________________
Q
दीधितिः१९
U
ommmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
____ अत्र तादृशप्रतियोगिकत्वसामान्य.... इत्यत्र यदि सामान्यपदं नोपादीयेत । तदा तु 'वह्निमान् । धूमादित्यत्राव्याप्तिर्भवेत् । तथा हि वह्निः समवायेन वन्यवयवे वर्तते । अतः समवाये वह्निप्रतियोगिकत्वं अस्ति । तच्च न कुत्रापि संयोगे वर्तते । अतः साध्यतावच्छेदकसम्बन्ध-सामान्ये समवायनिष्ठस्य वह्नित्वावच्छिावह्निप्रतियोगिकत्वस्याभावो वर्तते । तथा च एकाभावादुभयाभावोऽपि भवतीति वह्नयभावस्यैव लक्षणघटकत्वादव्याप्तिः । सामान्यपदोपादाने तु न दोषः । यतो यथा समवायनिष्ठं वह्निप्रतियोगिकत्वं वह्नयभावप्रतियोगितावच्छेदकवह्नित्वावच्छिन्नवह्निप्रतियोगिकत्वसामान्यान्तर्गतं, तथैव पर्वतीयसंयोगादिनिष्ठं वह्निप्रतियोगिकत्वमपि तादृशसामान्यान्तर्गतं अस्ति । तच्च संयोगनिष्ठं वह्निप्रतियोगिकत्वं साध्यतावच्छेदकसम्बन्धसामान्यात॑गते पर्वतीयसंयोगे महानसीयवह्निसंयोगे च वर्तते एव । अतः, संयोगसामान्ये तादृशप्रतियोगिकत्वसामान्यस्याभावो नास्ति । किन्तु समवायादिनिष्ठस्यैव तादृशप्रतियोगिकत्वस्याभावो वर्तते । इत्थं च न साध्याभावो लक्षणघटकः, किन्तु गगनाभावादिरेव । संयोगसामान्ये गगनप्रतियोगिकत्वसामान्याभावस्य सत्वात् संयोगसामान्ये उभयाभावोऽपि वर्तते । अथवा घटाभावादिरपि लक्षणघटकः भवति । संयोगसामान्यान्तर्गतेषु घटीयसंयोगेषु पर्वतानुयोगिकत्वसामान्यस्याभावमादायोभयाभावः, संयोगसामान्यान्तर्गतेषु पर्वतानुयोगिकेषु घटप्रतियोगिकत्वसामान्यस्याभावमादायोभयाभावः. संयोगसामान्यान्तर्गतेषु तदतिरिक्तेषु च उभयाभावमादाय उभयाभावः वर्तते । इत्थं च घटाभावादयोऽपि लक्षणघटकाः, तेन नाव्याप्तिः । ___एवं 'हेत्वधिकरणीभूतयत्किचिद्-व्यक्ति-अनुयोगिकत्वसामान्याभाव' इत्यत्र सामान्यपदं नोच्येत । तदा पर्वतत्वजातिः पर्वते समवायेन वर्तते । तथा च समवाये पर्वतानुयोगिकत्वमस्ति । इत्थं च वह्निमान् धूमात् इत्यत्र संयोगसामान्ये यद्यपि वह्निप्रतियोगिकत्वसामान्याभावो नास्ति, पर्वतीयसंयोगादिषु वह्निप्रतियोगिकत्वस्य सत्वात् । तथापि संयोगसामान्ये पर्वतत्वप्रतियोगिकसमवायनिष्ठं पर्वतानुयोगिकत्वं तु नास्त्येव । अतः संयोगसामान्ये तादृशानुयोगिकत्वाभावमादायोभयाभावस्याक्षतत्वात् साध्याभाव एव लक्षणघटकः । अतोऽव्याप्तिस्तदवस्थैव भवेत् । सामान्यपदोपादाने तु न दोषः । यतः पर्वतीयवह्निसंयोगनिष्ठं पर्वतानुयोगिकत्वमपि पर्वतानुयोगिकत्वसामान्यान्तर्गतम् । तच्च पर्वतीयवह्निसंयोगनिष्ठं पर्वतानुयोगिकत्वं साध्यतावच्छेदकसम्बन्धसामान्यान्तर्गते पर्वतीयवह्निसंयोगे वर्तते, अतः संयोगसामान्येषु पर्वतानुयोगिकत्वसामान्याभावो न वर्तते । इत्थं च न वह्नयभावो लक्षणघटकः । किन्तु निरुक्तरीत्या घटाद्यभावः, तथा च नाव्याप्तिः ।
ચન્દ્રશેખરીયાઃ “સાધ્યતાવચ્છેદકસંબંધ સામાન્ય અહીં સામાન્યપદ ન મુકીએ તો વહ્નિમાનું ધૂમાતુ આ સ્થળે સાધ્યતાવચ્છેદકસંયોગસંબંધ તરીકે ઘટીયસંયોગ લઈએ, તો એમાં વન્યભાવ પ્રતિયોગીવહૂિનપ્રતિયોગીકત્વનો અભાવ પણ છે અને મહાનતાનુયોગિકત્વનો અભાવ પણ છે. એટલે વહુન્યભાવ જ લેવાતા અવ્યાપ્તિ આવે.
જો “સાધ્યતાવચ્છેદક તરીકે વહિનપ્રતિયોગીક એવા જ સંયોગો લીધા છે” એમ કહો તો જો કે ઘટસંયોગ સાધ્યતાવચ્છેદક તરીકે ન આવે પરંતુ પર્વતવૃત્તિવનિસંયોગ લેવાય. અને તેમાં વહિન-પ્રતિયોગીકત્વ હોવા
છતાં મહાનતાનુયોગિકત્વનો અભાવ હોવાથી ઉભયાભાવ મળી જતા વન્યભાવ જ લક્ષણઘટક બને. તેથી FORDARDOINODDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDOGB90090GBUTORRORDBHAGRAATMASTIMADHURISODI UMIDIODIORGIADING
- સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા . ૧૨૯
ANHUUUUUUUUUUUUUUUB