________________
दीधिति:१९
“શુદ્ધનિષ્ઠવૃત્તિતા અને વિશિષ્ટ-નિષ્ઠવૃત્તિતા એ જુદી જ છે” એ વાતને આધારે છે એમ જાણવું. આ જ વાત ભૂતત્વમૂત્વો ભયસાધ્યકસ્થલે પણ સમજી લેવી. કેમકે સાર્વભૌમ મતે તો ઉભયત્વ ભૂતત્વવિશિષ્ટમૂર્તત્વ જ છે અને એ જો શુ.મૂર્તત્વથી જુદુ જ માનો, તો તો “મનનિરૂપિતવૃત્તિતાઅભાવવાળો એવું ભૂતત્વવિશિષ્ટમૂર્તવાત્મક પ્રતિયોગી સામાન્ય છે જેનો એવો તાદશોભયાભાવ મળી જતા અતિવ્યાપ્તિ ન જ આવે. એટલે અહીં પણ “વિશિષ્ટ+શુદ્ધ એક જ છે” એ અનુસારે જ અતિવ્યાપ્તિ અને પછી પ્રતિ....વિશિષ્ટ પદ મુકવાથી વિશિષ્ટની વૃત્તિતા અને શુદ્ધની વૃત્તિતા જુદી છે' એ અનુસારે જ અતિવ્યાપ્તિ ખંડન સમજી લેવું.
जागदीशी - 'सामान्य' पदस्य फलमाह, - संयोगसामान्यन्त्विति । तथा च “संयोगी द्रव्यत्वा" दित्यादावव्याप्तिवारणार्थमेव 'सामान्य' पद मिति भावः।।
विशिष्टस्येति । -विशिष्टनिरूपिताधेयत्वस्येत्यर्थः । तथा च 'विशिष्टसत्तावान् जाते' रित्यादावतिव्याप्तिरिति भावः ।
mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
चन्द्रशेखरीया : एवं यदि सामान्यपदं नोपादीयेत तदा तु 'यदभावस्य कस्मिन्नपि प्रतियोगिनि यत्किचित्हेत्वधिकरणनिरूपितवृत्तिताऽभावो वर्तते, स अभावो लक्षणघटकः' इत्यर्थो भवेत् । तथा च संयोगी एतवृक्षत्वादित्यत्र संयोगाभावस्य प्रतियोगिनि जलवृत्तिसंयोगे एतवृक्षत्वाधिकरणनिरूपितवृत्तितायाः अभावो वर्तते, अतः संयोगाभावस्यैव लक्षणघटकत्वादव्याप्तिर्भवेत् अतः सामान्यपदमुपात्तम् । तथा च यदभावस्य सर्वेष्वपि प्रतियोगिषु तादृशवृत्तितायाः अभावो वर्तते । स एव अभावो लक्षणघटकत्वेन इष्टः । तथा च संयोगाभावप्रतियोगिनि वृक्षवृत्तिसंयोगे संयोगसामान्यान्तर्गते वृक्षनिरूपितवृत्तितायाः अभावो नास्ति । अतः संयोगसामान्ये तादृशवृत्तितायाः अभावस्य असत्वात् न साध्याभावो लक्षणघटकः, किन्तु घटाभावः, घटाभावस्य घटत्वावच्छिन्नो घटसामान्ये एतवृक्षत्वाधिकरण-निरूपितायाः साध्यतावच्छेदकसमवायावच्छिन्नायाः वृत्तितायाः अभावात् । तथा च कालिकेन घटवान् स्वरूपेण महाकालत्वादि त्यत्राव्याप्तिविधानं पूर्वपक्षस्यासंगतमेव । अत्र सार्वभौमनिरू पणं संपूर्णम् । ___ पूर्वपक्षस्त्विदानीं तन्मतं खंडयति । विशिष्टस्य शुद्धाभिन्नत्वात् विशिष्ट सत्तावान् जातेरित्यत्रातिव्याप्तिर्भवति । अतो न सार्वभौमनिरूपितं व्याप्तिलक्षणं सम्यक्। ननु निरूपितमेवानन्तरं यत् विशिष्टस्य शुद्धाभिन्नत्वेऽपि अतिव्याप्तिः न भवति । विशिष्टनिष्ठवृत्तितायाः शुद्धनिष्ठवृत्तिताभिन्नत्वात् इति चेत् न विशिष्टस्य शुद्धानतिरिक्तत्वादिति दीधितिग्रन्थस्य विशिष्टनिष्ठवृत्तितायाः शुद्धनिष्ठवृत्तिताऽभिन्नत्वपरत्वं बोध्यम् । तथा च गुणनिरूपिता या शुद्धसत्तानिष्ठा वृत्तिता, सा विशिष्टसत्तानिष्ठवृत्तितारूपा एव । तथा च विशिष्टसत्तायां गुणनिरूपितवृत्तितायाः अभावस्यासत्वात् साध्याभावो लक्षणघटको न भवतीति भवत्यतिव्याप्तिः इति भावः । "ननु साध्यतावच्छेदक-सम्बन्धावच्छिन्ना या यत्किचित्हेत्वधिकरणनिष्ठा अधिकरणता, तन्
MofoTOOT
FOOOODDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDOOGODDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDOOT
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા • ૧૦૮ Co0000000000000000000000000000000000000000000000000000000000000000OOOOODDDDDD0000000000000DDOODOODOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOd0008