत्वविशिष्टं तद्घटानुयोगिकत्वं प्रसिद्धं भवति । तदभावस्तु एतद्घटतादात्म्ये वर्तते । एवं गगनाभावस्यापि लक्षणघटकत्वसंभवेन तमादायापि अतिव्याप्तिः संभवति । एवं तघटज्ञानं विषयतया तद्घटे वर्तते । तथा च विषयतासम्बन्धे तद्घटानु यो गिकत्वं तादृशज्ञानप्रतियोगिकत्वविशिष्टं प्रसिद्धमस्ति । तस्य च एतद्घटतादात्म्येऽभावो वर्तते । अतः तद्घटज्ञानाभावमादायाऽपि लक्षणसमन्वयः संभवति ।। ___ न च एवंरीत्या लक्षणघटकतादृशगगनाभावप्रतियोगितानवच्छेदकं यद्यपि एतद्घटत्वं भवति । तथापि एतद्घटत्वाधिकरणे एतद्घटे तद्घटत्वात्मकहेतुस्तु केनापि सम्बन्धेन नैव वर्तते । अतः कालान्तरीयतद्घटत्वे एतद्घटसामानाधिकरण्यं नास्ति । तथा च व्याप्तिलक्षणस्यातिव्याप्तिः न भवत्येव । यदि हि 'एवमपि एतद्घटे तद्घटत्वनिरूपितव्यापकता तु तादृशप्रतियोगितानवच्छेदकसाध्यतावच्छेदकत्वरूपाऽतिव्याप्ता भवत्येव, सापि mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm iummitmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૩૨

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214