Book Title: Jain Tarkabhasha
Author(s): Yashovijay Upadhyay, Udayvallabhvijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 223
________________ ૨૦૪ જૈન તર્કભાષા वहाराभासः, यथा चार्वाकदर्शनम् चार्वाको हि प्रमाणप्रतिपन्नं जीवद्रव्यपर्यायादिप्रविभाग कल्पनारोपितत्वेनापलुतेऽविचारितरमणीयं भूतचतुष्टयप्रविभागमानं तु स्थूललोकव्यवहारानुयायिमानत्वं हेतुर्ब्रह्मात्मना व्यभिचारी, तस्य प्रतीयमानत्वेऽपि सत्यरूपत्वाभ्युपगमादप्रतीयमानत्वे त्वस्य तद्विषयकवचसामप्रवृत्तेर्मूकतैव तेषां श्रयस्करी । साध्यविकलश्च दृष्टान्तः शुक्तिकारजतयोरपि प्रपञ्चान्तर्गतत्वेन तत्र मिथ्यात्वस्य साध्यमानत्वात् । किञ्च, प्रपञ्चवाधकमिदमनुमानं प्रपञ्चाद् भिन्नमभिन्नं वा ? यदि भिन्नं तर्हि सत्यमसत्यं वा ? यदि सत्यं तर्हि तद्वदेव प्रपञ्चस्यापि सत्यत्वं स्यात्, तथा च भग्नोऽद्वैतवादप्राकारः | अथासत्यम्, तर्हि तस्यावस्तुत्वादेव न तेन किञ्चित् साधयितुं शक्यम् । अभिन्नं चेत्, प्रपञ्चस्वाभाव्यात्तस्यापि मिथ्यारूपतया न स्वसाध्यसाधनसामर्थ्यमिति नाद्वैतवादस्तत्त्वतस्तात्त्विकः । 'प्रमाणप्रतिपन्नमिति - अहं सखी दाखी वेत्यादि प्रत्यक्षमेव तावद देहातिरिक्तात्मद्रव्यलक्षणविषयमन्तरेण नोपपद्यते । न च तत्रत्याहम्प्रत्ययो देहालम्बन इति वाच्यम्, अन्धकारादौ बाह्यशरीरेण सहालोकादिसापेक्षचक्षुरिन्द्रियस्य स्वविषयग्राहकस्य सन्निकर्षलक्षणव्यापाराभावेऽप्युपजायमानस्य 'अहं सुखी'त्यादि प्रत्यक्षस्य चाक्षुषत्वासम्भवात्, मानसस्य च तस्य बहिरिन्द्रियसहकारेण जायमानस्य बहिर्देहादिविषयकत्वासम्भवेऽन्तर्व्यवस्थितात्मविषयकत्वमेवाभ्युपगन्तव्यमिति प्रत्यक्षप्रमाणसिद्ध आत्मा । अस्ति चानुमानप्रमाणमपि तथाहि - इन्द्रियं सकर्तृकं करणत्वात् वास्यादिवत्, न च शरीरमेव तत्र कर्ता इति वाच्यम् वाल्यशरीरत्यागेन यौवने बाल्यकालानुभूतस्य स्मरणं न स्याद् अनुभवस्मरणयोः सामानाधिकरण्यप्रत्यासत्त्योत्पादनियमादन्यथा अन्यदृष्टस्य स्मरणमन्यस्य स्यादिति । शरीरभिन्न आत्मा एव कर्तृत्वेनऽभ्युपेयः । किञ्च, ज्ञानादयः साश्रया गुणत्वाद् रूपादिवद् इत्यप्यनुमानं द्रष्टव्यम् । न च शरीरमेवाश्रय इति कल्पयितुं न्याय्यम्, तथा सति स्थूलदेहस्य ज्ञानाधिक्यं, कृशशरीरस्य च मतिमान्द्यं स्यात्, न चैतद् दृष्टमिष्टं वा, अन्यथाऽपि दर्शनादिति शरीरव्यतिरिक्तो जीव एवाश्रयत्वेन कल्प्यते। शब्दप्रमाणमपि अत्र प्रवर्तते तथाहि- शब्दकोशे तावत् जीवप्रतिपादनपराश्चेतन-आत्मा-इत्यादिशब्दा देहप्रतिपादनपरात् शरीर-काया-देहादि-लक्षणाच्छब्दाद् भिन्नार्थतया કે સમસ્ત અદ્વૈતવાદિ દર્શન (વેદાન્ત વગેરે)ની માન્યતા તથા સાંખ્યદર્શનની માત્ર પ્રકૃતિ જ મૂળતત્ત્વ છે मेवी) मान्यता. વ્યવહારાભાસ : દ્રવ્ય-પર્યાયોના અપારમાર્થિક વિભાગને જે માને તે અભિપ્રાયને વ્યવહારાભાસ જાણવો. જેમ કે ચાર્વાકદર્શનની માન્યતા. સામાન્યથી (= સ્કૂલ રીતે) જોઈએ તો બાહ્ય ઈન્દ્રિયો દ્વારા પ્રત્યક્ષ અનુભવાતા પદાર્થોની સત્તા જ લોકમાં મનાય છે અને લોકવ્યવહાર પણ તેના આધારે જ ચાલે છે અને આ વ્યવહાર યથાર્થ પણ છે. પરંતુ ઈન્દ્રિયપ્રત્યક્ષ હોય એટલું જે માનીએ બાકી ઈન્દ્રિયોથી અગમ્ય કોઈ પદાર્થો છે જ નહીં' આવું કોઈ માને ત્યારે એ માન્યતા વ્યવહારાભાસરૂપ બની જાય છે. ચાર્વાકદર્શન અતીન્દ્રિય એવા જીવ-પુણ્ય-પાપ-સ્વર્ગ-નરક-મોક્ષાદિ પદાર્થોને માનતું નથી. પ્રમાણ દ્વારા સિદ્ધ થયેલા એવા જીવ અને તેના જ્ઞાનાદિરૂપ પર્યાયોને તે લોકો માનતા નથી અને દેખ્યું એટલું સાચું ના ભૂલ લોકવ્યવહારને Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276