________________
दीधिति: १४
चन्द्रशेखरीया : न प्रथमकल्पे तादृशप्रतियोगितावच्छेदकसम्बन्धावच्छिन्नाधिकरणतानिरूपितविशेषणताविशेषेण तादृशप्रतियोगितावच्छेदकावच्छिन्नाधिकरणतासामान्याभाववान् एव तादृशप्रतियोगि- अनधिकरण हेत्वधिकरणपदेन विवक्षितः । द्वितीयकल्पे तु साध्यतावच्छेदकसम्बन्धावच्छिन्न-अधिकरणता निरूपितविशेषणताविशेषेण तादृशप्रतियो गितावच्छेदकावच्छिन्नाधिकरणतासामान्याभाववानेव तादृशप्रतियोग्यनधिकरणहेत्वधिकरणपदेन विवक्षितः इति बोध्यम् । इत्थं च पर्वतानुयोगिकसंयोगेन 'वह्निमान् धूमादित्यत्र पर्वतानुयोगिकसंयोगेन घटाभाव एव गृह्यते । घटत्वावच्छिन्नघटनिष्ठ - प्रतियोगितावच्छेदकेन पर्वतानुयोगिकसंयोगेनावच्छिन्नश्च न घटः, किन्तु पर्वते वर्तमानाः वह्निवृक्षादय एव तदधिकरणता तु पर्वते विशेषणताविशेषेण स्वरूपसम्बन्धात्मकेन वर्तते । तादृशेन वह्नि-वृक्षादि - अधिकरणतानिरूपितस्वरूपसम्बन्धेन तु घटत्वावच्छिन्नघटनिष्ठप्रतियोगितावच्छेदकघटत्वावच्छिन्नघटाधिकरणता पर्वते न वर्तते एव । यतः तादृशघटाधिकरणता घटनिरूपितस्वरूपसम्बन्धेन भूतलादौ एव वर्तते । इत्थं च पर्वतः तादृशाधिकरणतासामान्याभाववान् मीलितः, तत्र च घटाभावस्य सत्वात् लक्षणसमन्वयः भवति । यद्यपि अ समवायेन वहन्यभावोऽपि ग्रहीतुं शक्यः, तदीयप्रतियोगितावच्छेदक-समवायसम्बन्धावच्छिन्नपर्वतत्वादिअधिकरणतानिरूपित - स्वरूपसम्बन्धेन वह्नित्वावच्छिन्नवह्नि- अधिकरणतासामान्याभावः एव पर्वते अस्ति । पर्वते समवायेन वह्नेः अभावात् । किन्तु तथापि तस्य वहन्यभावस्य प्रतियोगिता न साध्यतावच्छेदकसंयोगावच्छिन्ना इति तस्याः लक्षणाघटकत्वादेव न दोषः इति बोध्यम् । एवं यद्यपि घटत्वावच्छिन्नघटस्य कालिकेन पर्वते विद्यमानत्वात् पर्वते कालिकावच्छिन्नघटयधिकरणता वर्तते । तथापि सा कालिकावच्छिन्नघटाधिकरणतानिरूपितस्वरूपसम्बन्धेनैव वर्तते । प्रतियोगितावच्छेदकसंयोगावच्छिन्नवृक्षाधिकरणता निरू पितस्वरूपसम्बन्धेन तु कालिकावच्छिन्नघटाधिकरणतायाः अभाव एव पर्वते वर्तते । अतः पर्वते तादृशसामान्याभावस्याक्षतत्वात् घटाभाव एव लक्षणघटकत्वेन ग्रहीतुं शक्यते इति नाव्याप्तिः ।
एवं द्वितीयकल्पेऽपि साध्यतावच्छेदकपर्वतानुयोगिकसंयोगावच्छिन्नवह्निवृक्षादि - अधिकरणतानिरूपित स्वरूपसम्बन्धेन घटत्वावच्छिन्नघटाधिकरणतासामान्यस्याभावः पर्वते वर्तते, अतः संयोगादिना घटाभावोऽपि लक्षणघटको भवति । समवायेन वहन्यभावस्तु न लक्षणघटकः, तादृशाभावप्रतियोगितावच्छेदक वह्नित्वावच्छिनवह्नि-अधिकरणतायाः पर्वतानुयोगिकसंयोगावच्छिन्नवह्न्यधिकरणतानिरूपितस्वरूपसम्बन्धेन पर्वते वर्तमानत्वात् इति न कोऽपि दोषः ।
इत्थं चैतद् अङ्गीकर्तव्यम् अन्यथा तु न कोऽपि अभावो लक्षणघटको भवितुमर्हति । यतः सर्वे एव हेतुमन्तः कालिकादिसम्बन्धेन स्वनिष्ठाभावप्रतियोगिघटादि - अधिकरणतावन्तः एव भवन्ति । तथा च प्रतियोगि-अनधिकरण-हेत्वधिकरणस्यैवाप्रसिद्धया सर्वत्रासंभवो भवेत् इति यथोक्तमेवाङ्गीकर्तव्यम् । ચન્દ્રશેખરીયા : ઉત્તરપક્ષ : नं. ૧ મતમાં વચ્છિન્નાધિકરણતાનિરુપિતવિશેષણતા વિશેષેણ તાદશપ્રતિયોગિતાવચ્છેદકાવચ્છિન્તાધિકરણતા- સામાન્યાભાવ જેમાં મળે, એ જ પ્રતિયોગિ અનધિકરણ-હેત્વધિકરણ તરીકે લઈ લેવું. અને તેમાં રહેલ તે અભાવની સાધ્યતાવચ્છેદકસંબંધાવચ્છિન્ન તાદશપ્રતિયોગિતાનો અનવચ્છેદક એવો સાધ્યતાવચ્છેદક બનવાનો છે.
તાદશપ્રતિયોગિતાવચ્છેદકસંબંધા
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૭ ૪૦