Book Title: Jain Tarkabhasha
Author(s): Yashovijay Upadhyay, Udayvallabhvijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 118
________________ પ્રમાણપરિચ્છેદ ८८ विषयसङ्कलनात्मकप्रत्यभिज्ञानवत आवापोद्वापाभ्यां सकलव्यक्त्युपसंहारेण च वाच्यवाचकपूर्ववर्णानामनुक्रमविशिष्टानां स्मरणे पदविषयसङ्केतस्मरणे च 'विभक्त्यन्तं पदमि'त्याकारे सति ‘सुबन्तं तिङन्तं च पदमिति प्रत्यभिज्ञानमुपजायते । तथा पूर्वपूर्वपदश्रवणाहितसंस्कारस्यान्त्यपदश्रवणानन्तरमनुक्रमविशिष्टपूर्वपदानां वाक्यगोचरसङ्केतस्य च स्मरणे सति ‘वाक्यमिदमिति प्रत्यभिज्ञानमुन्मज्जति । एवं तयोर्वर्णपदवाक्यग्रहणं प्रत्यभिज्ञानात् । ततोऽपि मध्यमवृद्धं चेष्टमानमवलोकयन् बालस्तटस्थस्तस्यार्थप्रतीति तावत्कल्पयति, आत्मनि तत्पूर्विकायाश्चेष्टाया दृष्टत्वात् । प्रमाणान्तरासन्निधावेतद्वृद्धप्रयुक्तशब्दसमनन्तरं च प्रवृत्तोऽयमित्यत एव शब्दात्किमप्यनेन प्रतिपन्नमिति मन्यते । तमर्थं तेन वृद्धेनानीयमानमेवमवबुध्यतेऽयमर्थोऽमुतः शब्दादनेनावगत इति स चार्थोऽनेकगुणक्रियाजातिव्यक्त्यादिरूपसङ्कुल उपलभ्यते । शब्दोऽप्यनेकपदकदम्बकात्मा श्रुतः, तत्कतमस्य शब्दांशस्य कतमोऽर्थांशो वाच्य इति सन्दिग्धे कालान्तरे च गां नयेत्यादिकमाकर्णयति। तत्र च गोशब्दानुवृत्तिमानयेत्यस्य तु व्यावृत्तिं विभावयति । तदनुसारेण च गवादेरप्यर्थस्यानुवृत्तिव्यावृत्ती समाकलयति । तत इत्थमावापोद्वापाभ्यामनन्तरमीदृग्जातीयोऽर्थ ईदृग्जातीयस्य वाच्यः सोऽपि तस्य वाचक इतीत्थं वाच्यवाचकभावालम्बनसकलविवक्षितवाच्यवाचकविशेषसमुल्लेखशेखरस्तर्कः समुल्लसति । क्वचित्तु यदा कश्चित्तर्केण वाच्यवाचकभावं स्वयमवेत्य परमप्यनेनैव तमवबोधयिष्यंस्तदनुसारिपरसन्ताने तर्कोत्पत्तिहेतुं वचनं परार्थतर्करूपमुच्चारयति । तदा तस्मादप्यस्योल्लासः । यथा कश्चन पिता परमवत्सलो वत्साय कञ्चन पदार्थं पुरस्कृत्य कथयति, इत्थम्भूतमित्थम्भूतस्य शब्दस्य वाच्यं वत्स ! जानीहि, तदाऽसावुपलम्भानुपलम्भद्वारेण तथा प्रतिपद्यमानस्तर्कादेव वाच्यवाचकभावं प्रतिपद्यते । इयं च व्याप्त्या वाच्यवाचकभावप्रतीतिरुपदर्शिता। शृङ्गग्राहिकया तु नियतायां व्यक्तावयं पुरोवर्ती भावोऽस्य शब्दस्य वाच्य इत्यागमादेरपि सा भवति । तदूर्ध्वं तु व्याप्त्या तं प्रति, यस्तर्कादेव प्रत्येति, ‘अये ! इत्थंभूतः सर्वः सर्वस्य वाचको वाच्यश्चेति । ननु तर्कः स्वविषयेण सम्बद्धो वाऽसम्बद्धो वा तमवबोधयति ? न तावदसम्बद्धः, अतिप्रसङ्गात् । अथ सम्बद्धः, कुतस्तत्सम्बन्धप्रतिपत्तिः । प्रत्यक्षादनुमानात्तर्कान्तरात् प्रमाणान्तराद्वा । न तावत्प्रत्यक्षात्, तस्य तदविषयत्वात् । नाप्यनुमानात्, अनवस्थानुषङ्गात् । तदपि ह्यनुमानं तर्कपूर्वकमिति तत्रापि तर्कस्य स्वविषयेण सम्बन्धग्राहकमनुमानान्तरमन्वेषणीयमिति। नापि तर्कान्तरात्, तत एव, तर्कान्तरस्यापि स्वविषयसम्बन्धबोधपूर्वकत्वात्तस्याप्यपरतर्कनिबन्धनत्वात् । नापि प्रमाणान्तरात्, तस्यापि प्रमाणत्वेऽपि પદાર્થ સાથેનો વાચ્ય-વાચકભાવ જાણતો નથી, તે પ્રયોજયપુરુષની ગાય લાવવાની પ્રવૃત્તિ જોઈને એવું સમજે છે કે પ્રયોજક પુરુષે પેલાને “ગાય લાવ' એમ કહ્યું અને પેલા પ્રયોજ્યપુરુષે આવી પ્રવૃત્તિ કરી. તેની આ પ્રવૃત્તિનું કારણ જ્ઞાન છે અને તેના જ્ઞાનનું કારણ પ્રયોજકવૃદ્ધના આ શબ્દો छ." माम, 'प्रयोठयवृद्धनी प्रवृत्तिनु २५(भूत ४ शान छ, ते शाननी २४त। (= ४नता) પ્રયોજકવૃદ્ધના આ શબ્દોમાં છે' આવું અનુમાન કરતા પેલા ત્રાહિત માણસને તે પદોના पायवाय मावनी प्रतीति थ य छे. ते रीते - ‘घटम् आनय' 5 अटले पेतो भारास घट्-अम्... आ-न-य... मारीत अंत्य सवय सोमणे, पूर्व अवयवनुं स्म२५॥ . मने पछी माधु Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276