________________
m mmmmmm
m mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
दीधितिः१९ gOORBOTTOMATODDDDDDDDD9999990000000000000000019 799999999 9999999999999996850891990DDICTIODOIDDDDD98198DDROIGIBIDIODOBUDDOOR
चन्द्रशेखरीया : ननु तादृशप्रतियोगिकत्वविशिष्टं यत् तादृशानुयोगिकत्वं तदभावस्यैव विवक्षा कथं न क्रियते, कथं उभयाभावपर्यन्तानुधावनं घटामञ्चतीति चेत् अत्रोच्यते । यदि हि तादृशप्रतियोगिकत्वविशिष्टस्य तादृशानुयोगिकत्वस्याभावः साध्यतावच्छेदकसम्बन्धसामान्ये विवक्ष्यते, तदा तु एतद्घटवान् कालान्तरीयतद्घटत्वादित्यत्र तादात्म्येन एतद्घटसाध्यकस्थले अतीतकालीनघटत्वात्मके व्यभिचारिणि हेतौ अतिव्याप्तिर्भवेत् । तथा हि विशिष्टस्याभावो यदि ग्रहीतुमिश्यते, तदा प्रथमं तु कस्मिंश्चित् सम्बन्धे तादृशानुयोगिकत्वं तादृशप्रतियोगिकत्वं च साधनीयम् । तेन तादृशप्रतियोगिकत्वविशिष्टं । सामानाधिकरण्यसम्बन्धेन तादृशानुयोगिकत्वं भवेत् । यथा पर्वतीयवह्निसंयोगे वह्निप्रतियोगिकत्वपर्वतानुयोगिकत्वोभयं वर्तते । अतः तत्र सामानाधिकरण्यसम्बन्धेन वह्निप्रतियोगिकत्वविशिष्टं पर्वतानुयोगिकत्वं भवति । तत्पश्चात् तदभावः प्रसिद्धो भवति । विशिष्टस्य प्रसिद्धिं विना तदभावप्रसिद्धिस्तु न संभवति । तथा चात्रापि व्यभिचारिहेतौ साध्याभावो यदि लक्षणघटको भवेत् । तदैव नातिव्याप्तिर्भवेत् । अन्यथा तु गगनाभावमादायातिव्याप्तिर्भवेदेव । अतोऽत्र साध्याभावो लक्षणघटकत्वेन ग्राह्यः, किन्तु न स लक्षणघटकत्वेन ग्रहीतुं शक्यते । तथा हि- कालान्तरीयतद्घटत्वाधिकरणं तु तद्घट एव भवति । साध्याभावश्च एतद्घटाभावरूपः, तत्प्रतियोगितावच्छेद-कैतद्घटत्वावच्छिन्नः एतद्घटः, स च संयोगेन भूतले, तादात्म्येन स्वस्मिन्, समवायेन स्वावयवे, कालिकेन वर्तामानघटपदादौ वर्तते । किन्तु अतीतकालीनतद्घटात्मके हेत्वधिकरणे तु न केनापि सम्बन्धेन वर्तते, विभिन्नकालीनयोः कालिकसम्बन्धेनापि परस्परवृत्तित्वाभावात् । तथा च एतद्घटप्रतियोगिकत्वं संयोगसमवा यादिरूपेषु सम्बन्धेषु वर्तते, तेषु च कुत्रापि तद्घटानुयोगिकत्वं नास्ति । येषु च संयोगादिषु तद्घटानुयोगिकत्वं वर्तते, तेषु कुत्रापि एतद्घटप्रतियोगिकत्वं नास्ति । इत्थं च कस्मिन्नपि सम्बन्धे । एतद्घटप्रतियोगिकत्वं तद्घटानुयोगिकत्वं च न वर्तते । अतोऽत्र एतद्घटप्रतियोगिकत्वविशिष्टं तद्घटानुयोगिकत्वं एव अप्रसिद्धं । अतः तदभावोऽपि साध्यतावच्छेदकतादात्म्ये ग्रहीतुमशक्यः । अतः साध्याभावो लक्षणघटको न भवति । किन्तु तद्घटे तदानीं वर्तमानस्य संयोगेन जलस्याभावो गृह्यते । यतः तस्मिन् संयोगे तद्घटानुयोगिकत्वं जलप्रतियोगिकत्वञ्च वर्तते । अतो जलप्रतियोगिकत्वविशिष्टं तद्घटानुयोगिकत्वं तत्र प्रसिद्धं । तस्य च साध्यतावच्छेदकैतद्घटतादात्म्येऽभावो वर्तते । इत्थं च तादृशजलाभावस्यैव लक्षणघटकत्वसंभवादतिव्याप्तिः। एवं संयोगेन गगनस्य वृत्तितामते तु गगनं संयोगेन तद्घटे वर्तते । अतः तस्मिन् संयोगे गगनप्रतियोगिकत्वविशिष्टं तद्घटानुयोगिकत्वं प्रसिद्धं भवति । तदभावस्तु एतद्घटतादात्म्ये वर्तते । एवं गगनाभावस्यापि लक्षणघटकत्वसंभवेन तमादायापि अतिव्याप्तिः संभवति । एवं तघटज्ञानं विषयतया तद्घटे वर्तते । तथा च विषयतासम्बन्धे तद्घटानु यो गिकत्वं तादृशज्ञानप्रतियोगिकत्वविशिष्टं प्रसिद्धमस्ति । तस्य च एतद्घटतादात्म्येऽभावो वर्तते । अतः तद्घटज्ञानाभावमादायाऽपि लक्षणसमन्वयः संभवति ।। ___ न च एवंरीत्या लक्षणघटकतादृशगगनाभावप्रतियोगितानवच्छेदकं यद्यपि एतद्घटत्वं भवति । तथापि एतद्घटत्वाधिकरणे एतद्घटे तद्घटत्वात्मकहेतुस्तु केनापि सम्बन्धेन नैव वर्तते । अतः कालान्तरीयतद्घटत्वे एतद्घटसामानाधिकरण्यं नास्ति । तथा च व्याप्तिलक्षणस्यातिव्याप्तिः न भवत्येव । यदि हि 'एवमपि एतद्घटे तद्घटत्वनिरूपितव्यापकता तु तादृशप्रतियोगितानवच्छेदकसाध्यतावच्छेदकत्वरूपाऽतिव्याप्ता भवत्येव, सापि
mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
iummitmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૩૨