Book Title: Pravachana sara
Author(s): Kundkundacharya, Himmatlal Jethalal Shah
Publisher: Digambar Jain Swadhyay Mandir Trust

View full book text
Previous | Next

Page 488
________________ Version 001: remember to check http://www.AtmaDharma.com for updates કહાનજૈનશાસ્ત્રમાળા ] ચરણાનુયોગસૂચક ચૂલિકા ૪૫૩ अथैकण्यस्य मोक्षमार्गत्वमवधारयन्नुपसंहरतिअढेसु जो ण मुज्झदि ण हि रज्जदि णेव दोसमुवयादि। समणो जदि सो णियदं खवेदि कम्माणि विविहाणि।। २४४ ।। अर्थेषु यो न मुह्यति न हि रज्यति नैव द्वेषमुपयाति। श्रमणो यदि स नियतं क्षपयति कर्माणि विविधानि।। २४४।। यस्तु ज्ञानात्मानमात्मानमेकमग्रं भावयति, स न ज्ञेयभूतं द्रव्यमन्यदासीदति। तदनासाद्य च ज्ञानात्मात्मज्ञानादभ्रष्टः स्वयमेव ज्ञानीभूतस्तिष्ठन्न मुह्यति, न रज्यति, न द्वेष्टि; भवतीत्युपदिशति-अढेसु जो ण मुज्झदि ण हि रज्जदि णेव दोसमुवयादि अर्थेषु बहिःपदार्थेषु यो न मुह्यति, न रज्यति, हि स्फुटं, नैव द्वेषमुपयाति, जदि यदि चेत्' सो समणो स श्रमण: णियदं निश्चितं खवेदि विविहाणि कम्माणि क्षपयति कर्माणि विविधानि इति। अथ विशेष:-योऽसौ दृष्टश्रुतानुभूतभोगाकाङ्क्षारूपाद्यपध्यानत्यागेन निजस्वरूपं भावयति, तस्य चित्तं बहिःपदार्थेषु न गच्छति, ततश्च बहिःपदार्थचिन्ताभावान्निर्विकारचिच्चमत्कारमात्राच्च्युतो न भवति। तदच्यवनेन च रागाद्यभावाद्विविधकर्माणि विनाशयतीति। ततो मोक्षार्थिना निश्चलचित्तेन निजात्मनि भावना कर्तव्येति। इत्थं वीतरागचारित्रव्याख्यानं श्रुत्वा केचन वदन्ति-सयोगिकेवलिनामप्येकदेशेन चारित्रं, परिपूर्णचारित्रं पुनरयोगिचरमसमये भविष्यति, तेन कारणेनेदानीमस्माकं सम्यक्त्वभावनया भेदज्ञानभावनया च पूर्यते, चारित्रं पश्चाद्भविष्यतीति। नैवं वक्तव्यम्। अभेदनयेन ध्यानमेव चारित्रं, तच्च ध्यानं केवलिनामुपचारेणोक्तं, चारित्रमप्युप-चारेणेति। यत्पुनः समस्तरागादिविकल्पजालरहितं शुद्धात्मानुभूतिलक्षणं सम्यग्दर्शन હવે, એકાગ્રતા તે મોક્ષમાર્ગ છે એમ (આચાર્યભગવાન) નક્કી કરતા થકા (મોક્ષમાર્ગप्रशाननी) ५संह॥२. ४२ : નહિ મોહ, ને નહિ રાગ, દ્વેષ કરે નહીં અર્થો વિષે, તો નિયમથી મુનિરાજ એ વિધવિધ કર્મો ક્ષય કરે. ૨૪૪ अन्वयार्थ:- [ यदि यः श्रमणः ] हो. श्रम [ अर्थेषु ] पोमi [ न मुह्यति ] भोई तो नथी, [ न हि रज्यति] २२॥ २तो नथी, [न एव द्वेषम् उपयाति ] द्वेष ६२तो नथी, [ सः] तो ते [नियतं] नियमथी (योस.) [ विविधानि कर्माणि ] विविध भॊने [क्षपयति ] पाये छे. ટીકાઃ- જે જ્ઞાનાત્મક આત્મારૂપ એક અગ્રને (-વિષયને) ભાવે છે, તે શેયભૂત અન્ય દ્રવ્યનો આશ્રય કરતો નથી, અને તેનો આશ્રય નહિ કરીને જ્ઞાનાત્મક આત્મજ્ઞાનથી અભ્રષ્ટ એવો તે સ્વયમેવ જ્ઞાની રહેતો થકો, મોહ કરતો નથી, રાગ કરતો નથી, દ્વેષ Please inform us of any errors on rajesh@AtmaDharma.com

Loading...

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548