Book Title: Pravachana sara
Author(s): Kundkundacharya, Himmatlal Jethalal Shah
Publisher: Digambar Jain Swadhyay Mandir Trust

View full book text
Previous | Next

Page 478
________________ Version 001: remember to check http://www.AtmaDharma.com for updates કહાનજૈનશાસ્ત્રમાળા ] ચરણાનુયોગસૂચક ચૂલિકા ४४३ यदज्ञानी कर्म क्रमपरिपाट्या बालतपोवैचित्र्योपक्रमेण च पच्यमानमुपात्तरागद्वेषतया सुखदुःखादिविकारभावपरिणतः पुनरारोपितसन्तानं भवशतसहस्रकोटीभिः कथञ्चन निस्तरति, तदेव ज्ञानी स्यात्कारकेतनागमज्ञानतत्त्वार्थश्रद्धानसंयतत्वयौगपद्यातिशयप्रसादासादितशद्धज्ञानमयात्मतत्त्वानुभूतिलक्षणज्ञानित्वसद्भावात्कायवाङ्मनःकर्मोपरमप्रवृत्तत्रिगुप्तत्वात् प्रचण्डोपक्रम न भवति। मोक्षावस्था शुद्धा फलभूता, सा चाग्रे तिष्ठति। एताभ्यां द्वाभ्यां भिन्ना यान्तरात्मा-वस्था सा मिथ्यात्वरागादिरहितत्वेन शुद्धा। यथा सूक्ष्मनिगोतज्ञाने शेषावरणे सत्यपि क्षयोपशमज्ञानावरणं नास्ति तथात्रापि केवलज्ञानावरणे सत्यप्येकदेशक्षयोपशमज्ञानापेक्षया नास्त्यावरणम्। यावतांशेन निरावरणा रागादिरहितत्वेन शुद्धा च तावतांशेन मोक्षकारणं भवति। तत्र शुद्धपारिणामिकभावरूपं परमात्मद्रव्यं ध्येयं भवति, तच्च तस्मादन्तरात्मध्यानावस्था-विशेषात्कथंचिदिन्नम्। यदैकान्तेनाभिन्नं भवति तदा मोक्षेऽपि ध्यानं प्राप्नोति, अथवास्य ध्यानपर्यायस्स विनाशे सति तस्य पारिणामिकभावस्यापि विनाशः प्राप्नोति। एवं बहिरात्मा-न्तरात्मपरमात्मकथनरूपेण मोक्षमार्गो ज्ञातव्यः। अथ परमागमज्ञानतत्त्वार्थश्रद्धानसंयतत्वानां भेदरत्नत्रयरूपाणां मेलापकेऽपि, यदभेदरत्नत्रयात्मकं निर्विकल्पसमाधिलक्षणमात्मज्ञानं, निश्चयेन तदेव मुक्तिकारणमिति प्रतिपादयति-जं अण्णाणी कम्म खवेदि निर्विकल्पसमाधिरूपनिश्चय-रत्नत्रयात्मकविशिष्टभेदज्ञानाभावादज्ञानी जीवो यत्कर्म क्षपयति। काभि: करणभूताभिः। भवसयसहस्सकोडीहिं भवशतसहस्रकोटिभिः। तं णाणी तिहिं गुत्तो तत्कर्म ज्ञानी जीवस्त्रिगुप्ति-गुप्तः सन् खवेदि उस्सासमेत्तेण क्षपयत्युच्छ्रासमात्रेणेति। तद्यथा-बहिर्विषये परमागमाभ्यास-बलेन यत्सम्यकपरिज्ञानं तथैव श्रद्धानं व्रताद्यनुष्ठानं चेति त्रयं, तत्त्रयाधारेणोत्पन्नं सिद्धजीवविषये सम्यकपरिज्ञानं श्रद्धानं तद्गुणस्मरणानुकूलमनुष्ठानं चेति त्रयं, तत्त्रयाधारेणोत्पन्नं विशदाखण्डैकज्ञानाकारे स्वशुद्धात्मनि परिच्छित्तिरूपं सविकल्पज्ञानं स्वशुद्धात्मोपादेयभूतरुचिविकल्परूपं सम्यग्दर्शनं तत्रैवात्मनि रागादिविकल्पनिवृत्तिरूपं सविकल्पचारित्रमिति त्रयम्। तत्त्रयप्रसादेनोत्पन्नं यन्निर्विकल्पसमाधिरूपं निश्चयरत्नत्रयलक्षणं विशिष्टस्वसंवेदनज्ञानं तदभावादज्ञानी जीवो बहुभवकोटिभिर्यत्कर्म क्षपयति, तत्कर्म ज्ञानी जीवः पूर्वोक्त ટીકાઃ- જે કર્મ, (અજ્ઞાનીને) ક્રમ પરિપાટીથી તથા અનેક પ્રકારના બાળતારૂપ ઉદ્યમથી પાકતું થયું, રાગદ્વેષ ગ્રહણ કર્યા હોવાને લીધે સુખદુઃખાદિ વિકારભાવે પરિણમતો હોવાથી ફરીને સંતાન આરોપતું જાય એવી રીતે, લક્ષ કોટિ ભવો વડે, ગમે તેમ કરીને (-મહા મુશ્કેલીથી), અજ્ઞાની ઓળંગી જાય છે, તે જ કર્મ, (જ્ઞાનીને) સ્યાત્કારકેતન આગમજ્ઞાન, તત્ત્વાર્થશ્રદ્ધાન ને સંયતત્વના યુગપદપણાનો અતિશય પ્રસાદથી પ્રાપ્ત કરેલી શુદ્ધજ્ઞાનમય આત્મતત્ત્વની અનુભૂતિ જેનું લક્ષણ છે એવા જ્ઞાનીપણાના સદ્દભાવને લીધે કાય-વચન-મનનાં કર્મોના *ઉપરમ વડે ત્રિગુપ્તપણું પ્રવર્તતું હોવાથી પ્રચંડ ઉદ્યમ વડે પાકતું * ५२ = विराम; मटही ४ju. [शानीने रानी५॥ने सीधे डाय-वयन-मन संबंधी हार्यो सटही. ४पाथी त्रिगुप्त प्रवत छ.] Please inform us of any errors on rajesh@AtmaDharma.com

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548