________________
१४
જૈન તકભાષા ननु स्वव्यवसायित्वस्य प्रमाणफलत्वप्रतिपादने स्वपरव्यवसायित्वस्य प्रमाण-फलत्वं प्रतिपादयतः प्राक्तनग्रन्थस्य विरोधः स्यात्, तथा चोक्तम् - प्रमाणनयतत्त्वालोके 'स्वपरव्यवसितिक्रियाख्याज्ञाननिवृत्त्याख्यं फलं तु साध्यं प्रमाणनिष्पाद्यत्वादिति' (६/१६), सौगतमतप्रवेशापत्तिश्च स्यात्, तेषां मते प्रमाणफलयोरभिन्नत्वादिति चेत्, न, अभिप्रायापरिज्ञानात्, यद्यपि ज्ञानं स्वं परं चोभयं प्रकाशयति तथापि तदीयं स्वमात्रप्रकाशनं फलकोटौ साक्षानिपतति । स्वमात्रप्रकाशनोक्तावपि, वस्तुतो ज्ञानात्मकस्य स्वप्रकाशनस्य स्वविषयविषयकत्वान्यथानुपपत्त्या परप्रकाशनगर्भितत्वमपि, 'विषयनिरूप्यं हि ज्ञानं, ज्ञानवित्तिवेद्यो विषय' इति न्यायात्पर्यवस्यति । इदमत्र तात्पय - अज्ञाननिवृत्तिरेव प्राक्तनग्रन्थोक्तं सामान्यफलं, अज्ञाननिवृत्तिश्चार्थज्ञातताव्यवहारप्रयोज्या, अर्थज्ञातताव्यवहारश्च स्वव्यवसायनिबन्धन एवेति स्वव्यवसितौ सत्यां परव्यवसायस्यार्थादेव लभ्यत्वेन परव्यवसितेः साक्षात् फलत्वाभिधानं ग्रन्थकृता नाऽऽदृतम् गौरवादेवेति, अर्थतस्तु तदपि स्वीकृतमेव किन्तु स्वरूपमात्रविशेषणार्थमुपयुज्यमानत्वेन साक्षात् फललक्षणाङ्गत्वेन न निविष्टमिति ध्येयम् । ग्रन्थकर्तुरयमभिप्रायोऽग्रेतनेन 'ज्ञानाभावनिवृत्तिस्त्वर्थज्ञातताव्यवहारनिबन्धनस्वव्यवसितिपर्यवसितैव सामान्यतः फलमिति द्रष्टव्यमिति ग्रन्थेन स्फुटीभविष्यति। केवलं शब्दभेदस्याकिञ्चित्करत्वेन नात्रप्राक्तनग्रन्थविरोधः। यथा च न सौगतमतप्रवेशापत्तिस्तथा चाने स्फुटीभविष्यति । ननु तथापि पूर्वाचार्यायग्रन्थविरोधापत्तिर्दुर्वारैव, तथाहि‘फलमर्थप्रकाशः' (प्र.मी.१/१/३४) इत्यनेन तत्राऽर्थसंवेदनम् प्रमाणफलमभिहितमत्र तु स्वप्रकाशनं तथोच्यत इति कथं न तद् विरुद्धयेत इति चेत्, न, प्रमाणमीमांसायां स्वव्यवसायस्य संशयादिज्ञानसाधारण्येनोपेक्षितत्वादेवाऽनिवेशस्तथा चोक्तम् तत्रैव - ‘स्वप्रकाशनं सन्नप्यलक्षणं, अप्रमाणेऽपि भावात्' (प्र.मी.१/१/३) इत्यर्थप्रकाशकज्ञानमात्रे स्वप्रकाशकत्वस्य नियमतः सद्भावे सत्यप्यप्रमाणज्ञानेऽपि तस्य सद्भावादुपेक्षितं तद् । इदञ्चात्र सूक्ष्ममीक्षणीयं- स्वप्रकाशनांशस्त्वशेषज्ञानस्य प्रमात्मक एव, अर्थप्रकाशनांश एव हि भ्रमादिसम्भवादतो यथार्थज्ञान एव प्रामाण्यमिच्छताऽर्थनिर्णय एव प्रामाण्याप्रामाण्यविकल्पसम्भवात्तत्रैव फलत्वमप्येष्टव्यम् । इत्थमेव 'सम्यगर्थनिर्णयः प्रमाणम्' (प्र.मी. - १/१/२) इत्यत्र सम्यक्पदसार्थक्यसम्भवात् । इत्थञ्चात्रापि प्रमाणफलाभेदसिद्धेरक्षततया केवलं शब्दभेद एवायातः स चाकिञ्चित्कर इत्युक्तं प्रागिति न पूर्वाचार्यांयग्रन्थविरोधः । વિશેષણોની સાર્થકતા શું ?
ઉત્તર : યદ્યપિ સ્વરૂપદર્શક વિશેષણો કોઈ અતિવ્યાખ્યાદિ દોષોને દૂર કરવા સમર્થ નથી છતાં પણ અન્ય રીતે આ વિશેષણોની સાર્થકતા સિદ્ધ કરી શકાય છે. કેટલાક લોકો કોઈ વિવક્ષિત વસ્તુના મિથ્યા અયથાર્થ સ્વરૂપને માની બેઠા હોય અથવા વસ્તુના યથાર્થ સ્વરૂપ અંગે નિર્ણયવાળા ન હોય તો આ સ્વરૂપદર્શક વિશેષણો તે વસ્તુના યથાર્થ સ્વરૂપને જણાવવા દ્વારા કેટલાકના સંશય, વિપર્યયાદિને દૂર કરી શકે છે. (આ અપેક્ષાએ એમ કહી શકાય કે સ્વરૂપદર્શક વિશેષણો પણ મિથ્યાસ્વરૂપનું વ્યાવર્તન કરતા હોવાથી કંઈક અંશે વ્યાવર્તક પણ બને છે. માટે આવા સ્વરૂપદર્શક વિશેષણો પણ સાર્થક છે. પ્રમાણના સામાન્ય લક્ષણનું પદકૃત્ય અહીં પૂર્ણ થયું.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org