________________
Version 001: remember to check http://www.AtmaDharma.com for updates
डाननशास्त्रमा ]
શેયતત્ત્વ-પ્રજ્ઞાપન
૨૭૫
शास्यानंशत्वान्यथा
व्यञ्जितनित्यत्वे योडर्थः तत्तु द्रव्यम्। एवमनुत्पन्नाविध्वस्तो द्रव्यसमयः, उत्पन्नप्रध्वंसी पर्यायसमयः। अनंशः समयोऽयमाकाशप्रदेशस्यानंशत्वान्यथानुपपत्तेः। न चैकसमयेन परमाणोरालोकान्तगमनेऽपि समयस्य सांशत्वं, विशिष्टगतिपरिणामाद्विशिष्टावगाहपरिणामवत्। तथा हि-यथा विशिष्टावगाहपरिणामादेकपरमाणुपरिमाणोऽनन्तपरमाणुस्कन्धः पुनरप्यनन्तांशत्वं न साधयति, तथा विशिष्टगतिपरिणामादेककालाणुव्याप्तेकाकाश
वगाहपरिणामवर
परमाणोरनंशत्वात
पूर्वापरसमयसन्तानापेक्षया संख्येयासंख्येयानन्तसमयो भवति, तथापि वर्तमानसमयं प्रत्युत्पन्नप्रध्वंसी। यस्तु पूर्वोक्तद्रव्यकालः स त्रिकालस्थायित्वेन नित्य इति। एवं कालस्य पर्यायस्वरूपं द्रव्यस्वरूपं च ज्ञातव्यम्।। अथवानेन गाथाद्वयेन समयरूपव्यवहारकालव्याख्यानं क्रियते। निश्चयकालव्याख्यानं तु 'उप्पादो पद्धंसो' इत्यादि गाथात्रयेणाग्रे करोति। तद्यथा-समओ परमार्थकालस्य पर्यायभूतसमयः। अवप्पदेसो अपगतप्रदेशो द्वितीयादिप्रदेशरहितो निरंश इत्यर्थः। कथं निरंश इति चेत्। पदेसमेत्तस्स दवियजादस्स प्रदेशमात्रपुद्गलद्रव्यस्य संबन्धो योडसौ परमाणुः वदिवादादो वट्टदि व्यतिपातात् मन्दगतिगमनात्सकाशात्स परमाणुस्तावद्गमनरूपेण वर्तते। कं प्रति। पदेसमागासदवियस्स विवक्षितैकाकाशप्रदेशं प्रति। इति प्रथमगाथाव्याख्यानम्। वदिवददो तं देसं स परमाणुस्तमाकाशप्रदेश यदा व्यतिपतितोऽतिक्रान्तो भवति तस्सम समओ तेन पुद्गलपरमाणुमन्दगतिगमनेन समः समान: समयो भवतीति निरंशत्वमिति वर्तमानसमयो व्याख्यातः। इदानी पूर्वापरसमयौ कथयति-तदो परो पुव्वो तस्मात्पूर्वोक्तवर्तमानसमयात्परो भावी कोऽपि समयो भविष्यति पूर्वमपि कोऽपि गतः अत्थो जो एवं यः समयत्रयरूपोर्थः सो कालो सोऽतीतानागतवर्तमानरूपेण त्रिविधव्यवहारकालो भण्यते। समओ उप्पण्णपद्धंसी तेषु त्रिषु मध्ये योऽसौ वर्तमानः स उत्पन्नप्रध्वंसी अतीतानागतौ तु संख्येयासंख्येयानन्तसमयावित्यर्थः। एवमुक्तलक्षणे काले विद्य
નિત્યત્વ પ્રગટ થાય છે એવો પદાર્થ તે દ્રવ્ય છે. આ રીતે દ્રવ્યસમય (અર્થાત્ કાળદ્રવ્ય) અનુત્પન્નઅવિનષ્ટ છે અને પર્યાયસમય ઉત્પન્ન-ધ્વસી છે (અર્થાત “સમય 'પર્યાય ઉત્પત્તિ-વિનાશવાળો છે). આ “સમય” નિરંશ છે, કારણ કે જો એમ ન હોય તો આકાશના પ્રદેશનું નિરંશપણું બને નહિ.
વળી એક સમયમાં પરમાણુ લોકના અંત સુધી જતો હોવા છતાં ‘સમય’ના અંશો પડતા નથી; કારણ કે જેમ (પરમાણુને) વિશિષ્ટ (ખાસ પ્રકારના) અવગાહપરિણામ હોય છે તેમ (પરમાણુને) વિશિષ્ટ ગતિપરિણામ હોય છે. તે સમજાવવામાં આવે છે -જેમ વિશિષ્ટ અવગાહપરિણામને લીધે એક પરમાણુના કદ જેવડો અનંત પરમાણુઓનો સ્કંધ બને છે તોપણ તે સ્કંધ પરમાણુના અનંત અંશો સિદ્ધ કરતો નથી, કારણ કે પરમાણુ નિરંશ છે; તેમ જ્યારે એક કાળાણુથી વ્યાપ્ત એક આકાશપ્રદેશના અતિક્રમણના માપ જેવડા એક
Please inform us of any errors on rajesh@AtmaDharma.com